Page #1
--------------------------------------------------------------------------
________________
• आत्मानंद ग्रन्थमाला रत्न (७३)
मंडलप्रकरण।
-+3+
संपादक
मुनि चतुरविजय.
>38+
प्रकाशिका
श्री जैन आत्मानंद सभा.
भावनगर,
*
Page #2
--------------------------------------------------------------------------
________________
श्रीआत्मानन्द-ग्रन्थरत्नमाला-त्रिसप्ततितमं रत्नम् (७३)
r
a
n
~
~
~
~
-~
-01
-.-.-
-.-
पण्डित-श्रीविनयकुशलविरचितं स्वोपज्ञवृत्तिसमेतं
मण्डलप्रकरणम्।
संपादकः
मुनिचतुरविजयः।
प्रकाशयित्रीभावनगरस्था श्रीजैन-आत्मानन्दसभा ।
--
--
वीरसंवत् २४४८ आत्मसंवत् २७
वाराणकाः।
विक्रमसंवत् १९७८ निस्तसंवत् १९२२
।
Page #3
--------------------------------------------------------------------------
________________
-
--
--
-
--
--
---
-
---
-
-
-
इदं पुस्तकं भावनगरस्थ लल्लुभाई-तनूज-गुलाबचन्द्रेण स्वकीय “आनन्द प्रीन्टींग प्रेस" नाम्नि मुद्रणालये मुद्रितम् ।
-
o
-o
-"
wrwww
8-98
-
-
-
-
-
* AAA-AASAS
भावनगरीय-श्री जैन आत्मानन्दसभाकार्याधिकारिणा गांधी त्रिभुवनदासात्मजेन वल्लभदासेन प्रकाशितम्।
--
-
-
-
-
-
--
-
-
Sarvv
Page #4
--------------------------------------------------------------------------
________________
॥ न्यायां भोनिधि-श्रीमद्विजयानन्दसूरिः ॥
जन्म १८९३.
આનદ મીટીંગ પ્રેસ ભાવનગર
स्वर्ग १९५२.
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________
अथ निवेदनम् ।
इदं हि चन्द्रसूर्यादिमण्डलगतानेकवक्तव्यताप्रधानं सान्वर्थाभिधेयाभिधानं नवनवतिगाथापरिमितं मण्डलप्रकरणं नाम प्रकरणं सांप्रतकालीनमन्दमतीनामेकत्र मण्डलविचारसारजिज्ञासूनां भव्यसत्त्वानां तदवबोधाय स्वस्मृतये च जीवाजीवाभिगमादिसूत्रगाथाभिः वृहद्च्छगगनाङ्गणदिनमणिश्रीमन्मुनिचन्द्रसूरिविरचितसमग्रमण्डलविचारकुलकगाथाभिः पृथक्टथगागमप्रकीर्णकगतविप्रकीर्णभूतमण्डलविचारलेशाधारविरचितनवीनगाथाभिश्च श्रीमता पण्डितविनयकुशलेन सङ्कलितमित्यस्य प्रकरणस्य प्रान्तगाथाव्याख्यानतः प्रकटमेव ।
अस्य प्रकरणस्योपरि वाचकवर्गस्य सुखावबोधाय जिनागम-उपाङ्ग--प्रकरणादिगतमण्डलविचारानुसरणशीलाऽतीवस्फुटतरव्याख्याना अनेनैव पण्डितप्रवरेण खोपज्ञा वृत्तिरपि लिखितेत्यस्य प्रशस्तिगतद्वितीयकाव्येन स्फुटमेवावसीयते ।
खोपज्ञवृत्तियुतस्यास्य प्रकरणस्य विनिर्माता कदा कतमं महीमण्डलं मण्डयामास? इति जिज्ञासायां जातायां प्रस्तुतप्रकरणस्य प्रशस्तिगतेन"गुरुतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः ।
श्रीमदकब्बरनरवरविहितप्रबलप्रमोदा ये ॥ १ ॥ तेषां शिशुना वृत्तिः खोपज्ञा व्यरचि विनयकुशलेन । मूलत्राणाहपुरे करबाणरसेन्दु १६५२ मितवर्षे ॥ २॥"
Page #7
--------------------------------------------------------------------------
________________
इत्यनेन काव्यद्वयेन तथा श्रीमन्महेन्द्रसूरिविरचितविचारसप्त
तिकामकरणवृत्तिगतेन
66
श्रीतपगणगगनाङ्गणसूरश्रीविजयदेवसूरीणाम् ।
विनियोगाद् वृत्तिरियं विनिर्मिता विनयकुशलेन ॥ १ ॥ "
इत्येतत्काव्येन च श्रीमद्विजयसेन सूरिश्रीविजयदेवसूर्योः समानकालवर्तित्वेन विक्रमायद्विपञ्चाशदधिकषोडशशताब्दयां मण्डलमकरवृत्तिविरचितत्वेन च श्रीमतो विनयकुशलस्य सत्तासमयोऽपि निविवादं विक्रमीय सप्तदशशताब्दयामेव निश्रीयते ।
अनन्तरोक्तग्रन्थव्यतिरिक्तो ज्योतिश्चक्रविचारनामा ग्रन्थः श्रीमता विनयकुशलेन कृतोऽस्तीति श्रूयते परं न समासादि ।
अस्य प्रकरणस्य मुद्रणे द्रव्यसाहाय्यं भावनगरवास्तव्यश्रीमालिज्ञातीय - श्रेष्ठि- माणिक्यचन्द्र - तनूज - उजमसी इति नाम्ना कृतम् । तदस्यैतत्कार्यं प्रशंसार्हम् ।
एतस्य संशोधनसमये प्रवर्तक श्रीमत्कान्तिविजयपुस्तकसंग्रहाद्वे नव्ये अनतिशुद्धे पुस्तके समुपलब्धे ।
यद्यप्यनन्तरोदितपुस्तकद्वितयाधारेण सावधानतया संशोधनमकारि तथाप्यत्र दृष्टिदोषेण वचनाशुद्धिरवशिष्टा भवेत्तत्र संशोध्य वाचनीयं धीधनैरिति प्रार्थयते—
सच्चरणाजचञ्चरीकः
चतुरविजयः ।
Page #8
--------------------------------------------------------------------------
________________
॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । श्रीमद्-विनयकुशलविरचितस्वोपज्ञवृत्तिसङ्कलितं
मण्डलप्रकरणम्।
-*OKश्रीमद्वीरजिनं नत्वा, नित्यानित्यार्थदेशकम् । मण्डलादिविचारस्य, कुर्वे वृत्तिं सुबोधिकाम् ॥१॥ अन्यत्र ग्रन्थेषु विस्तराभिहितान् चन्द्रादिमण्डलादिविचारानवेश्यात्र संक्षेपेण तद्विचाराभिधित्सया मण्डलप्रकरणाभिधानस्य ग्रन्थस्येमामाद्यां गाथामाह---
पणमित्र वीरजिणिंद, भवमंडलभमणदुक्खपरिमुकं । चंदाइमंडलाई-विवारलवमुद्धरिस्सामि ॥ १ ॥
पणमिः । श्रीवीरजिनेन्द्रं 'प्रणम्य' नत्वा, किंलक्षणं वीरम् ? भवमण्डलभ्रमणस्य यदुःखं तेन परिमुक्तं-रहितं, चन्द्रादिमण्डलादिविचारलेशमुद्दरिष्यामि, जीवाभिगमाद्यागमादिति शेषः । इह चन्द्रादयः पञ्च-चन्द्र १ सूर्य २ ग्रह ३ नक्षत्र ४ तारका ५ रूपाः, ते
Page #9
--------------------------------------------------------------------------
________________
(२) विनयकुशलविरचितं चरीदिभेदेन द्विधा । तत्र चराणां मण्डलादिवरूपमिह वक्ष्य इति ॥१॥ अत्र पूर्व तावत्सा द्वीपद्वयसमुद्रद्वयगतचन्द्रसूर्याणां सङ्ख्यामाह
ससिरविणो दो चउरो, बार दुचत्ता विसत्तरी अकमा । जंबूलवणोप्राइसु, पंचसु ठाणेसु नायव्या ॥ २ ॥
ससिर । शशिनो रषयश्च द्वौ चत्वारो द्वादश द्विचत्वारिंशद् द्विसप्ततिर्नम्बूप्रभृतिप्वर्धतृतीयद्वीपेपु लवणकालोदध्योः समुद्रयोश्च पञ्चसु स्थानेषु ज्ञातव्याः । भावना यथा-द्वौ चन्द्रौ द्वौ सूर्यो जम्बूद्वीपे, एवं चत्वारो लवणसमुद्रे, द्वादश धातकीखण्डे, द्विचत्वारिंशत्कालोदधौ, द्विसप्ततिः पुष्करार्ध इति ॥ २ ॥ अथ निखिले नरलोके चन्द्रसूर्याणां सर्वाग्रमाह
बत्तीससयं चंदा, बत्तीससयं च सूरिश्रा सययं । समसेणीए सव्व, माणुसखित्ते परिभमंति ॥३॥
बत्तीस । द्वात्रिंशदधिकं शतं चन्द्रा द्वात्रिंशदधिकं शतं सूर्याश्च 'सततं' निरन्तरं अपेरध्याहारात्सर्वेऽपि मनुष्यलोके 'समश्रेण्या' जम्बूद्वीपगतमेरोः परितः पतया परिभ्रमन्ति ॥ ३ ॥ अथ चन्द्रसूर्याणां कियन्त्यः पंक्तयः कथं च संस्थिताः ? इत्याह--
चत्तारि अपंतीयो, चंदाइचाण मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किकिया पंती॥ ४ ॥ चत्ता । इह मनुष्यलोके चन्द्रादित्यादीनां चतस्रः पतयो भवन्ति,
-
-
१ आदिना स्थिरभेदो ग्राह्यः।
Page #10
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (३) तद्यथा-वे पंक्ती चन्द्राणां हे च सूर्याणामेकान्तरिते । एकैका च पंक्तिर्भवति षट्षष्टिषट्षष्टिचन्द्रसूर्यसङ्ख्या । तद्भावना चैवम्-एकः किल सूर्यो जम्बूद्वीपे मेरोदक्षिणभागे चारं चरन् वर्तते एक उत्तरभागे । तथा एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे । तत्र यो मेरोदक्षिणभागे सूर्यशारं चरन् वर्तते तत्समश्रेणिव्यवस्थितौ हौ दक्षिणभागे एव सूर्यौ लवणसमुद्रे, षडू धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराई इत्यस्यां सूर्यपंक्तौ षट्षष्टिः सूर्याः। तथा यो मेरोरुत्तरभागे सूर्यश्चारं चरन् वर्तते तस्यापि समश्रेण्या व्यवस्थितौ द्वौ सूर्यौ उत्तरभागे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराः इत्यस्यामपि सूर्यपंक्तौ सर्वसङ्ख्यया षट्षष्टिः सूर्याः । तथा यो मेरोः किल पूर्वभागे चारं चरन् वर्तते चन्द्रस्तत्समश्रेणिव्यवस्थितौ पूर्वभागे द्वौ चन्द्रमसौ लवणे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करा. इत्यस्यां चन्द्रपंक्तौ सर्वसङ्ख्यया षट्षष्टिश्चन्द्रमसः । एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पंक्तौ षट्षष्टिश्चन्द्रमसो वेदितव्याः । स्थापनाऽये विलोक्या ॥ ४ ॥ अथ नक्षत्राणां पंक्तिखरूपमाह
छप्पन्नं पंतीओ, नक्सत्ताणं तु मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किकिया पंती ॥ ५॥
छप्पन्न । नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया षट्पञ्चाशत्पङ्गयो भवन्ति । एकैका च पंक्तिर्भवति षट्षष्टिषट्षष्टिनक्षत्रपरिमाणा इत्यर्थः । तथाहि-किलास्मिन जम्बूद्वीपे दक्षिणतोऽढभागे एकस्य शशिनः परि
Page #11
--------------------------------------------------------------------------
________________
विनयकुशलविरचितं वारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्याकानि नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति । उत्तरतोऽप्यईभागे द्वितीयम्य शशिनः परिवारभृतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि । तत्र दक्षिणतोऽर्धभागे यदभिनन्नक्षत्रं तत्समश्रेणिव्यवस्थिते हे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, घट्त्रिंशदभ्यन्तरपुष्करार्धे इति सर्वसङ्ख्यया षट्षष्टिरभिजिन्नक्षत्राणि पंक्त्या व्यवस्थितानि । एवं श्रवणादीन्यपि दक्षिणतोऽईभागे पङ्क्तया व्यवस्थितानि षट्षष्टिसङ्ख्याकानि षट्षष्टिसङ्ख्याकानि भावनीयानि । तथोत्तरतोऽप्य भागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव हे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराढ़ें । एवं श्रवणादीनां सर्वनक्षत्राणां पतयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पतयः । एकैका च पंक्तिः षट्षष्टिसङ्खयेति । किञ्च जम्बूद्वीपे यस्मिन्दिने यदश्चिन्यादिनक्षत्रं दक्षिणाईभागे एकस्य चन्द्रस्य परिभोग्यं भवति तस्मिन्नेव दिने तत्समश्रेणिस्थस्य द्वितीयम्य चन्द्रस्योत्तरार्द्धभागे तन्नामकमेव नक्षत्रं परिभोग्यं भवति । एवं सर्वस्मिन् द्वीपे समुद्रे चैकनामकनक्षत्रे एव चन्द्राः सूर्याश्च समकं भवन्ति ॥५॥ अथ ग्रहाणां पंक्तिस्वरूपमाह- .
