Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 62
________________ सवृत्तिकं मण्डलप्रकरणम् । (५५) दशोत्तराणि त्रीणि सहस्राणि ३०१५, एतेषां सप्तषष्टया भागहारे लब्धाः पञ्चचत्वारिंशन्मुहूर्तास्तदेषां कालसीमा ॥८९॥ अथ त्रिंशन्मुहूर्त्तचन्द्रयोगीनि पञ्चदशनक्षत्राण्याह अवसेसा नक्खत्ता, पन्नरस हवंति तीसह मुहुत्ता। चंदम्मि एस जोगो, णक्खत्ताणं मुणेयव्वो ॥ १० ॥ अव० । 'अवशेषाणि' उक्तत्रयोदशव्यतिरिक्तानि श्रवण १ धनिष्ठा २ पूर्वभद्रपदा ३ रेवती ४ अश्विनी ५ कृत्तिका ६ मृगशिरः ७ पुष्य ८ मघा ९ पूर्वफाल्गुन्यः १० हस्त ११ चित्रा १२ मूल १३ अनुराधा १४ पूर्वाषाढा १५ एतन्नामानि पञ्चदशापि नक्षत्राणि चन्द्रेण सह प्रत्येकं त्रिंशन्मुहूर्त्तसंयोगीनि भवन्ति । तथाहि-एतेषां नक्षत्राणां प्रत्येकं परिपूर्णानां सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भः, ते च त्रिंशद्गुणिता जाते वे सहस्र दशोत्तरे, ते च सप्तषष्टया भागे हृते लब्धास्त्रिंशदेव, तदेषां त्रिंशन्मुहूर्ताः कालसीमाप्रमाणम् । सूर्यस्यापि नक्षत्रयोगो गाथाभिरिमाभिर्जेयः- " अभिइ छ च्च मुहुत्ते, चत्तारि अ केवले अहोरत्ते । सूरेण समं गच्छइ, इत्तो सेसाण वुच्छामि ॥ १ ॥ सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य । वच्चंति मुहुतेकवीसइ छ च्चेवऽहोरत्तो ॥ २ ॥ तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ततिगे, चेव वीसं अहोरत्ते ॥ ३ ॥ अवसेसा णक्खत्ता, पन्नरस सूरं सह गया जंति । बारस चेव मुहुत्ते, तेरस पुण्णे अहोरत्ते ॥ ४ ॥९०॥ अथ नक्षत्रपटले सर्वमध्ये किम् , उपरि किम् , अधश्च किं नक्षत्रम् ? इत्याह

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72