छावत्तरं गहाणं, पंतिसयं होइ मणुअलोगम्मि । . छावहि अ छावट्ठि अ, होई इकिकिया पंती ॥ ६ ॥
छावत्तरं० । ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके
Page #12
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
(५)
षट्सप्ततं पंक्तिशतं षट्सप्तत्यधिकं पंक्तिशतं भवति, एकैका च पंक्तिर्भवति षट्षष्टिः षट्षष्टिः । अत्रापीयं भावना - जम्बूद्वीपे दक्षिणार्द्धभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवान्येऽष्टाशीतिर्ग्रहाः । तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्सम श्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावङ्गारकौ लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति, एवं शेषा अप सप्ताशीतिग्रहाः पंक्त्या व्यवस्थिताः प्रत्येकं षट्षष्टिर्वेदितव्याः । एवमुत्तरतोऽप्यर्द्धभागे पूर्वोक्तदक्षिणपंक्तिसमश्रेणिस्थानामङ्गारकप्रभृतीनामष्टाशीतेग्रहाणां पंक्तयः षट्षष्टिसङ्ख्या भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्ततं पंक्तिशतम् । एकैका च पंक्तिः षट्षष्टिसंख्याकेति । पुनरुक्तं जीवाभिगमे -- "छावट्ठी पिडगाई, चंदाइच्चाण मणुअलोगम्मि | दो चंद्रा दो सूरा, य होंति इक्किक्कए पिse ॥ १ ॥ छावट्टी पिडगाई, नक्खत्ताणं तु मणुअलोगम्मि । छप्पण्णं नक्खत्ता, होंति इक्किक्कए पिse || २ || छावट्टी पिडगाई, महग्गहाणं तु मणुअलोगम्मि । छावत्तरं गहसयं, होइ उ इक्किए पिse || २ || " ' पिटकानि ' इति, अत्र चन्द्रादित्यचतुष्कं सपरिवारं पिटकाकारं पिटकमुच्यते, अयमर्थो हारिभद्रयां जीवाभिगमलघुवृत्तौ । किञ्चात्र प्रथमं नक्षत्रगाथा नक्षत्राणां चन्द्रादिभोग्यत्वेनोक्ता, ग्रहा न चन्द्रादिभोग्या इति ज्ञापनाय व्युत्क्रमः || ६ || अथैतेषां चन्द्रादीनां भ्रमणस्वरूपमाह
,
म
"
१ ' षट्सप्तति' इत्यपि । २ द्वौ चन्द्रमसौ द्वावादित्यौ इतिरूपम्, न तु चन्द्रचतुष्कमादित्यचतुष्कमिति ।
Page #13
--------------------------------------------------------------------------
________________
(६)
विनयकुशलविरचितं ते मेरु पडिअडता, पयाहिणावत्तमंडला सव्वे । अणवडिअजोगेहि, चंदा सूरा गहगणा य ॥ ७ ॥ ते मेरू० । 'ते' पूर्वोक्ता नरलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्याः सर्वे ग्रहगणाः सर्वाणि नक्षत्राणि ध्रुवादिवर्न सर्वे तारकाश्च जम्बूद्वीपगतममुमेव मेरुमनु-लक्षीकृत्य प्रदक्षिणावर्त्तमण्डलाः सन्तो नित्यमहोरात्रं परिभ्रमन्ति, न तु क्षणमात्रं क्वापि कदापि तिष्ठन्ति । गाथोत्तरार्द्धन विशेषमाह-'अणवट्ठिअ' त्ति । चन्द्राः सूर्या ग्रहगणाश्च 'अनवस्थितयोगैः' प्रतिदिनं पृथक् पृथक् मण्डलैः परिभ्रमन्ति, तेन चन्द्रादित्यग्रहाणां मण्डलान्यनवस्थितानि, यथायोगमन्यस्मिन्नन्यस्मिन्मण्डले तेषां संचरिष्णुत्वात् । चकारान्नक्षत्रतारकाणां मण्डलान्यवस्थितानि ज्ञेयानि, प्रतिदिनं तेष्वेव निननिजमण्डलेषु संचरणात् । तथा ध्रुवपार्श्ववर्त्तिनस्तारा ध्रुवमेव परिवर्त्तयन्ति न मेरुम् । ध्रुवाश्चत्वारो जम्बूद्वीपे ज्ञेयाः; यदुक्तं “नमिऊण सजल" अभिधलघुक्षेत्रसमासप्रान्तगाथाया वृत्तौ श्रीहरिभद्रसूरिभिर्यथा--" इह मेरोश्चतुर्दिशं चत्वारो ध्रुवतारा मन्तव्याः, तत्परिवारतारकास्तु तेषामेव तारकाणां चतुर्णा समन्तात्परिभ्रमन्ति न तु मेरोः प्रादक्षिण्येन ” इति ॥५॥ अथ जम्बूद्वीपे चन्द्रादीनां चारक्षेत्रविष्कम्भमानमाह
दीवे असिइसंयं जो-अणाण तीसहिअ तिन्नि सय लवणे । खित्तं पणसयदसहिअ, भागा अडयाल इगसट्टा ॥८॥ दीवे० । 'द्वीपे ' जम्बूद्वीपे चन्द्रयोः सूर्योश्च । क्षेत्रं' चारक्षेत्रं विष्कम्भतोऽशीत्यधिकं शतं १८० योजनानाम् , लवणे च त्रिंश
Page #14
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (७) दधिकानि त्रीणि शतानि योजनानां ३३०, उभयोर्मीलने दशाधिकानि पञ्चशतानि योजनानामष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य ५१०४६ । नक्षत्राणामपि चारक्षेत्रमेतदेव, सर्वाभ्यन्तरसर्वबाह्यमण्डलयोः परस्परं दशाधिकपञ्चशतयोजनप्रमाणान्तरालस्योक्तत्वात् । ग्रहणां तारकाणां च चारक्षेत्रविष्कम्भमानं व्यक्त्या शास्त्रेषु नोपलभ्यत इति ॥ ८ ॥ अथ जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च संख्याज्ञापनपूर्वकं प्रत्येकं कति मण्डलानि भवन्तीत्याहइह दीवे दुनि रवी, दुनि अचंदा सया पयासंति । चुलसीसयमेगेसि, मंडलमन्नसि पन्नरस ॥६॥ ... इह दिवे० । ' इह ' अस्मिन् जम्बूद्वीपे द्वौ सूर्यों द्वौ च चन्द्रौ सदा प्रकाशयतः । तत्र ‘एगेसिं'ति प्रथमोद्दिष्टयो रव्योश्चतुरशीत्यधिकं शतं मण्डलानि भवन्ति । 'अन्नेसिं'ति पश्चादुद्दिष्टयोश्चन्द्रयोः पञ्चदशसंख्याकानि भवन्ति । नक्षत्रमण्डलानि चाष्टौ सन्ति, तत्वरूपं नक्षत्राधिकारे भावयिप्यते ॥ ९॥ अथ सूर्यमण्डलानां मिथश्चन्द्रमण्डलानां चान्तराणि कियत्प्रमाणानीत्याह
दो जोअणंतराई, सूराण ससीण पंचतीसा य । . तीसमिगसट्ठिभागा, चउरो तस्सत्तभागा य ॥१०॥
दो नोअणं० । सूर्यसम्बन्धिनां मण्डलानामन्तराणि हे योजने योजनद्वयप्रमाणानीत्यर्थः, एवंविधान्यन्तराणि सूर्ययोरुयशीत्यधिकशतसंख्याकानि भवन्ति । चन्द्रसम्बन्धिनां मण्डलानामन्तराणि पञ्चत्रिंशद्योजनानि त्रिंशच्चैकयोजनस्यैकषष्टिभागा एकस्यैकषष्टिभागस्य सप्तभागाः
Page #15
--------------------------------------------------------------------------
________________
(८)
विनयकुशलविरचितं क्रियन्ते तादृशाश्चत्वारो भागाश्च ३५३० ४, एवंविधान्यन्तराणि चन्द्रयोश्चतुर्दश । तेन जम्बूद्वीपे द्वयोः सूर्ययोश्चन्द्रयोश्च दक्षिणोत्तरायणे कुर्वतोः प्रतिदिनभ्रमिक्षेत्रलक्षणानि निजबिम्बप्रमाणविष्कम्भानि मण्डलानि यथाक्रमं सूर्ययोः १८४ चन्द्रयोः पञ्चदश १५ भवन्ति । तेषां मण्डलानामन्तरालसहितानां विष्कम्भक्षेत्रमानम्-५१० ४६ । तथाहि-सूर्यस्य चतुरशीत्यधिकं शतं मण्डलानाम्, अन्तराणि त्र्यशीत्यधिकं शतम् १८३, एषां विष्कम्भमानं हे द्वे योजने, ते च त्र्यशीत्यधिकशतेन गुण्येते जातानि षट्पष्टयधिकानि त्रीणि शतानि ३६६ । ये च सूर्यसम्बन्धिनोऽष्टचत्वारिंशदेकषष्टिभागाः ४६ ते चतुरशीत्यधिकेन शतेन गुण्यन्ते जातान्यष्टाशीतिशतानि द्वात्रिंशदधिकानि ८८३२, तेषां योजनानयनाथ एकषष्टया भागे हृते लब्धं चतुश्चत्वारिंशं योजनशतं शेषा अष्टचत्वारिंशचैकषष्टिभागा योजनस्य १४ ४४६, एतत्पूर्वराशौ क्षिप्तं जातं च यथोक्तमानम् ५१०४६ । चन्द्रस्य तु मण्डलविष्कम्भः षट्पञ्चाशदेकषष्टिः भागा योजनस्य , ते ५ पञ्चदशगुणिता जाताः ८४०, तेषां योजनानयनार्थमेकषष्टिभागहरणे लब्धाः १३ शेषाः ४७ स्थिताः । मण्डलान्तराणां च प्रत्येकं विष्कम्भमानं पञ्चत्रिंशद्योजनानि त्रिंशदेकषष्टिभागा योजनस्यैकस्यैकषष्टिभागस्य च सप्तधा छिन्नस्य चत्वारो भागाः ३५३०४, पञ्चत्रिंशचतुर्दशगुणिता जातानि . ४९० योजनानि, त्रिंशद्भागाश्चतुर्दशगुणिता जाताः ४२०, सप्तधा छिन्नस्य चत्वारो भागाश्चतुर्दशगुणिता जाताः घट्पञ्चाशत् , ते सप्तभिर्हता लब्धा अष्टावेकषष्टिभागाः, ते च चतुश्शतविंशतौ क्षिप्ता जाताः ४२८ ते एकषष्ट्या हृता लब्धानि योजनानि सप्त शेष एक एकषष्टिभागः
Page #16
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (९) स्थितः ७१, पूर्वोक्तानि योजनानि १३ तथा ४९० तथा ७, सर्वेषां मीलने जातानि योजनानि ५१०, शेषभागाः १ तथा ४७, उभयोमीलने ४६ स्थिता इति । इदं चारक्षेत्रचक्रवालविष्कम्भमानम् ॥१०॥ अथ कति मण्डलानि द्वीपे कति च निषधे लवणे च कति सूर्यचन्द्रयोर्भवन्तीति गाथाद्वयेनाह--
संततमंतरमेयं, रवीण पणसट्टिमंडला दीवे । तत्थ बिसट्ठी निसढे, तिन्नि अ बाहाइ तस्सेव ॥११॥ चंदाणं निसढे वि अ, मंडल पण गुरुवएसि दीसंति ।
सेसाई मंडलाई, दोण्ह वि जलहिस्स मज्झम्मि ॥१२॥ .. संतत० । 'संततं ' सर्वकालं 'एतत् ' पूर्वोक्तं सूर्ययोश्चन्द्रयोश्च मध्ये प्रविशतोर्बहिर्निगच्छतोश्च मण्डलानां परम्परमन्तरं ज्ञेयम् । तत्र रव्योः पञ्चषष्टिमण्डलानि जम्बूद्वीपे । तत्रापि द्वाषष्टिं निषधपर्वते त्रीणि च तस्य बाहायाम् , इदं तु श्रीमुनिचन्द्रसूरिभिरुक्तम् । समवायाङ्गवृत्तौ त्रिषष्टिस्थाने-"जम्बूद्वीपस्य पर्यन्तिमेऽशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र निषधपर्वते नीलवत्पर्वते च त्रिषष्टिः सूर्योदयाः सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्यां, शेषाणि तु लवणे” इत्युक्तमस्ति । सङ्ग्रहणीवृत्तादावपि-"त्रिषष्टित्रिषष्टिमण्डलानि निषधनीलवतोः, द्वे वे हरिवर्षकोट्यादौ ।” ततस्तत्त्वं सर्वविद्वेद्यम् ॥ ११ ॥ तथा-चंदा । चन्द्रयोर्निषधनीलवन्तपर्वत एव पञ्च मण्डलानि गुरूपदेशे दृश्यन्ते, शेषाणि मण्डलानि द्वयोरपि जलधौ ११९ सूर्यस्य दश १० चन्द्रस्य च भवन्ति। तत्राप्ययं विशेषः-१-२-३-४-५-११-१२-१३१४-१५ एतानि चन्द्रमण्डलानि सूर्यस्यापि साधारणानि । षष्ठ ६
Page #17
--------------------------------------------------------------------------
________________
(१०)
विनयकुशलविरचितं सप्तम ७ अष्टम ( नवम ९ दशम १० रूपाणि पुनश्चन्द्रस्यैव भवन्ति, न जातुचिदपि तेषु सूर्यः समायाति । चन्द्रस्य १५ मण्डलानामन्तराणि चतुर्दश भवन्ति । तत्र चतुर्षु सर्वाभ्यन्तरेषु चतुर्षु सर्वबाह्यमण्डलान्तरेषु च सूर्यस्य प्रत्येकं द्वादश मण्डलानि भवन्ति । मध्यवर्तिषु षट्सु चन्द्रमण्डलान्तरेषु सूर्यमण्डलानि त्रयोदश त्रयोदश भवन्ति ॥ १२ ॥ अथ मण्डलनिष्पत्तिखरूपमाह
रविदुगभमणवसाओ, निफजह मंडलं इहं एगं । तं पुण मंडलसरिसं, ति मंडलं वुच्चइ तहाहि ॥ १३ ॥
रविदु० । रविद्विकभ्रमणवशान्निप्पद्यते मण्डलमिहैकम् । तत्पुनर्वृत्ताकारतया मण्डलसदृशमिति हेतोर्व्यवहारेण मण्डलमुच्यते न तु निश्चयेन । तथाहीति साक्षाद्दर्शने ॥ १३ ॥ तमेवार्थं गाथाद्वयेनाहगिरिनिसढनीलवंतेसु उग्गयाणं खीण कक्कम्मि । पढमाउ चेव समया, ओसरणेणं जो भमणं ॥ १४ ॥ तो नो निच्छयखवं, निप्फजइ मंडलं दिणयराणं । चंदाण वि एवं चित्र, निच्छयो मंडलाभावो ॥ १५॥ गिरिनि० । निषधनीलवन्नान्नोगिर्योरुपर्युद्गतयो रव्योः ‘कर्के' कर्कसंक्रान्तिप्रथमदिने प्रथमसमयादेवारभ्य शनैश्शनैरपसरणेन यतः कारणाद्रमणम् ॥ १४ ॥ तो नो । 'तो' इति ततः कारणात् 'निश्चयरूपं मण्डलं न निप्पद्यते' परिपूर्णवृत्ताकारतया मण्डलनिप्पत्तिनिश्चयतो दिनकरयोर्न भवतीत्यर्थः । चन्द्रयोरप्येवमेव निश्चयतो मण्डला
Page #18
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( ११ )
भावस्तथैव वक्रतया परिभ्रमणात् || १५ || अथ चन्द्रसूर्ययोर्मण्डलस्थानादूर्द्धमधश्व संक्रमणनिषेधमाह---
रयणिरदिणयराणं, उड्ढे अ अ अ संकमो नत्थि । मंडलसंकमणं पुण, सब्भंतरबाहिरं तिरियं ॥ १६ ॥
रयाणअर० । ‘रजनिकरदिनकरयोः ' चन्द्रादित्ययोः समभूतलादशीत्यधिकाष्टाशतयोजनेभ्यश्चन्द्रस्य परिपूर्णाष्टशतयोजनेभ्यः सूर्यस्य च ' ऊर्डे ' ऊर्द्धदेशे ' संक्रमः सञ्चरणम् । तथा पूर्वोक्तयोजनेभ्यो ऽघव संक्रमो नास्ति, तथाजगत्स्वाभाव्यात् । तिर्यक्पुनर्मण्डलेषु संक्रमणं भवेत्, किंविशिष्टमित्याह - 'साभ्यन्तरबाह्यं' सहाभ्यन्तरं बाह्यं यस्य येन वा तत्साभ्यन्तरबाह्यम्, किमुक्तंभवति - सर्वाभ्यन्तरान्मण्डलात्परतस्तावन्मण्डलेषु संक्रमणं यावत्सर्वबाह्यमण्डलम्, सर्वबाह्याच्च मण्डला - दर्वाकु मण्डलेषु तावत्संक्रमणं यावत्सर्वाभ्यन्तरमिति । इदं विमानापेक्षं न तु तन्मध्यवर्त्तिसुरापेक्षम्, ते तु नन्दीश्वरद्वीपभगवत्समवसरणादिप्वायान्ति ॥ १६ ॥ अथ चन्द्रयोः सूर्ययोश्च सर्वमण्डलस्थयोर्मिथो विष्कम्भान्तरमाह
ܕ
ससिससि रविरवि अंतर, मज्झे इगलक्ख तिसयसो । साहि दुसयरिपण चय, वहि लक्खो छसयसहिओ ॥ १७ ॥ ससि० । ' मध्ये ' इति सर्वाभ्यन्तरे मण्डले वर्तमानयोः शशिनोः समश्रेण्या परस्परमन्तरं जम्बूद्वीपेऽशीत्यधिके शते योजनानां मध्ये प्रवेशात् षष्ट्यधिकशतत्रययोजनोनं लक्षम्, अङ्कतो यथा - ९९६४० । तत्परिधिः योजनानि ३१५०८९ किञ्चिदधिकानि, यतः ९९६४०
Page #19
--------------------------------------------------------------------------
________________
(१२) विनयकुशलविरचितं अङ्कानां वर्गकरणे दशगुणे च ९९२८१२९६००० एतदकानां करणीकरणे सर्वाभ्यन्तरमण्डलस्य परिधिः ३१५०८९ भवति । ततो द्वितीयादिचन्द्रमण्डलेषु विष्कम्भस्य 'चय' इति वृद्धिर्योजनानां द्वासप्ततिरेकपञ्चाशदेकषष्टिभागास्तत्साप्तिकश्चैकभागोऽपि, यथा-योजनानि ७२५॥ एतद्राशेः परिधिर्योननानि २३०१४७, यतो द्विसप्ततियोजनान्येकषष्टया गुण्यन्ते ४३९२, एकपञ्चाशति क्षिप्ते जातं ४४४३, तच्च सप्तगुणितमेकेन युतं ३११०२, तच्च वर्गितं दशगुणितं च यथा९६७३३४४०४०, एतस्य करणीकरणे आगतं ९८३५३, शेषाकाः ३१४३१ स्थितास्तैन किञ्चित्प्रयोजनम् । तत एकषष्टिः सप्तगुणिता जाताः ४२७ तैः कृत्वा लब्धानां भागहारे योजनानि २३०१७३ । अयं परिरयो यदि चन्द्रस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा यथोत्तरं द्वितीयादिमण्डलपरिरयमागच्छति । विष्कम्भवृद्ध्यानयनोपायश्चायम्-चन्द्रमण्डलान्तरं पञ्चत्रिंशद्योजनानि त्रिंशदेकषष्टिभागाश्चत्वारश्च साप्तिका भागा इति, अत्र द्वयोः पार्श्वयोरपेक्षया योजनानां द्विगुणने सप्ततियोजनानि ७०, तथा त्रिंशद्भागानां द्विगुणत्वे षष्टिरेकषष्टिभागाः, तथा साप्तिकाश्चत्वारो भागास्ते द्विगुणिता अष्टौ, तैः सप्तभिरे (क ए) कषष्टिभागः, सर्वे एकषष्टिस्तैरेकं योजनम् , तच्च योजनराशिमध्ये क्षिप्तमेकसप्ततिः, साप्तिकश्चैकभागः स्थितः । चन्द्रविमानं तु षट्पञ्चाशद्भागमितम् , तद्विगुणत्वे द्वादशोत्तरं शतं ११२, एकषष्टया भागैरेकं योजनं शेषा एकपञ्चाशद्भागाः, तद्योजनमेकसप्ततौ क्षिप्तं जातं पूर्वोक्तमानम् ७२ ११३ । एतच्चतुर्दशगुणितं जातमेकोनविंशत्युत्तरं सहस्रं . . “ द्विगुणिते " इत्यपि ।
Page #20
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( १३ )
योजनानां १०१९ शेषा भागाः ५ तच्च यदा चन्द्रप्रथममण्डलविकम्भे ९९६४० योजनरूपे क्षिप्यन्ते तदा सर्वबाह्ये मण्डले योचन्द्रयोर्मिथोऽन्तरं योजनानि १००६५९४५ । तत्परिधियोजनानि ३१८३१५ किञ्चिदुनानि ॥ तथा सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोर्मिथोऽन्तरं योजनानि ९९६४०, तत्परिधियोजनानि ३१५०८९ किञ्चिदधिकानि । द्वितीयादिसूर्यमण्डलेषु प्रतिमण्डले विष्कम्भवृद्धिर्योजनानि ५३५ । तत्परिधियोजनानि १७३६ यतः पञ्च एकषष्ट्या गुणिताः पञ्चत्रिंशत्सहिताश्च ३४०, ते वर्गिता दशगुणिताश्च जाताः ११५६०००, एतदङ्कानां करणीकरणे १०७५ आगताः, शेषाः ३७५ स्थिताः, आगतानां ६१ भागहरणे १७ । अयं परिरयो यदि सुयस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा द्वितीयादिसूर्यमण्डलपरिधिप्रमाणमागच्छति । अत्रापि विष्कम्भवृद्धयानयनोपायो यथा - सूर्यस्य मण्डलान्तरं योजनेद्वे, तद्विगुणत्वे चत्वारि, सूर्यविमानं त्वष्टचत्वारिंशद्भागमितम्, तद्विगुणं षण्णवतिर्भागाः, तेषामेकषष्ट्या भागैरेकं योजनं, तच्चतुर्षु क्षिप्तं जातं योजनपञ्चकं शेषाः पञ्चत्रिंशद्भागाः ५३५ एतच्च त्र्यशीत्यधिकशतेन गुण्यते जातं योजनानां विंशत्युत्तरं सहस्रम् १०२०, तच्च सर्वाभ्यन्तरमण्डलविष्कम्भे ९९६४० रूपे मील्यते तदा सर्वबाह्ये मण्डले द्वयोः सूर्ययोर्मिथोऽन्तरं १००६६० भवति । तत्परिधियोजनानि ३१८३१५ | चन्द्रयोरिव सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले सूर्ययोरप्यबाधाप्रमाणमवसेयम् | नवरं चन्द्रस्य सूर्यापेक्षया षोडशभिरेकषष्टिभागैर्न्यूनमन्तरम्, यत एकोऽपि चन्द्रोऽष्टावे कषष्टिभागान सूर्यादभ्यन्तरमाक्रामति, एवमपरोऽपि तत्सम श्रेणिस्थः, ततः षोडशभिः
Page #21
--------------------------------------------------------------------------
________________
(१४)
विनयकुशलविरचितं भांगन्यूनता ॥ १७ ॥ अथ सर्वाभ्यन्तरपरिधिं सर्वबाह्यपरिधिं च वृत्तावुक्तमपि सूत्रमध्ये गाथाद्वयेनाह--
तिन्नेव सयसहस्सा, पन्नरस हवंति जोअणसहस्सा। एगुणनउमा परिही, अभंतरमंडले तेसिं ॥१८॥ लक्खतिगं अट्ठारससहसा, तिन्नि सय पंचदसअहिआ। परिहीइ जोषणाई, बाहिरए मंडले हुंति ॥१६॥
तिन्नेव । त्रीणि लक्षाणि पञ्चदशसहस्राणि एकोननवत्यधिकानि ३१५०८९ योजनानां सर्वाभ्यन्तरे मण्डले परिधिः 'तयोः' चन्द्रयोः सूर्ययोश्च ॥ १८ ॥ लक्ख० । लक्षत्रिकमष्टादशसहस्राणि पञ्चदशाधिकानि त्रीणि शतानि योजनानां ३१८३१५ सर्वबाह्ये मण्डले परिधिरिति ॥१९॥ अथ चन्द्रस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह--
साहिअपणसहसतिहुत्तराई, ससिणो मुहुत्त गइ मज्झे । बावन्नहिया सा बहि, पइमंडल पउणचउवुड्डी ॥२०॥
साहि० । 'मज्झे' इति सर्वाभ्यन्तरे मण्डले वर्तमानस्य जम्बूद्वीपे एकैकस्मिन्मुहूर्ते पञ्चसहस्राणि त्रिसप्तत्यधिकानि साधिकानि योजनानां गतिर्भवति, अङ्कतो यथा-५०७३,७७४४ । 'सैव' सर्वाभ्यन्तरमण्डलगतिढिपञ्चाशद्योजनाधिका कृता सती सर्वबहिर्मण्डले चन्द्रस्यैकैकमुहूर्तगतिर्जायते, अत्र कियद्भागानां न्यूनत्वं जातम् , अङ्कतो यथा-५१२५.१९१९ । प्रतिमण्डलं च किञ्चिदूनपादोनचतुर्योजनवृदिः क्रियते एतावता पूर्ण योजनत्रिकं पञ्चपञ्चाशदधिकाः षण्णवतिशतभागाश्चेत्यर्थः ३,६५५ । एतच्चतुर्दशगुणितं द्वापञ्चाशत् ॥२०॥ अथ सूर्यस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह
Page #22
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
(१५)
मज्झि दुवन्निगवन्ना, सया य चउवन्नसंजुत्रा बाहिं । सूरस्स व अट्ठारस, सट्टीभागाणमिह बुड्डी ॥ २१ ॥ मज्झि० । सर्वमध्यमण्डले वर्तमानस्य जम्बूद्वीपसत्कसूर्यस्य तु द्विपञ्चाशच्छतान्येकपञ्चाशदधिकानि योजनानामिति योगः, एकैकस्मिमुहूर्ते गतिरेतावती भवति ५२९१, ये चोपरितनांशाः सूत्रे स्तोकत्वान्नोकास्ते चन्द्रसूर्ययोर्मुहूर्तवर्तनावसरे चिन्तयिप्यन्ते । या च सर्वमध्यमण्डले मुहूर्तगतिः सूर्यस्य सैव चतुष्पञ्चाशद्योजनसंयुता कृता सती सर्वबाह्यमण्डले प्रतिमुहूर्तं गतिर्जायते, यथा - १३०९ ॥ अत्र प्रतिमण्डलं किञ्चिदूनानामष्टादशषष्टिभागानां वृद्धि:, यतोऽष्टादशानां त्र्यशीत्यधिकशतगुणने ३२९४ जायन्ते तेषां षष्ट्या भागहारे लब्धानि चतुष्पञ्चाशद्योजनानीति ॥ २१ ॥ अथाधिकारान्नक्षत्राणां प्रतिमुहूर्त गतिप्रमाणमाह
पण सह सदुसयसाहित्र, परगट्टी जोणारा मज्झि गई । चउपन्नहिया सा बहिमंडलए होइ रिक्खाणं ॥ २२ ॥ पणस 'मज्झि' ति सर्वाभ्यन्तरे मण्डले वर्तमानानां नक्षत्राणामेकैकमुहूर्ते गतिः पञ्चसहस्राणि द्वे शते पञ्चषष्टिश्च साधिका योजनानां ५२६१३८ । सा च सर्वाभ्यन्तरमण्डलगतिश्चतुष्पञ्चाशद्योजनाधिका क्रियते तदा सर्वबाह्ये मण्डले वर्तमानानां नक्षत्राणां प्रतिमुहूर्तं गतिः यथा—१३१९ । अत्र प्रतिमण्डलवृद्धिः सम्यग् न ज्ञायते, यतो मण्डलानामन्तरं सर्वत्र तुल्यं नास्ति ॥ २२ ॥ अथ मण्डलभ्रमिमुहूर्त ज्ञापनपूर्वकं पूर्वोक्तमपि चन्द्रादिमुहूर्तगतिपरिमाणं करणगाथाभिर्विवक्षुः प्रथमं चन्द्रस्याह
૧૬૩૬૮
२१८९०
Page #23
--------------------------------------------------------------------------
________________
( १६ )
विनयकुशल विरचितं
बाव पुरुवा, तेवीसं सगा य बोधव्वा । दो चेव इक्वीसा, ओ पुरा तेसि बोधव्व ॥ २३ ॥
,
बावट्टि॰ । चन्द्रस्यैकैकमण्डले भ्रमिकालः 'द्वाषष्टिः पूर्णरूपाणि पूर्णा द्वाषष्टिर्मुहूर्ता इत्यर्थः, त्रयोविंशतिरंशाश्चैकस्य मुहूर्त्तस्यैकविंशत्य - धिकशतद्वयभागरूपा बोद्धव्याः ६२३३ एतावत्कालप्रमाणं चन्द्रस्यैकैकमण्डले परिभ्रमतो लगति । अत्रांशस्वरूपं सूत्रेणैवाह - ' छेओ 'ति छेदो - विभजनाङ्कः पुनः ' तेषां ' मुहूर्तानामेकविंशत्यधिकशतद्वय रूपो बोद्धव्यः ॥ २३ ॥
1
एएणय भइव्वो, मंडलरासी हविज जं लद्धं सा सोममुत्तगई, तहिं तहिं मंडले निमा || २४ ॥
एएण० । ' एतेन च ' अनन्तरोक्तराशिना द्वाषष्टिमुहूर्तादिरूपेण मण्डलपरिधिरा शिर्भक्तव्यः, भक्ते सति भवेद्यल्लब्धं सा सोमस्यैकैकमुहूर्ते गतिर्भवति तस्मिन् तस्मिन् मण्डले नियमात् । भावना यथासवर्णनार्थं द्वाषष्टिमुहूर्ता एकविंशत्यधिकशतद्वयगुणाः क्रियन्ते, जातं १३७०२, उपरितनांशास्त्रयोविंशतिः क्षिप्यन्ते जातानि त्रयोदशसह - स्राणि पञ्चविंशत्यधिकानि सप्तशतानि १३७२५, चन्द्रस्य सर्वाभ्यन्तरमण्डलपरिधिर्योजनानि ३१५.०८९ रूपः सोऽपि २२१ गुणः क्रियते जातः षट्को नवकः षट्कस्त्रिकश्चतुष्कः षट्कः षट्को नवकथेति ६९६३४६६९, अस्य राशेः पूर्वोक्तेन त्रयोदशसहस्रपञ्चविंशत्यधिकसप्तशतप्रमिताङ्केन १३७२५ भागहारे लब्धानि योजनानि ५०७३ अंशाः उप एषा चन्द्रस्याभ्यन्तरमण्डले मुहूर्तगतिः । द्वितीये ૧૩૭૨૫
७७४४
Page #24
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (१७) चन्द्रमण्डले परिधिर्योजनानि ३१५३१९, सोऽपि २२१ गुणितो जातः षट्को नवकः षट्कोऽष्टकः पञ्चकश्चतुष्को नवको नवकश्चेति ६९६८५४९९, अस्य राशेः पूर्वोक्तेन १३७२५ राशिना भागे लब्धानि योजनानि ५०७७३१६५८, एषा द्वितीये मण्डले चन्द्रस्यैकैकमुहूर्ते गतिः । एवं मण्डले मण्डले परिधिवृद्ध्या पूर्वपूर्वापेक्षया मुहूर्त्तगतिप्रमाणं प्रतिमण्डलं किञ्चिदूनपादोनचतुर्योजनवृद्ध्या तावन्नेयं यावत्सर्वः बाह्यं मण्डलम् । तत्र च परिधियोजनानि ३१८३१५, अयमपि २२१ गुणितो जातः सप्तकः शून्यं त्रिकश्चतुष्कः सप्तकः षट्क एककः पञ्चकश्चेति ७०३४७६१५, अस्य राशेः १३७२५ भागे लब्धानि योजनानि ६१२५,१६०, एतावती सर्वबाह्ये मण्डले चन्द्रस्य प्रतिमुहूत्र्त गतिः ॥ २४ ॥ अथ सूर्यस्य मुहूर्त्तगतिकरणमाह
मंडलपरिरयरासी, सट्ठी भइअम्मि होइ जं लद्धं ।
सा सूरमुहुत्तगई, तहिं तहिं मंडले निमा ॥ २५ ॥ मंडलपरिर० । सूर्यस्य मण्डलपरिधिराशिः षष्ट्या ६० भज्यते, भक्ते सति यल्लब्धं भवति सा सूर्यस्यकैकमुहूर्तगतिर्भवति तत्र तत्र मण्डले नियमात् । अत्र मण्डलपरिरयराशेः षष्टया भागकथनान्मण्डलभ्रमिकालस्य षष्टिमुहूर्तप्रमाणता ज्ञेया । भावना यथा-सूर्यस्य सर्वाभ्यन्तरे मण्डले परिधिः ३१५०८९, तस्य मण्डलभ्रमिमुहूर्ताङ्केन षष्टया ६० भागे लब्धानि ५२५१२८, एषा सर्वाभ्यन्तरे मण्डले सूर्यस्य प्रतिमुहूर्त गतिः । पूर्वपरिधौ सप्तदशप्रक्षेपेऽन्ते षट्कः समायाति, तेन पञ्चत्रिंशत्पष्टिभागानां परिधेराधिकतायाश्च संमीलने एकं योजनं भवति, तत्प्र
Page #25
--------------------------------------------------------------------------
________________
(१८)
विनयकुशलविरचितं
क्षेपे सप्तकः स्याद्, एवमन्यत्रापि योज्यम्, ततो द्वितीयमण्डले परिधिः ३१५१०७, तस्य षष्ट्या भागे लब्धानि योजनानि ५२५१, एषा द्वितीयमण्डले सूर्यस्य प्रतिमुहूर्त गतिः । एवं सर्वाभ्यन्तराद्वहिर्निष्क्रामतः सूर्यस्य मण्डले मण्डले पूर्वपूर्वानन्तरमुहूर्तगतिप्रमाणापेक्षया किञ्चिदूना अष्टादश षष्टिभागाः प्रवर्धमानास्तावद्वक्तव्या यावत्सर्वबा - ह्यमण्डलम् । तत्र परिधिः ३१८३१५, तस्य षष्ट्या भागे लब्धानि योजनानि ५३०५ एतावती सर्ववाये मण्डले सूर्यस्य प्रतिमुहूर्त गतिः । यथा यथा बहिर्निष्क्रामतोश्चन्द्रसूर्ययोर्गतिर्वर्धते तथा तथा मध्ये प्रविशतोस्तेनैव प्रकारेण हीयत इत्यवसेयम् ॥ २५ ॥ अथ सर्वनक्षत्राणां गाथाद्वयेन मुहूर्तगतिकरणमाहएगूणसरुवा, सत्तहिं श्रहिगा उ तिनि ससया । तिभेव य सत्तट्टा, छेत्र पुरा तेसि बोधव्वो । २६ ॥ एएणय भइव्वो, मंडलरासी हविज जं लद्धं । साहोइ मुहुत्तगई, रिक्खाणं मंडले नियमा || २७ || एगूणस० । नक्षत्राणां मण्डलभ्रमिकाल : ' एकोनषष्टिरूपाणि पूर्णा एकोनषष्टिमुहूर्ता इत्यर्थः, सप्ताधिकानि पुनस्त्रीण्यंशशतानि एकस्य मुहूर्तस्य सप्तषष्ट्यधिकशतत्रयभागरूपाणि १९३७, इयता कालेन नक्षत्रं खं खं मण्डलं भ्रम्या पूरयति । अंशस्वरूपं सूत्रेणैवाह - छेदः पुनः 'तेषां ' मुहूर्तानां सप्तषष्ट्यधिकानि त्रीण्येव शतानि बोद्धव्यः ॥ २६ ॥ एए० । ' एतेन च ' अनन्तरोक्तराशिनैकोनषष्टिमुहूर्तादिरूपेण नक्षत्रमण्डलराशिर्भक्तव्यः, तत्करणे यलुब्धं सा भवति प्रतिमुहूर्त गतिर्न - क्षत्राणां मण्डले मण्डले नियमात् । भावना यथा -- एकोनषष्टिर्मुहूर्ता:
――
Page #26
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । सवर्णनार्थ सप्तषष्टयधिकशतत्रयगुणाः क्रियन्ते जातं २१६५३, उपरितनानामंशानां च क्षेपे जातान्येकविंशतिसहस्राणि नवशतानि षष्टयधिकानि २१९६०, सर्वाभ्यन्तरे नक्षत्रमण्डले परिधिः३१५०८९, स च ३६७ गुणः क्रियते-एकक एककः पञ्चकः षट्कस्त्रिकः सप्तकः षट्कः षट्कस्त्रिकश्चेति ११५६३७६६३, अस्य पूर्वेण २१९६० भागे लब्धानि योजनानि पञ्चसहस्राणि पञ्चषष्टयधिके द्वे च शते एकस्य योजनस्य चैकविंशतिसहस्राणि षष्टयधिकानि नवशतानि भागाः क्रियन्ते तत्सबंन्धिनोऽष्टादशसहस्राणि त्रिषष्टयधिके द्वे च शते भागाः ५२६५३६४१३, एतावती प्रतिमुहूर्त सर्वाभ्यन्तरे मण्डले वर्तमानानामभिनिदादिद्वादशनक्षत्राणां गतिः । एवं तृतीयादिचन्द्रमण्डलानां परिधिप्रमाणं परिभाव्य तत्तन्मण्डलस्थशेषनक्षत्राणामपि प्रतिमुहूर्त गतिप्रमाणमवसातव्यम् , यतः प्रथमे चन्द्रमण्डलेऽभिजित् १ श्रवण २धनिष्ठा ३ शततारका ४ पूर्वभाद्रपद ५ उत्तरभाद्रपद ६ रेवती. ७अश्विनी ८ भरणी ९ पूर्वफाल्गुनी १० उत्तरफाल्गुनी ११ खाति१२ नक्षत्राणि भवन्ति १, तृतीये चन्द्रमण्डले पुनर्वसु १ मघा २ढे नक्षत्रे २, षष्ठे चन्द्रमण्डले कृत्तिका ३, सप्तमे चन्द्रमण्डले रोहिणीचित्रे हे ४, अष्टमे चन्द्रमण्डले विशाखा ५, दशमे चन्द्रमण्डले अनुराधा ६, एकादशमे चन्द्रमण्डले ज्येष्ठा ७, पञ्चदशे चन्द्रमण्डले मृगशीर्ष १ आर्द्रा २ पुप्य ३ अश्लेषा ४ हस्त ५ मूल६ पूर्वाषाढा ७ उत्तराषाढा - अष्टौ सन्ति, शेषेषु द्वितीयचतुर्थपञ्चमनवमहादशत्रयोदशचतुर्दशसंख्येषु सप्तसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति । तत्रान्तिमे नक्षत्रमण्डले परिधिः ३१८३१५, एषोऽपि
Page #27
--------------------------------------------------------------------------
________________
( २० )
विनयकुशलविरचितं
1
३६७ गुणो जातं - एकक एककः षट्कोऽष्टको द्विक एककः षट्कः शून्यं पञ्चकचेति ११६८२१६०९, अस्य पूर्वोक्तेन २१९६० भागे लब्धानि योजनानि - १३१९ एषा बाह्ये मण्डले मृगशिर:प्रभृतीनामष्टानां नक्षत्राणां प्रतिमुहूर्तं गतिः । ग्रहाणां तारकाणां च मण्डलमानभ्रमिकालमानमुहूर्तगतिमानादिकं वार्त्तमानिकशास्त्रेषु न दृश्यते । किञ्च चन्द्रः साधिकैर्द्वाषष्ट्या मुहूर्तेर्मण्डलं पूरयति, सूर्योऽपि षष्ट्या मुहूर्तेर्मण्डलं पूरयति, नक्षत्रं साधिकेरेकोनषष्ट्या मुहूर्तेर्मण्डलं भ्रमणेन पूरयति । ततश्चन्द्रेभ्यः सूर्याः शीघ्रगतयः, तेभ्यो नक्षत्राणि शीघ्रगतीनि । ग्रहास्तु वक्रातीचारमन्दगतितो न नियतगतयस्तेन न तेषां गतिप्ररूपणोक्ता । यतः–“ चंदेहिं सिग्घयरा, सूरा सूरेहिं हुंति णक्खत्ता । अणिअयगइपत्थाणा, हवंति सेसा गहा सव्वे ॥ १ ॥ ” ॥ २७ ॥ अथ सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये उदयास्तान्तरं दिनमानं चाह-मके उदयत्थंतर, चउणवइस इस्सपणसयछवीसा | बायाल सट्टिभागा, दिणं च (त) अट्ठारसमुहुत्तं ॥ २८ ॥ मज्झे॰ । सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य कर्काद्यदिने उदयास्तान्तरं चतुर्णवतिसहस्राणि पञ्चशतानि षट्विंशत्यधिकानि योजनानां द्विचत्वारिंशत्षष्टिभागाश्च ९४५२६ | 'तदा तस्मिन्दिsष्टादशमुहूर्त दिनमानं भवतीतिशेषः ॥ २८ ॥ अथ प्रतिमण्डलं कियद्दिनमानं हीयते ? सर्वबाह्ये मण्डले च गते सूर्ये कियद्दिनमान सावशेषं तिष्ठति ? इत्याह---
૬૧૩૬૫
पमंडल दिहाणी, दुह मुहुत्तेगसट्टिभागाणं | यं बार मुहुत्तं, दिणं निसा तस्स. विवरीया ॥ २६ ॥
Page #28
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( २१ ) पइ० । प्रतिमण्डलं द्वयोर्मुहत्कषष्टिभागयोर्दिनस्य हानिर्भवति । अयमर्थः–एकस्य मुहूर्त्तस्यैकषष्टिभागाः क्रियन्ते तत्सम्बन्धिनौ द्वौ भाग हीयेते । 'अंते' इति सर्वबाह्यमण्डले वर्तमाने सूर्ये द्वादशमुहूर्त दिनं भवति । अत्र त्रैराशिककरणं ज्ञेयम् - यद्यशीत्यधिकशतदिनैः • मुहूर्तानां हानिस्तदैकैकेन दिनेन का हानिः ? इति, राशित्रयन्यासो यथा - १८३ - ६-१ मध्योऽन्त्यगुणः क्रियते, एकेन गुणितं तदेव भवति जाताः षटू, आदिना च भागाप्राप्तौ षडेकषष्टिगुणाः क्रियन्ते जाताः ३६६, ते त्र्यशीत्यधिकशतेन भज्यन्ते लब्धौ द्वौ मुहत्कषष्टिभागौ, एतौ कर्कात्प्रभृति प्रतिदिनं हीयेते, मकरात्प्रभृति प्रतिदिनं वर्द्धते । यच्च भगवत्यामेकादशे शत एकादशो देशके - एकस्य मुहूर्त्तस्य द्वाविंशत्यधिकं शतं भागाः क्रियन्ते तादृशाश्चत्वारो भागा हानौ वृद्धौ चोक्ताः, अत्रैकपष्टिकौ द्वौ भागौ, उभयोर्नाऽर्थभेदः । एतावता किञ्चिदूनं पलचतुष्कं जातं, यथा पलानि ३ अक्षराणि ५६ एकाक्षरस्य - भागाः १३, यतः १८२ दिनैः षण्मुहूर्ता वर्द्धन्ते प्रतिमुहूर्त्त पलानि १२०, तानि च षड्गुणानि ७२०, तानि त्र्यशीत्यधिकेन शतेन भज्यन्ते लब्धानि त्रीणि ३ पलानि, शेषं १७१, तानि भागाऽप्राप्तौ षष्टचक्षरगुणितानि १०२६०, तेऽङ्काः १८३ भक्ता लब्धा ५६ वर्णाः, शेषा एकस्याक्षरस्य द्वादश भागाश्च । तथा 'निसा तस्स विवरीअ ' त्ति निशा-रात्रिर्दिनाद्विपरीता ज्ञेया, कोऽर्थः ? यदा दिनमानमष्टादशमुहूर्तं तदा निशा द्वादशमुहूर्ता, यदा दिनं द्वादशमुहूर्तं तदा निशाष्टादशमुहूर्ता । अत्रापि हानिवृद्धी दिनवज्ज्ञेये ॥ २९ ॥ अथ सर्वबाह्ये मण्डले तथा प्रथमवर्जसर्वमण्डलेषु सूर्यस्योदयास्तान्तरयोजनसंख्यामाह—
१८३
Page #29
--------------------------------------------------------------------------
________________
( २२ )
विनयकुशलविरचितं
उदयत्थंतर बाहिं, सहसा तेसट्ठि छसय तेसट्टा | तह इगससिपरिवारे, रिक्खडवीसाडसीइ गहा ॥ ३० ॥ उद० । 'बाहिं ' इति सर्वबाह्ये मण्डले सूर्यस्योदयास्तान्तरं त्रिष-ष्टिसहस्राणि षट्शतानि त्रिषष्ट्यधिकानि योजनानां ६३६६३ । अत्र सूत्रेऽनुक्तापि द्वात्रिंशत्तमगाथावृत्तौ करणेन वक्ष्यमाणा प्रथममण्डलापेक्षया प्रतिदिनमुदयास्तान्तरहानिः साधिकं द्विसप्ततिशतं योजनानां १७२१० २४४ । पूर्वपश्विमयोश्च तदर्थं साधिका षडशीतिर्योजनानां ज्ञेया । सर्वत्र दिनार्द्धयोजनैः सूर्य उदयास्तमनयोर्दश्यत इति गाथा - पूर्वार्द्ध: ' तह इग' त्ति । तथैकस्य शशिनः परिवारे रुक्षाणि - नक्षत्राण्यभिजिदादीन्यष्टाविंशतिः । अष्टाशीतिग्रहा मङ्गलादयः, तन्नामानि चन्द्रप्रज्ञत्यादिभ्यो ज्ञेयानि ॥ ३० ॥ अथ तारकसंख्यामाह
छावद्विसहस्साई, सयाई नव पंचहत्तरी अ तहा । इगससियो परिवारे, तारागणकोडिकोडी || ३१ ॥ छाव० । एकस्य शशिनः परिवारे तारकाणां संबन्धिनीनां कोटाकोटीनां षट्षष्टिसहस्राणि नवशतानि पञ्चसप्ततिश्च, अङ्कतो यथा६६९७५ शू० १४ । एतच्च ग्रह ८८ नक्षत्र २८ तारकराशित्रिकं नरलोकगतद्वात्रिंशदधिकशतचन्द्रैः १३२ गुणितमेतद्भवति, यथा---
इक्कारस य सहस्सा, छप्पि असोला महग्गहाणं तु ११६१६ । छच्च सया छन्नउआ, नक्खत्ता तिन्नि अ सहस्सा ३६९६ ॥ १ ॥ अट्ठासी लक्खा, चालीस सहस्स मणुअलोगम्मि । सत्तय सया अणूणा, तारागणकोडिकोडीणं ॥ २ ॥ " तथा समयक्षेत्रवर्तिनि द्वीपे समुद्रे यावन्तश्चन्द्रास्तदङ्कराशिनैकचन्द्रसैन्याङ्के गुणिते तत्तद्वीपसमुद्र
66
Page #30
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( २३ ) वर्त्तिग्रहादिसंख्या स्वयं ज्ञेया, यत्रकाद्वावधार्या । अत्र तारकाणां बहुत्वात्क्षेत्रस्य स्तोकत्वाच्च केचित्कोटाकोटिरिति : संज्ञान्तरं मन्यन्ते । केचिच्च तारकविमानान्युत्सेधाङ्गलप्रमाणेन मन्यन्ते । किञ्चैतत्सैन्यं सूर्यस्यापि साधारणम्, चन्द्रस्येव तत्सैन्यस्य सूर्योऽप्यधिप इति, यदुक्तं जीवाभिगमे ज्योतिष्कोद्देशे - " एगमेगस्स णं भंते ! चंदिमसूरिअस्स चंदिमसूरिअस्स केवइओ परिवारो पन्नत्तो ? " त्ति सूत्रम् । अस्य वृत्त्येकदेशो यथा- 'एकैकस्य भदन्त ! चन्द्रसूर्यस्य चन्द्रसूर्यस्य' अनेन च पदेन यथा नक्षत्रादीनां चन्द्रः खामी तथा सूर्यस्यापि तस्यापीन्द्रत्वादिति ख्यापयति । यद्वा समवायाङ्गवृत्तावष्टाशीतिस्थानकेऽप्ययमेवाभिप्रायोऽस्ति तेन चन्द्रसूर्यौ ग्रहेभ्यो भिन्नौ तौ ग्रहाधिपौ ज्ञेयौ ॥ ३१ ॥
नामानि जम्बूद्वीपे लवणाब्धौ.
चन्द्रसूर्याः २
४
ग्रहाः
धातकीखण्डे.
१२
कालोदे. पुष्करार्धे. सर्वसंख्या..
४२
७२ १३२
१७६ ३५२ १०५६
११७६ २०१६ ३६९६
नक्षत्राणि ५६ ११२ ३३६ तारककोटि १३३९५ २६७९ ८०३७ २८१२९५ ४८२२२ ८८४०७ कोटयः शू० १५ शू० १६ शू० १६ शू० १५ शू० १६ शू० १६
३६९६ ६३३६ ११६१६
अथ चन्द्रसूर्याणां केन प्रकारेण कदा प्रकाशक्षेत्रं वर्द्धते ? कदा च हीयते ? तदाह
Page #31
--------------------------------------------------------------------------
________________
(२४) . विनयकुशलविरचितं . 'तेसिं पविसंताणं, तावक्खित्तं तु वड्डए निअमा।
तेणेव कमेण पुणो, परिहायइ निक्खमंताणं ॥ ३२ ॥ - तेसिं० । 'तेषां' सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्र प्रतिदिवसं क्रमेण नियमादायामतो वर्धते । येनैव क्रमेण परिवर्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाहहिनिष्कामतां परिहीयते। तथाहि-सर्वबाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं चतुर्णामपि दशधा प्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ हौ भागौ तापक्षेत्रस्य भवतः । ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्टयधिकषट्त्रिंशच्छत ३६६० प्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्धते । चन्द्रमसस्तु मण्डले मण्डले प्रत्येकं पौर्णमासीसंभवे क्रमेण प्रतिमण्डलं षड्विंशतिः षड्विंशतिर्भागाः सप्तविंशतितमस्य च.भागस्यैकः सप्तभागः २६ । रवेरभ्यन्तरमण्डलपरिधिः ३१५.० ८९, स च ३६६० भक्तो लब्धाः षडशीतिः ८६, शेषाः ३२९, ते षष्टिगुणिताः १९७४०, तेऽपि च ३६६० भक्ता लब्धाः पञ्च । शेषाः १४४० । चन्द्रस्य तु ८६ षड्विंशत्या गुण्यते २२३६, एकसप्तभागः षडशीतिगुणस्तदा ८६, स सप्तधा भक्तो लब्धाः १२, ते २२३६ मध्ये क्षिप्ताः २२४८, पञ्च भागाः षड्विंशतिगुणा जाताः १३०, ते षष्टया हृता लब्धौ धौ, तौ २२४८ मध्ये क्षिप्तौ जातौ २२५० । तेषां तापक्षेत्राकारास्त्वन्तः संकुचिता बहिर्विस्तृताः कलम्बुकापुप्पसंस्थानसंस्थिताः, कोऽर्थः ? मेरुदिशि संकुचिता लवणदिशि विस्तृताः । उक्तं हि-" तेसिं कलंबुआपुप्फसंठिआ हुंति तावखित्तपहा । अंतो संकुइआ बाहि वित्थडा चंदसूराणं ॥ १ ॥” ति ॥ ३२ ॥ अथो
Page #32
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (२५) किष्टदिवसे जम्बूद्वीपस्य दशभागकल्पनयकैकसूर्यस्य तापक्षेत्रे कियन्तो भागाः ? इत्याह
दीवस्स य दसभागा, इगपासे हुंति तिनि दिवसस्सः । ककस्स य पढमदिणे, भागा पुण दुनि रयणीए । ३३ ।।
दीव० । द्वीपस्य त्रयः दशभागा एकैकपाधै दिवसस्य ' सूर्यतापक्षेत्रस्य कर्कसंक्रान्तिप्रथमदिने भवन्ति । कोऽर्थः ? दशधाविभक्ते जम्बूद्वीपचक्रवाले यल्लब्धं तादृशास्त्रयो भागा एकस्मिन्पार्श्वे दक्षिणतः उत्तरतो वा । तदा रात्रेः पुनर्दशभक्तौ द्वौ भागौ भवतः । दिवससत्कभागत्रययोजनानि ९४५२६४२, रात्रिसंबन्धिभागद्वययोजनानि ६३०१७ ४८, उभयोर्मीलने १९७५४४३० । एवं द्वितीयसूर्यस्यापि दिनं रात्रिश्च, सर्वमीलने ३१५०८९ सर्वाभ्यन्तरमण्डलपरिधिर्जातः । अत्र मेरु प्रति नवयोजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दश भागा योजनस्येत्येतत्सर्वोत्कृष्टदशभागत्रयरूपं तापक्षेत्रप्रमाणं भवति ९४८६ । कथम् ? मन्दरपरिक्षेपस्य किञ्चिन्न्यूनत्रयोविंशत्युत्तरषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्य ३१६२३ दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणत्वे एतस्य भावादिति । जघन्यदिवसे तु मेरुं प्रति भागद्वयं षड्योजनसहस्राणि त्रीणि शतानि चतुर्विशत्यधिकानि षट् च दशभागाः ६३२४६॥ ३३ ॥ अथ क्रमेण हीयमानं जघन्यदिवसे यावत्प्रमाणं तापक्षेत्रमवशिष्यते तदाह-- · मयरम्मि दुन्नि भागा, दिवसस्स य हुंति तिनि रयणीए ।
एवं नायव्वाओ, दिणरत्तीवुट्टिहाणीओ ॥ ३४ ॥ मय ० । कर्कसंक्रान्तेर्द्वितीयदिनादारभ्य षद्भिर्मासैर्यावन्मकरसंक्रान्त्याद्य
Page #33
--------------------------------------------------------------------------
________________
(२६) विनयकुशलविरचितं दिनं तत्र परिपूर्ण एको भागो न्यूनो जातः, तेन सर्वबाह्यमण्डले सञ्चरतः सूर्यस्य द्वौ भागौ तापक्षेत्रसम्बन्धिनौ भवतः, त्रयो भागा रात्रेश्चेत्यवगन्तव्याः । अत्र दिनसत्कभागद्वयेन ६३६६३ योजनानि, रात्रिसत्कभागत्रयेण च ९५४९४३०, दिनरात्रिमीलने १५९१५७ । एवं हि. तीयसूर्यस्यापि । एतदङ्कमीलने सर्वबाह्यमण्डलपरिधिर्जातः ३१८३१५॥ तथा कर्काद्यदिने ९४५२६६. उदयास्तान्तरं, मकरायदिने च ६३. ६६३ योजनानि, उभयमीलने १५८१८९३७, पुनर? कते यद्भवति तच्च बहिर्गच्छतस्तुलाद्यदिने । मध्ये प्रविशतश्च मेषाद्यदिने द्विनवतितममण्डले सूर्यस्योदयास्तान्तरम् ७९०९९४ द्वयोः सूर्ययोदिनरात्र्यपेक्षयैतद्वाशौ चतुर्गुणे कृते तन्मण्डलपरिधिर्जायते, यथा-३१६३७९२४, तदा पञ्चदशमुहूर्त दिनम् , पञ्चदशमुहूर्ता रात्रिरपि । साडौं द्वौ भागौ जम्बूद्वीपचक्रवालदशभागानां तापक्षेत्रं भवति । ‘एवं' इति एवं-पूर्वोक्तप्रकारेण दिनरात्रिवृद्धिहानी ज्ञेये । वृद्धिहानियोजनानि प्रागुक्तानि । अत्र विशेषार्थिना भगवतीपञ्चमशतकाद्योदेशकवृत्तिरवगाह्या उद्योतान्धकारयन्त्रं चावलोकनीयम् । तत्स्थापना चेयम् ॥३४॥ अथ तत्रैवाऽनयोः सूर्ययोः समुदितयोः सूत्रे एव तापक्षेत्रभागान् गाथाद्वयेनाह
इह छ चित्र दसभाए, जंबूदीवस्स दुन्नि दिवसयरा । ताविति दित्तलेसा, अभंतरमंडले संता ॥ ३५॥ चत्तारि अदसभाए, जम्बूदीवस्स दुन्नि दिवसयरा । . ताविति मंदलेसा, बाहिरए मंडले संता ॥ ३६॥ . इह ० । ' इह ' अस्मिन् जम्बूद्वीपे षडेव दशभागान जम्बूद्वीपस्य
Page #34
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् (२७) द्वौ दिवसकरौ सर्वाभ्यन्तरे सन्तौ 'दीप्तलेश्यौ' भाखत्तेजसौ तापयतः । एकैकसूर्यस्य भागत्रयप्रमिततापक्षेत्राभिधानात् ॥३५॥ चत्ता० । तथा चतुरो दशभागान् जम्बूद्वीपम्य द्वौ दिवसकरौ सर्वबाह्ये सन्तौ 'मन्दलेझ्यौ' मन्दतेजसौ तापयतस्तथाजगत्स्वाभाव्यात् ॥३६॥ अथ सर्वाभ्यन्तरे दशभागानां मध्यादेकैकभागस्य योजनकरणं गाथाद्वयेनाह---
एगारस अडतीसे, वजितु सयाइ दीवपरिहीए । सेस दसेहि विभत्ते, जे लद्धं तं इमं होई ॥ ३७॥ इगतीससहस्साई, सयाइमट्ठाहियाइँ तह पंच ।
चउपनसहिभागा, छहि गुणणे अंसछेाणं ॥३८॥ एगा० । एकादशशतान्यष्टात्रिंशदधिकानि ११३८ 'जम्बूद्वीपपरिधेः ३१६२२७ वर्जयित्वा' जम्बूद्वीपपरिधिमध्यात् ११३८ कर्ण्यन्त इत्यर्थः, ‘शेषे' सर्वाभ्यन्तरमण्डलपरिधिरूपे ३१५०८९ दशभिर्भक्ते यल्लब्धं तद् 'इदं' वक्ष्यमाणं भवति । यतः सर्वाभ्यन्तरं मण्डलं जगतीतोऽशीत्यधिकयोजनशतेनार्वाग् , तत उभयोः पार्श्वयोरपेक्षया तदकं द्विगुणीकृत्य ३६०, तच्च वर्गयित्वा दशगुणं क्रियते, तदनु करणीकरणे ११३८ भवन्तीति ॥ ३७ ॥ इग० । एकत्रिंश
सहस्राण्यष्टाधिकानि पञ्चशतानि योजनानां चतुप्पञ्चाशञ्च षष्टिभागा योजनस्य । ते च कथं जाताः ? ' छहि गुणणे अंसछेआणं ' ति सर्वाभ्यन्तरमण्डलपरिधिदशमभागयोजनराश्या गमनानन्तरमवस्थितयोरंशच्छेदराश्योर्नवकदशरूपयोः षड्भिर्गुणने जाताः ५४, ततो दशस्वपि भागेषु प्रत्येकं योजनान्यंशाश्च भवन्ति ३१५०८ ५४, तद्दशगुणने मण्डलपरिधिर्भवति । एवं द्वितीयादिसर्वमण्डलेषु तत्तन्निजनिजपरिधेरनु
Page #35
--------------------------------------------------------------------------
________________
(२८) विनयकुशलविरचितं सारेण दशभागाः स्वबुद्ध्या विचार्याः ॥३८॥ अथोत्कृष्टदिवसे जम्बूद्वीपवर्तिनो मनुष्याः कियहरतः सूर्यमुदयन्तं पश्यन्ति ? इति गाथाहयेनाह
एअस्स य रासिस्स य, तिगुणत्ते जो पुणो हवइ रासी । कक्कडचारो रविणो, उदयत्थमणेसु तस्सद्धा ॥ ३९ ॥ सीयालीससहस्सा, दो असया जोअणाण तेवहा । इगवीससद्विभागा, ककडमाइम्मि पिच्छ नरा ॥ ४० ॥
एअ० । 'एतस्य' अनन्तरोक्त ( स्य ) राशेः ३१५०८ ५४ त्रिगुणकरणेन यो राशिर्भवति ९४५२६ ४२ स रवेः कर्कसंक्रान्त्याद्यदिनसत्कश्चारो ज्ञेयः । उदयास्तसमये च ' तस्सद्ध ' त्ति तस्या त्प्रातरुद्गच्छन् सायमस्तमयंश्च सूर्यो दृश्यते ॥ ३९ ॥ तद्योजनान्याहसीआ० । सप्तचत्वारिंशत्सहस्राणि त्रिषष्टयधिके द्वे च शते एकविंशतिषष्टिभागाश्च ४७२६३ ११, एतावद्योजनेभ्यो दूरतः सर्वाभ्यन्तरे मण्डले सूर्यमुदयन्तमस्तमयन्तं च कर्काचदिने जम्बूद्वीपसत्कपूर्वविदेहभरतपश्चिमविदेहैरावतादिषु वासिनो नराः पश्यन्ति । यच्चेहोदयमानः सूर्यो भूमिलग्नो दृश्यते तत्तु दूरत्वात् । परं भूमितः सर्वत्रोच्चैम्त्वेन समो वर्तते । यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके-" जम्बूदीवे णं भंते ! सूरिआ उग्गमणमुहुत्तंसि मज्झंतिअमुहुत्तंसि अत्थमणमुहुत्तंसि सव्वत्थ उच्चत्तेण समा ? हंता गोअमा ! ” इत्यादि ॥ ४० ॥ अथोत्कृष्टदिवसे सूर्यस्य पश्चादग्रे च मिलितं कियत्तापक्षेत्रं स्यात् ? तदाह
एअं चेव य दुगुणं, उभो पासेसु तावखित्तं तु । . एअं चेव य सव्वं, दट्ठवं बीअरविणो वि ॥ ४१ ॥ एअं० । 'एतद' अनन्तरोक्तं तापक्षेत्रप्रमाणं ४७२६३ ३३
Page #36
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (२९), पश्चादप्येतावदग्रतोऽप्येतावत्सूर्यस्योभयपार्थाभ्यां कृत्वा द्विगुणं भवति ९४५२६ ४४ कर्कस्य प्रथमदिने। तथैतदेव सर्व पूर्वोक्तस्वरूपं जम्बृद्वीपवर्तिद्वितीयरवेरपि द्रष्टव्यम् ।। ४१ ॥ अथ कांद्यदिनवर्जशेषदिवसेषु प्रतिदिवसं तेनसः का हानिः ? मकरात्का वृद्धिर्वा ? द्वात्रिंशत्तमगाथावृत्ती करणेनोक्तापि साक्षादक्षरेणाह- जंबूदीवे पइदिणमुभो पासेसु तावखित्तस्स ।
छासीइ जोषणाई, अहिआई वुड्डिहाणीसु ।। ४२ ।। जंबू० । जम्बूद्वीपे सूर्यस्य पूर्वापरयोरेकैकपाधै तापक्षेत्रस्य साधिकानि षडशीतिः षडशीतिर्योजनानि कर्काद्धानौ मकराच्च वृद्धौ-भवन्ति । यतरुयशीत्यधिकेन दिनशतेन दशभागीकृतस्य सर्वाभ्यन्तरमण्डलपरिधेरष्टोत्तरपञ्चशतसमधिकैकत्रिंशत्सहस्रप्रमित एको दशभागभागो हीयते वर्धते च तदैकैकेन दिनेन का हानिर्वृद्धिर्वा ? अत्र त्रैराशिकन्यासः१८३। ३१५०८।१ । एकेनान्त्येन गुणितो मध्यराशिस्तदेव भवति । ततो मध्य आयेन भज्यते लब्धं च द्विसप्ततं शतं, शेषा द्वात्रिंशस्थिताः, ते च षष्टिगुणिताः १९२०, चतुष्पञ्चाशच्च षष्टिभागा मीलिताः १९७४ भवन्ति, तेऽपि १८३ भक्ता लब्धा दश १० शेषाः १४४, द्विसप्तत्यधिकशतस्य चाई षडशीतिर्योजनानि (६ ५ १३, उक्तोऽप्ययमर्थो दशमभागविभजनार्थमुक्तः । चन्द्रस्याप्येष राशिः ३१५०८५४ चतुर्दशविभक्तो वे सहस्र साढे च द्वे शते सप्तत्रिंशच्च षष्टिभागाः २२५० ३४ ॥४२॥ अथ मनुष्यलोकचारिशेषसूर्याणां वक्तव्यतामाह
एवं सेसरवीण य, पयासखित्तं दसंसकप्पणया । ता नेअं जा चरमो, पुक्खरदीवड्भाणु त्ति ॥ ४२ ॥ .
Page #37
--------------------------------------------------------------------------
________________
(३०)
विनयकुशलविरचितं
एवं ० । 'एवं' अमुना प्रकारेण शेषरवीणामपि नरलोकवर्तिजम्बूवर्जहीपद्वयसमुद्रद्वयचक्रवालदशांशकल्पनया दशभागविभजनया प्रकाशक्षेत्र - योजनप्रमाणं खखद्वीपसमुद्रमध्यबाह्यपरिधीनामनुसारेण तावज्ज्ञेयं यावत्पुष्करार्द्धे चरमभानुरेकैकपंक्तिगतषट्षष्टितमः सूर्य इति, परं तेषा - भन्तरालसूर्याणां नैश्वयिकस्थानं परस्परमन्तरं च शास्त्रेप्वदर्शनाद्योजनादिमितिर्न लिखिता । जीवाभिगमे लवणोदवक्तव्यतायां द्वितीयखण्डे जम्बूद्वीपगतसमश्रेणिप्रतिबद्धो दक्षिणतः सूर्यः शिखायामभ्यन्तरं चारं चरति, द्वितीयः शिखायाः परतः । एवमुत्तरतोऽपि शिखाया आरतः परतः सूर्यौ । चन्द्रचतुष्कमप्येवमेव ॥ ४३ ॥ अथ पुष्करार्द्ध चरमभानोः कियाँस्तेजः प्रस्तरस्तदाह
लक्खेहि एगवीसाइ साइरेगेहिं पुक्खरद्धम्मि ।
उदए पिच्छंति नरा, सूरं उक्कोस दिवसे ॥ ४४ ॥ लक्खे ॰ । सातिरेकैरेकविंशतिलक्षयोजनैः सर्वान्तिमं सूर्यमुपलक्षणाश्चन्द्रमप्युदयन्तमस्तमयन्तं च सर्वाभ्यन्तरे मण्डले उत्कृष्टेऽष्टादशमुहूर्त्ते दिवसे पुष्करार्द्ध मनुजाः पश्यन्ति । तत्र परिधिरेवम् - "एगा जोअण - कोडी, बायालीसं हवंति लक्खाई । तीसं चेव सहस्सा, दो चेव सया अउणवन्ना ॥ १ ॥ " १४२३०२४९ इतिपरिधेर्दशभागाः क्रियन्ते तादृशः सार्द्धभागस्तेजःप्रसरः २१३४५३७ भवति । प्रवचनसारोद्धारवृत्तिगताष्टाशीत्यधिकशततमेन्द्रियविषयविचार १८८ द्वारे" इगवीसं खलु लक्खा, चउतीसं चैव तह सहस्साई । पंच य स - याई भणिआ, सत्तत्तीसाइ अइरिता ॥ १ ॥ इइ नयणविसयमाणं, पुक्खरदीवडूढवासिणो मणुआ । पुव्वेण य अवरेण य, पिहं पिहं तह दि
Page #38
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( ३१ ) किट्टे ॥ २ ॥ " उत्कृष्टदिवसे एतावद्येोजनत उदितं पश्यन्ति, तंत्रतावत्क्षेत्रपरिधिसद्भावात् । परमिदं सर्वाभ्यन्तरमण्डलं मानुषोत्तरादर्वाक् संभवति, येन शेषमण्डलानामवकाशो दशोत्तरपञ्चशतयोजनान्तर्विलोक्यत इति, तेनोक्ततेजःप्रसरः कतिचित्सहस्रैर्न्यूनो ज्ञेयः । नवरमियान् विशेष :- जम्बूद्वीपगतसूर्ययोर्दक्षिणोत्तरयोः करप्रसरेभ्यो लवणसमुद्रगत-चन्द्रसूर्याणां दक्षिणोत्तरयोः करप्रसरः स्तोकः, पूर्वपश्चिमयोश्च भूयान्, क्षेत्रस्य परिधिबाहुल्यात् । धातकीखण्डे च षण्णां षण्णां पंक्तिगतसूर्याणामुत्तरोत्तरं दक्षिणोत्तरयोस्तेजः प्रसरः स्तोकः पूर्वपश्चिमयोश्च वर्धते । एवं कालोदे पुष्करार्द्धेऽपि पूर्वपश्चिमयोरतिबहुलो वर्धत इति स्थितिः । परं यो यः सूर्यो यत्र यत्र चरति तदधोवासिनो जनास्तमेव सूर्य पश्यन्ति नान्यं तथाजगत्स्वाभाव्याद्व्यवस्थाभङ्गदोषप्रसङ्गाच्च । एवं चन्द्रग्रहादीनामपि व्यवस्था भावनीया ॥ ४४॥ अथ तेषां रवीणां दशभागादिस्वरूपमाह
9
सव्वपरिहीय एवं सच्चे विश्र भाणुणो दसंसतिगं । तावंतुक्कोसदिणे, जहन्नए दुनि उ दससे ॥ ४५ ॥
सव्व॰ । लवणधातकीकालोदपुष्करार्द्धेषु सर्वपरिधीनां ' एवं ' अमुना प्रकारेण जम्बूद्रीपन्यायेन सर्वेऽपि भानवः ' दशांशत्रिकम्' इति त्रीन् दशभागान् कर्कस्था युगपत्सर्वाभ्यन्तरमण्डले सञ्चरन्त उत्कृष्टदि चसे तापयन्ति, तदा दिनमानमष्टादशमुहूर्त्तम्, रात्रिर्द्वादशमुहूर्ता । जघन्यदिवसे समकं सर्वबाह्यमण्डलस्था मकरे द्वौ दशभागौ तापयन्ति, तदा दिनमानं द्वादशमुहूर्त, रात्रिरष्टादशमुहूर्ता । सर्वेषां सूर्याणां चतुरशीत्यधिकशतमण्डलेषु प्रत्येकं षष्ट्या मुहूर्तेरेव समकं परिभ्रमणात् ॥
Page #39
--------------------------------------------------------------------------
________________
( ३२ )
विनयकुशलविरचितं
४५ ॥ अथ तेषामपि सूर्याणां चारक्षेत्रतः सञ्चरतां कियद्दिनैस्तापक्षेत्र
वर्धते हीयते च ? इत्याह
एवं च सइ दसंसे, तेसिं पसंतनीहरंताणं ।
6
हाय तेसीसएण दिवसा अणुक्रमसो || ४६ ॥ एवं ० । ' एवं ' पूर्वोक्तप्रकारे सति तेषां सूर्याणां मकरे सर्वबाह्यान्मण्डलान्मध्ये प्रविशतां कर्के च सर्वाभ्यन्तराद्वहिर्निस्सरतां दिवसानां त्र्यशीत्यधिकशतेनानुक्रमश एकको दशांशो वर्धते हीयते च । वृद्धिहानियोजनसंख्या दशमभागयोजनसंख्या च तत्तद्वीपसमुद्राणां मध्यबाह्यपरिध्यनुसारेण वाच्या ॥ ४६ ॥ अथ जम्बूद्वीपादन्यरवीणां मण्डलसंख्या मण्डलान्तरप्रमाणं चारक्षेत्रविष्कम्भमानं चाह
सव्वेसि पि रवीणं, सव्वेसिं मंडलाण अन्नुन्नं दोजो अंतरालं, पंचसयदहुत्तरो चारो ॥ ४७ ॥ सव्वे० । सर्वेषां रवीणां चतुरशीत्यधिकशतसंख्यानां मण्डलानामन्तरं प्रत्येकं द्वे योजने, चारक्षेत्राविष्कम्भस्तु दशोत्तराणि पञ्चशतयोजनानि ज्ञेयानि । अष्टचत्वारिंशदेकषष्टिभागास्तु स्तोकत्वान्नोक्ताः । अथवा प्रथममण्डलस्यान्त्यमण्डलस्य वा चाराभावादष्टचत्वारिंशन्नोक्ताः, जम्बूद्वीपाधिकारे चोक्ताः परमार्थस्त्वेक एव ॥ ४७ ॥ अथ शेषचन्द्राणां चारक्षेत्र मानादिखरूपमाह
इगससतिवन्ना, चंदा पंचनवसियाई ।
2
अहिं भागेहि जो अमहियं मण्डलं ससिणो ||४८ || इग० । जम्बूद्वीपचन्द्राणामपि प्रत्येकं मण्डलानि पञ्चदशैव तेषां मण्डलानां भूमिरन्तरं च सातिरेकाणि पञ्चत्रिंशद्योजनानि ३५
Page #40
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (३३) एतस्मिन् चतुर्दशगुणे कृते समस्तं चारक्षेत्रं नवाधिकपञ्चशतयोजनमितं त्रिपञ्चाशच्चैकषष्टिभागयुतं ५०९ ५३, यतः कारणादष्टभिर्भागैरधिकं सूर्यबिम्बाच्चन्द्रबिम्बं षट्पञ्चाशद्भागमानत्वात् । अत्रापि विमानाक्रान्तभूमेरगणनादष्टचत्वारिंशद्भागानामकथनेऽपि पूर्वोक्तेन सह न विरोधः ॥४८॥ अथ सर्वेषु क्षेत्रेषु दिक्चतुष्कनिर्णयस्वरूपं गाथायुगलेनाहजस्स जो आइच्चो, उदेइ सा तस्स होइ पुव्वादिसा । । जत्थ वि अ अत्थमई, अवरदिसा सा उ नायव्वा ॥ ४६॥ दाहिणपासम्मि अ दाहिणा उ वामेण उत्तरा होइ। एआओ तावदिसा, सव्वेसिं उत्तरो मेरू ॥ ५० ॥
जस्स० । यस्य लोकस्य यतः स्थानादादित्य उदयमेति-दग्गोचरमायाति तस्य लोकस्य सैव पूर्वदिग् ज्ञेया । तथा यत्र स्थाने सूर्योऽस्तमेति अदृश्यतायोगात्सा — अपरा' पश्चिमा च ज्ञातव्या ॥ ४९ ॥ दाहि । उदयमानसूर्याभिमुखसतस्तस्य लोकस्य दक्षिणपार्श्वे दक्षिणा भवति वामपार्श्वे तूत्तरा । भावना यथा-पूर्वविदेहानां लोकानां या पश्चिमा सा भरतसम्बन्धिनां पूर्वा, भरते या पश्चिमा सा पश्चिमविदेहेषु पूर्वा, पश्चिमविदेहेषु या पश्चिमा सा ऐरावते पूर्वा, ऐरावते या पश्चिमा सा पूर्वविदेहेषु पूर्वेत्यादि । सूक्ष्मेक्षिकया यौगलिकक्षेत्रवर्षधरादिषु सर्वत्र पूर्वादयो दिशो विचार्याः । यतो जम्बूद्वीपप्रज्ञप्त्याम्-"जंबुद्दीवे णं भंते! सूरिआ उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति ? १ पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति ? २ दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंति? ३ पडीणउदीणमुग्गच्छ
Page #41
--------------------------------------------------------------------------
________________
(३४)
विनयकुशलविरचितं उदीणपाईणमागच्छंति ? ४ हंता गोअमा !।" इत्यादि, काका प्रश्नः । तथा तापयतीति तापः-सूर्यस्तदाश्रिता दिक तापदिक, एताः पूर्वोक्तास्तापदिशोऽवगन्तव्याः, सूर्यप्रभवा इत्यर्थः । क्षेत्रदिशस्तु मेरुरुचकप्रभवा भवन्ति, रुचका अपि मेरुसर्वमध्यस्थिता अष्टौ प्रदेशाः समभूतलस्थाने गोस्तनाकाराः । तत्र चतस्रो द्विप्रदेशादयो द्वयुत्तराः शकटोडीसंस्थाना महादिशः पूर्वाद्याः, चतस्र एवैकप्रदेशाः, मुक्तावलीनिमा विदिशः, द्वे च चतुष्प्रदेशात्मिके ऊर्ध्वाधोदिशाविति । तेन जम्बूद्वीपजगत्यां विजयनामद्वारि पूर्वा दिक, एवं वैजयन्तद्वारि दक्षिणा, जयन्तद्वारि पश्चिमा, अपराजिते उत्तरा । एवं च सर्वत्र द्वीपे जगतीद्वाराण्येतन्नामान्येव सन्तीति क्षेत्रदिनिर्णयः । अथ तापदिगपेक्षया 'सर्वेषां ' कर्माकर्मभूमिजजनानां मेरुः 'औतरः' उतरस्याम् , लवणोदधातकीखण्डकालोदपुष्कराईप्वनेनैव क्रमेण जम्बूद्वीपसूर्यवद्दिग्विभागो ज्ञेयः, सर्वेषां समकं सञ्चरणात् । एतत्कथनेन सूर्यस्य मेरुसमन्ताच्चतसृषु(दिक्षु)गतिरुक्ता । ततश्च ये मन्यन्ते सूर्यः समुद्रं प्रविश्य पाताले गत्वा पुनः पूर्वसमुद्रे उदेतीति तन्मतमपास्तम् ॥ ५० ॥ अथ सूर्यस्य दिशः सामान्येनाह
पिढे पुन्या पुरो, अबरा वलए भमंतसूरस्स ।
दाहिणकरम्मि मेरू, वामकरे होइ लवणोही ॥ ५१ ॥ पिढे । मेरुं परितः प्रदक्षिणावर्तेन सूर्यस्य भ्रमतः पृष्ठे पृष्ठे पूर्वा दिक्, पुरतः 'अपरा' इति पश्चिमा । सूर्यस्य दक्षिणहस्ते मेरुः, वामकरे लवणोदधिर्भवति । एताः सूर्यदिशो न तु जनानाम् , जनानां सूर्यापेक्षया
•
--
Page #42
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
(३५)
दिशो भवन्तीत्युक्तम् ॥ ५१ ॥ अथ षट्सु दिक्षु जम्बूद्वीपगत सूर्ययोः करप्रसारं गाथाषट्केनाह -
सगचत्तसहस दुसई, तेवट्ठा तहिगवीस ससा । पुव्यावरकरपसरो, कक्के सूरा बहुत्तर || ५२ ॥
सग० । कर्काद्यदिने योजनानां सप्तचत्वारिंशत्सहस्राणि द्वे च शते त्रिषष्ट्यधिके एकविंशतिश्च षष्टिभागाः ४७२६३ ३ एतावान्सूर्यात्पूर्वस्यामेतावानेव सूर्यादपरस्यां करप्रसरः । इदं तु पूर्वमुक्तमपि षदिकरप्रसाराधिकारात्पुनः कथितम् ' अहुत्तरओ ' त्ति अथोत्तरतो मेरुदिशि करसर उच्यते ॥ ५२ ॥ तदाह
असिइसऊण सहस्सा, पणयालीसाह जम्मओ दीवे । सिइस लवदि, तित्तीससहस्स सतिभागा || ५३ || असि॰ । सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य द्वीपान्तर्जगतीतोऽशीत्यधिकयोजनशतप्रवेशात्तदूनः १८० पञ्चचत्वारिंशत्सहस्राणि करप्रसरः, एतावता चतुश्चत्वारिंशत्सहस्राणि विंशत्यधिकान्यष्टौ शतानि ४४८२० मेरुं यावत्करप्रसरः । मेरुमध्यभागस्थरुचकप्रदेशं यावत्करप्रसरः सूर्यस्यास्ति परं तत्रावकाशाभावान्मेर्व्वन्तन्न प्रविशति । यद्यपि मण्डलसमश्रेणेर्मेरोर्विष्कम्भो योजन दशसहस्रात्मको न लभ्यते किन्तु किञ्चिन्न्यूनस्तथापि व्यवहारेणैतावान् ग्राह्यः । ' अह जम्मओ ' ति अथ याम्यतः - लवणदिशि द्वीपसम्बन्ध्यशीत्यधिकं शतं १८०, लवणे च त्रयस्त्रिंशत्सहस्राणि ‘ सतिभाग ' त्ति सहस्रतृतीयांशयुतानि योजनानि ३३३३३, अशीत्यधिकशतमीलने जातः ३३५१३ कर
Page #43
--------------------------------------------------------------------------
________________
( ३६ )
विनयकुशलविरचितं
प्रसरः । एवमेतत्सम श्रेणिस्थस्य द्वितीयरवेरपि करप्रसरो भाव्यः ॥ ५३ ॥ अथ ततः प्रतिदिनं हीयमानो मकरे यावानवशिप्यते तदाह-इगतीस सहसडसयइगतीसा तह य तीस सहंसा । मयरे रविरस्सी, पुव्ववरे ग्रह उदी ॥ ५४ ॥ इग॰ । सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामन् सूर्यः क्रमेण पूर्वापराभ्यां प्रतिदिनं षडशीत्या षडशीत्या योजनैः करप्रसरतो हीयमानैर्मकरे सर्वबाह्यमण्डलमागच्छति । तत्र चैकत्रिंशत्सहस्राण्यष्टौ शतान्येकत्रिंशदधिकानि त्रिंशच्च षष्टिभागा योजनस्य ३१८३१, एतावत्प्रमाणो मकराद्यदिने पूर्वस्यामपरस्यां च करप्रसरो भवति, पूर्वापरमीलने तद्दिनोदयास्तान्तरं जातं ६३६६३ । अथोदीच्याम् ॥५४॥ तदाह
लवणे तिसई तीसा, दीवे पणचत्तसहस ग्रह जम्मे । लवणम्मि जो अतिगं, सतिभाग सहस्स तित्तीसा ॥ ५५॥ “लव ० । सर्वबाह्ये मण्डले सूर्यो लवणसमुद्रे त्रिंशद्योजनाधिकां त्रिशतीं याति, तेन लवणसम्बन्धीनि त्रीणि शतानि त्रिंशदधिकानि ३३०, द्वीपे च पञ्चचत्वारिंशत्सहस्राणि ४५०००, उभयमीलने ४५३३०, उत्तरस्यां करप्रसरः । ' अह जम्मे ' त्ति अथ याम्ये - लवणदिशि त्रय - स्त्रिंशत्सहस्राणि योजनस्य तृतीयांशयुतयोजनत्रयाधिकानि ३३००३ करप्रसरः || १५ || अथ याम्योत्तरयोः सर्वदा सर्वाग्रमाह
पइदिणमवि जम्मुत्तर, असत्तरिसहस सहसतइयंसो । उड्ढह गुणवीससया, ठा पुव्वावरा रस्सी || ५६ ॥ पइ० । सर्वसंक्रान्तिषु प्रतिदिनं याम्योत्तरयोः करप्रसरमीलनेऽष्टसप्ततिसहस्राः सहस्रतृतीयांशश्च ७८३३३३ । अपिशब्दः सर्वदाप्येता
Page #44
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (३७) वत्प्रमाणस्थिरत्वसूचकः । तथो धश्च मीलने एकोनविंशतिशतानि, समवायाङ्गेऽप्येकोनविंशतिस्थाने तथोक्तत्वात् । तथा पूर्वस्यामपरस्यां च 'रवे रश्मयः' सूर्यकिरणानि सर्वदिनेष्ववस्थिताः, सर्वमण्डलेषु हानिवृद्धिसद्भावात् ॥ ५६ ॥ अथोधिस्तेजःप्रसरः पृथक्त्वमाह
मयरम्मि वि ककम्मि वि, हिट्ठा अट्ठारजोअणसयाई । जोत्रण सयं च उ8, रविकर एवं छसु दिसासु ॥ ५७ ॥ मय० । 'मकरे' इति दक्षिणायनसर्वदिनेषु — कर्के' इत्युत्तरायणसर्वदिनेषु च सूर्यादधोऽष्टादशयोजनशतानि तेजःप्रसरः। यतः सूर्यादधोऽष्टयोजनशतैः समभूतलम् , समभूतलापेक्षया योजनसहस्रमधोग्रामाः, ते हि जम्बूद्वीपापरविदेहेषु मेरोरारभ्य जगत्यभिमुखं द्विचत्वारिंशद्योजनसहजैः क्रमेण क्षेत्रस्यातिनिम्नीभवनादन्तिमविजयद्वयप्रदेशे मन्ति । उक्तं हि लघुक्षेत्रसमासे-"जोअणसयदसगंते, समधरणीओ अहे अहोगामा । बायालीससहस्सेहिं गंतुं मेरुस्स पच्छिमओ ॥१॥" तत्रैवाष्टादशशतानि, अन्यत्र यथासंभवम् । अयं चाधःकरप्रसरो जम्बूद्वीपगतसूर्ययोरेव । अन्ये सूर्यास्त्वधोऽष्टशतान्येव तपन्ति, क्षेत्रस्य समत्वादिति । ऊर्ध्व तु सर्वेषां शतमेकं करप्रसरः, यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके-" जंबुद्दीवे दीवे णं भंते ! केवइअं खित्तं उड्ढे तवेंति केवइअं खित्तं अहो तवेंति केवइअं खित्तं तिरिरं तवेंति ? गोअमा ! एगं जोअणसयं उड्ढं तवेंति हेट्ठा अट्ठारसजोअणसयाई तवेति ।" इत्यादि । ‘एवं ' अमुना प्रकारेण षट्सु दिक्षु रविकरप्रसरः ॥ ५७ ॥ अथ गाथाद्विकेन दिवसरात्रिस्थानान्याह
Page #45
--------------------------------------------------------------------------
________________
विनयकुशलविरचितं
जया जंबूमंदरनगाउ पुव्वावरेण होइ दिणं । तरणी नेत्रा, नरलोए दाहिणुत्तर || ५८ ॥ उत्तरदाहि पुण, दिवसे पुव्वावरेण किर रयणी । भणिअमिणं पंचमसयपढमुद्दे से भगवई || ५ ||
. ( ३८ )
ज० | यदा जम्बूद्वीपमध्यवर्तिमन्दराद्रेः पूर्वस्यामपरस्यां च मानुषाद्रिं यावत्सर्वत्र सम्बद्धं दिनं भवति तदा सकले नरोके रात्रिक्षिणोत्तरयोर्ज्ञेया || १८ || उत्त० । यदा चोत्तरदक्षिणयोः पुनर्द्वाभ्यां सूर्याभ्यां दिवसः स्यात्तदा पूर्वस्यामपरस्यां च ' किल' निश्चितं सर्वत्र सम्बद्धा मानुषोत्तरं यावद्रात्रिर्भवति, जात्येकवचनम्, इति भणितं दिनरात्रिखरूपं पञ्चमशतकप्रथमोद्देशके भगवत्याः, तदालापकचा - यम् - " जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे दिवसो भवति तया णं - उत्तरड्ढे दिवसे भवइ ?, जया णं दाहिणड्ढउत्तरड्ढे वि दिवसो भवइ तया णं पुरच्छिमपचच्छिमे णं राई भवइ ? जया णं भंते ! लवणसमुद्दे दाहिणड्ढे दिवसे भवइ तथा णं उत्तरड्ढे दिवसो भवइ ? जया णं दाहिणड्ढउत्तरड्ढे दिवसो भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवइ ?, जया णं भंते! धायइसंडे दीवे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढे वि दिवसो भवइ ?, जया णं धायइसंडे दाहिणड्ढउत्तरड्ढे दिवसे भवइ तया णं पुरच्छिमपच्चच्छिमे णं राई भवई ?, हंता गोयमा ! | एवं कालोए वि पुक्खरड्ढे वि । ” इत्यादि, काक्वा उद्देकोऽवगाह्यः ॥ ५९ ॥ अथ प्रतिद्वीपं प्रतिसमुद्रं कति दिवसाः . कति रात्रयश्च भवन्ति ? इत्याह
Page #46
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । · दीवसमुद्देसु सया, रविप्पमाणा य वासरा हुँति ।
रयणीउ चंदसंखा, समसेणीए मणुअलोए ॥ ६०॥
दीव० । नरलोकवर्तिसाईद्वयद्वीपे समुद्रद्वये च यावन्तः सूर्यास्तावन्तो वासरा भवन्ति । भावना यथा-जम्बुद्वीपे मेरोरुभयतः समश्रेण्या द्वौ वासरौ, एवं लवणे एकैकपाधै उभय(द्वय)संभवाच्चत्वारः, धातकीखण्डे द्वादश, कालोदे द्विचत्वारिंशत् , पुष्कराढे द्वासप्ततिः, एवं सर्वेऽपि द्वात्रिंशदधिकं शतं वासराः सम्बद्धा समश्रेण्या भवन्ति, सर्वेषां सूर्याणां समकं चलनात् षष्ट्या मुहूतैरेव मण्डलपूरणाच्च । तेषां मुहूर्तगतिमानादिकं मण्डलपरिधेः षष्टिभागहारैर्बोध्यम् । तथा चन्द्रप्रमाणा रात्रयोऽपि द्वात्रिंशदधिकं शतम् । तेषां मुहूर्तगतिमानादिकं साधिकद्वाषष्टिमुहूर्ते ज्ञेयम् ॥ ६० ॥ अथ यदा कर्कसङ्कान्तौ भरतेऽष्टादशमुहूर्त्त दिनमानं तदा पश्चिमविदेहैरावतपूर्व विदेहादिष्वियन्मानमुतान्यथा ? इति प्रश्नस्योत्तरं गाथाद्वयेनाह
पुचविदेहे सेसे, मुहुत्ततिगि वासरे निरिक्खंति । भरहनरा उदयंतं, सूरं ककस्स पढमदिणे ॥ ६१॥
भरहे वि मुहुत्ततिगे, सेसे पच्छिमविदेहमणुत्रा वि । - . एरवए वि अ एवं, तेण दिणं सव्वो तुल्लं ॥ ६२ ॥
पुव्व० । पूर्वविदेहक्षेत्रे मुहूर्त्तत्रिकप्रमाणदिने सति कोये दिने सूर्यमुदयन्तं ' भरतनराः ' भरतक्षेत्रवासिनो जनाः पश्यन्ति ॥ ६१ ॥ भर० । भरतक्षेत्रेऽपि मुहूर्तत्रिकप्रमाणे 'शेषे' अवशिप्यमाणे दिने सति कर्काये दिने पश्चिमविदेहमनुष्याः सूर्यमुदयन्तं पश्यन्ति । ' एवं ' अमुना प्रकारेण पश्चिमविदेहक्षेत्रे मुहूर्तत्रिके सति ऐरावतवासिनो नरा
Page #47
--------------------------------------------------------------------------
________________
(४०) विनयकुशलविरचितं उदितं पश्यन्ति, ऐरावतेप्वपि मुहूर्तत्रिके पूर्व विदेहमनुष्याश्च, ततोऽग्रेतनक्षेत्रे मुहूर्त्तत्रिके दिने चटिते पाश्चात्यक्षेत्रे सूर्योऽस्तमेतीत्यर्थः । यथोदयवेलासम्बन्धि मुहूर्त्तत्रिकं लब्धं तथास्तसमयादर्वाग्मुहूर्त्तत्रिकं लभ्यते, अतः सर्वत्र क्षेत्रे सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्येऽष्टादशमुहूर्त तुल्यमेव, रात्रिश्च सर्वत्र द्वादश मुहूर्ता । तदा च पूर्वपश्चिमविदेहभरतैरावतेषु चतुर्षु स्थानेषु मुहूर्त्तत्रिकं यावदिवसो युगपत्प्राप्यते, परं पूर्वपश्चिमविदेहक्षेत्रयोः सन्ध्याकालिकं मुहूर्त्तत्रिकं भरतैरावतक्षेत्रेषु प्राभातिकम् , यदा च भरतैरावते सायन्तनं तदा च पूर्वपश्चिमविदेहेषु प्राभातिकमित्येवमभ्यूह्यम् । कर्कसङ्क्रान्त्याद्यदिनव्यतिरिक्तशेषेषु दिनेषु प्रतिमण्डलं किञ्चिन्न्यूनचतुष्पलैरुदयास्तमायाभ्यां हानिवृद्धी ज्ञेये ॥ ६२ ॥ अथ सर्वत्राष्टादशमुहूर्ता रात्रिः कथं स्यात् ? इत्याहजंबुद्दीवे मयरे, रयणीइ मुहुत्ततिगि अइकंते । उदयइ तहेव सूरो, मुहुत्ततिगसेसि अत्थमए ॥ ६३ ॥
जंबु० । जम्बूद्वीपे सर्वाभ्यन्तरात्क्रमेण दिने हीयमाने सूर्यो यदा • सर्वबाह्ये मण्डले गच्छति तदा पूर्वविदेहेषु मकराद्यदिने रात्रेर्मुहर्त्तत्रिकेऽतिक्रान्ते सूर्यो भरते उदयमेति, तथैव मुहूर्त्तत्रिके च शेषे सत्येवास्तमेति । तथा भरते रात्रेर्मुहूर्त्तत्रिके गते सति पश्चिमविदेहक्षेत्रे सूर्योदयः, अवशिष्टे रात्रेर्मुहूर्त्तत्रिके सूर्यस्यास्तमयनं स्यात् । एवमैरावते पूर्व विदेहेष्वपि भाव्यम् । रात्रिः सर्वत्राष्टादशमुहूर्ता, यदुक्तं भगवत्यां पञ्चमशतकप्रथमोदेशके-"जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ ?, जया णं दाहिणड्ढे उत्तरड्ढे उक्कोसए
Page #48
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (४१) अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चच्छिमे णं जहन्निया दुवालसमुहुत्ता राई भवइ ?, जया णं पुरच्छिमपञ्चच्छिमे णं अट्ठारसमुहुत्ते दिवसे तयाणं दाहिणड्ढे उत्तरड्ढे वि दुवालसमुहुत्ता राई भवइ ?, हंता गोअमा!।" एवमष्टादशमुहूर्तरात्रेरप्यालापको ज्ञेयः । ततो भरतैरावतविदेहद्वयादिषु सर्वत्र द्वादशमुहूर्त दिनम् , द्वादश चतुर्गुणिता अष्टचत्वारिंशद्भवन्ति । मण्डलेषु भ्रमिकालः सूर्याणां मुहूर्ताः षष्टिरेव, तेन द्वादशमुहूर्त्ता रात्रावेव सम्माताः इति सिहं सर्वत्र दिनरात्रिमानं तुल्यम् । यदा द्वादशमुहूर्त दिनं तदा बाह्यमण्डलेषु गतत्वेन सूर्ययोः करप्रसरहानेस्तावत्कालमदर्शनात्तथाजगत्खाभाब्यादिति ॥ ६३ ॥अथ शेषमनुष्यलोके दिनरात्रिप्रमाणमाह
णरलोगम्मि असेसे, एवं दिणरयणिमाणमवि नेअं । नवरं बहिया बहिआ, ससिसूराणं गई सिग्घा ॥ ६४ ।।
णर० । ' एवं ' अनेन न्यायेन शेषे नरलोके दिनरात्रिमानमपि जम्बूद्वीपवज्ज्ञेयम् , तत्रत्यपूर्व विदेहपश्चिमविदेहभरतैरावतादिषु सर्वाभ्यन्तरमण्डलचारिषु सूर्येषु दिनमष्टादशमुहूर्त रात्रि दशमुहूर्तेत्यादिकं तथैव परिभावनीयम् । यतो येषु दिनेषु जम्बूद्वीपे मध्यबाह्यमण्डलेषु सूर्यौ भवतस्तेष्वेव दिनेषु तेऽपि सूर्यास्तत्रत्यमध्यबाह्यमण्डलेज्वेव भवन्ति । उत्तरचारित्वं दक्षिणचारित्वं च सर्वेषां १३२ समकं भवति, एकनामकनक्षत्रराशिषु सर्वेषां सूर्याणामवस्थानात् । 'नवरं' इत्ययं विशेषः-लवणादिषु ये येभ्यो बहिः सूर्यास्तेषां ' गतिः ' चलनं 'शीघ्रा' शीघ्रतरा जायते ॥६४॥ अथ सर्वत्र क्षेत्रेषु दिनरात्रिसम्बन्ध्यटप्रहरकालस्वरूपमाह
Page #49
--------------------------------------------------------------------------
________________
(४२) विनयकुशलविरचितं
पढमपहराइकाला, जंबुद्दीवम्मि दोसु पाससु । लब्भंति एगसमयं, तहेव सव्वत्थ परलोए ॥६५॥ पढ० । प्रथमप्रहरादिका उदयकालादारभ्य रात्रेश्चतुर्थयामान्त्यकाल यावन्मेरोः समन्तादहोरात्रस्य सर्वे कालाः समकालं जम्बूद्वीपे पृथक पृथक क्षेत्रे लभ्यन्ते । भावना यथा— भरते यदा, यतः स्थानात्सूर्य उदेति तत्पाश्चात्यानां दूरतराणां लोकानामस्तकालः, उदयस्थानाधोवासिनां जनानां मध्याह्नः, एवं केषाञ्चित्प्रथमः प्रहरः, केषाञ्चिद्वितीयः प्रहरः, केषाञ्चित्तृतीयः प्रहरः, क्वचिन्मध्यरात्रः, क्वचित्सन्ध्या, एवं विचारणयाष्टप्रहरसम्बन्धी कालः समकं प्राप्यते । तथैव नरलोके सर्वत्र जम्बूद्वीपगतमेरोः समन्तात् सूर्यप्रमाणेनाष्टप्रहरकालसंभावनं चिन्त्यम् ॥६५॥ सूर्यचन्द्रयोः स्वरूपमुक्त्वाऽथ चन्द्रस्य किञ्चिद्विशेषमाह
केणं वड्डइ चंदो, परिहाणी होइ केण चंदस्स। - केण सिकिरहपक्खा, दिणे अ रत्तिम्मि केणुदओ ॥६६॥ - केणं० । केन प्रकारेण चन्द्रः शुक्लपक्षे वर्धते ? १ केन प्रकारेण कृष्णपक्षे चन्द्रस्य परिहानिर्भवति ? २ केन प्रकारेण शुक्लपक्षो भवति ? ३ केन प्रकारेण कृष्णपक्षोऽपि ? ४ केन प्रकारेण कदाचिचन्द्रस्य रात्रावुदयः स्यात् ? ५ केन च दिवाप्युदयोऽपि ? ६ ॥६६॥ अर्थतान् षट् प्रश्नान् विवृण्वन् प्रथमं राहुखरूपमाहकिएहं राहुविमाणं, निचं चंदेण होइ अविरहिअं।
चउरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरइ ॥ ६७ ॥ - किण्हं ० । इह द्विधा राहुः, नित्यराहुः पर्वराहुश्च । तत्र यो नित्यराहुस्तस्य विमानं कृष्णम् , तच्च जगत्स्वाभाव्यात् 'नित्यं 'आ कालं
Page #50
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (४३) चन्द्रेण सार्द्धमविरहितं चतुर्भिरङ्गुलैरप्राप्तं सच्चन्द्रविमानस्याधस्ताच्चरति ॥ ६७ ॥ अथ चन्द्रस्य वृद्धिहानिस्वरूपमाह
बावढि बावडिं, दिवसे दिवसे उ सुकपक्खस्स । जं परिवड्डइ चंदो, खवेइ तं चेव कालेण ।। ६८ ॥
वाव । द्वाषष्टिभागीकृतचन्द्रविमानस्य द्वौ भागावुपरितनौ सदाप्यनावार्यस्वभावत्वात्तावपाकृत्य शेषाः षष्टिभागाः पञ्चदशभागैह्रियन्ते चत्वारो लभ्यन्ते । अवयवे समुदायोपचाराच्छुक्लपक्षस्य दिवसे दिवसे चतुरो द्वाषष्टिभागान् यान परिवर्धते 'कालेन' कृष्णपक्षेण पुनर्दिवसे दिवसे तानेव द्वाषष्टिभागान 'क्षपयति ' परिहापयति । उक्तं हि" पन्नरसाभागेण य, चंदं पन्नरसमेव तं वरइ । पन्नरसविभागेण य, तेणेव कमेणऽवक्कमइ ॥ १ ॥ " व्याख्या-कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशभागेन तं चन्द्रमिति चन्द्रविमानस्य पञ्चदशमेव भागं 'वृणोति' आच्छादयति । शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमात्मीयेन पञ्चदशभागेन ‘व्यतिक्रामति' मुञ्चतीत्यर्थः । जीवाभिगमवृत्तिगतमिदम् ॥ समवायाङ्गवृत्तौ तु द्विषष्टिस्थाने-" बावडिं बावडिं" इत्यत्र चन्द्रविमानस्यैकत्रिंशदुत्तरनव- । शतविभक्तस्य ९३१ एकोऽशोऽवशिष्यते, शेषाः प्रतिदिवसं द्विषष्टिढिषष्टिवर्धन्ते, एकत्रिंशदुत्तरनवशताङ्कस्य पञ्चदशदिनरूपभागैर्हतस्य द्वाषष्टेर्लभ्यमानत्वात् , एकः शेषः, ततः पञ्चदशदिनैः सर्वे समुदिता भवन्ति । कृष्णपक्षे पुनस्तथैव हीयन्त इति व्याख्यातम् ॥ ६८ ॥ अथ तृतीयं मतं सूर्यप्रज्ञप्तिगतमुच्यते
Page #51
--------------------------------------------------------------------------
________________
(४४)
विनयकुशलविरचितं सोलसभागे काऊण उडुबई हायएत्थ पन्नरसं । तत्तियमित्ते भागे, पुणो वि परिवड्डए जोण्हा ॥ ६९ ।।
सोल । षोडशभागान् कृत्वा उडुपतिः ' चन्द्रः कृष्णपक्षे प्रतिदिनमेकैकं पञ्चदशभागं परिहापयति, एवं पञ्चदशदिनैः पञ्चदशभागा भवन्ति, एकोऽनावृतोऽवशिष्यते । शुक्लपक्षे त्वेकैकः पञ्चदशभागो वर्धते तेन राकायां पूर्णाः षोडशभागा भवन्ति । ज्योतिष्करण्डकेऽपीत्थमेव । अनेन भणितत्रयानुसारेण स्तोको वा घनो वा चन्द्र उद्घाटस्तिष्ठति, न च सर्वः कदापि नित्यराहुणा चन्द्र आब्रियते । आह च चन्द्रविमानस्य पञ्चैकषष्टिभागोनयोजनमानत्वादाहुविमानस्य ग्रहविमानत्वेनार्धयोजनमात्रत्वाच्च कथं सर्वात्मनावरणस्य संभवः ?, उच्यते, ग्रहविमानानामुक्तप्रमाणस्य प्रायिकत्वादाहुविमानमधिकप्रमाणमपि संभाव्यते। अन्ये त्वाहुर्लधीयसोऽपि राहुविमानस्याऽत्यन्तबहुलेन प्रसर्पता तमिस्ररश्मिजालेन महदपि चन्द्रविमानमाब्रियते । अथवा महदपि चन्द्रविमानमर्वावस्थायिना लघुनापि राहुविमानेनाच्छादितमधस्तनैलॊकै दृश्यत इति ॥ ६९ ॥ अथ श्वेतकप्णाभिधे तृतीयचतुर्थे द्वारे आह----
एवं वड्डइ चंदो, परिहाणी होइ एव चंदस्स ।
कालो वा जोएहा वा, तेणणुभावेण चंदस्स ॥७॥ एवं वि० । 'इत्थं' राहुविमानेन प्रतिदिनं क्रमेणाऽनावरणकरणतश्चन्द्रः 'वर्धते' वर्धमानः प्रतिभासते, एवं' राहुविमानेन प्रतिदिवसं क्रमेणाचरणकरणतः परिहाणिप्रतिभासो भवति । चन्द्रस्य विषये 'तेनानुभावेन' तेन कारणेन एकः पक्षः 'कालः' कृष्णो भवति यत्र चन्द्रस्य परिहाणिप्रतिभासः, एकस्तु ज्योत्स्नावान् शुक्लपक्षः यत्र चन्द्रविषया वृद्धिः प्रति
Page #52
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् 1. (४५.) भासते। 'कालो वा जोण्हा वा' इत्यत्र द्वौ वाशब्दो तुल्यकक्षताद्योतको । अत्र श्वेतपक्षात्पूर्वं कृष्णपक्षाख्यानं तद्वयत्ययकारणं जीवाभिगमेऽपि नोक्तम् ॥७०॥ अथ चन्द्रस्य कदा रात्रावुदयः कदा दिवसेऽप्युदयस्तद्वारद्वयं व्याचिख्यासुर्गाथाषट्केनाह--
सूरेण समं उदओ, चंदस्स अमावसीदिणे होइ । तेसिं मंडलमिकं, रासी रिक्खं तहिकं च ॥ ७१ ॥ सूरेण । सूर्येण साई सर्वास्वप्यमावास्यासु प्रातश्चन्द्रस्योदयो भवति, तस्मिन् दिने चन्द्रसूर्ययोर्मण्डलमेकं भवति, यस्मिन्मण्डले सूर्यस्तदूर्ध्वमेव चन्द्रोऽपि निजमण्डले चरति । तथा तयो राशिर्नक्षत्रं चैकमेव, यस्मिन् राशौ नक्षत्रे च सूर्यस्तस्मिंश्चन्द्रोऽपि ॥७१॥ ततः किं भवति ? इत्याह
तत्तो पडिवयवीयाइदिणेसु रिक्खाइभेप्रमावहइ । इक्विकमुहुत्तेण य, सूरा पिट्टे पडइ चंदो ॥ ७२ ॥ तत्तो प० । 'ततः' तदिनानन्तरममावास्यातः प्रतिपद्वितीयादिदिनेषु चन्द्रो ऋक्षादीनां भेद-अन्तरमावहति, नक्षत्रराशिमण्डलेभ्योऽन्तरं प्रामोतीत्यर्थः, तथा च प्रतिदिनमेकैकमुहूर्तेन सूर्यात्पृष्ठे पतति ॥७२॥ पुनः किं भवति? इत्याह
राहू वि अ पइदिअहं, ससिणो इविकभागमुज्झइ अ। इअ चंदो बीघाइअदिणेसु, पयडो हवइ तम्हा ।। ७३ ।।
राहू वि० । राहुरपि प्रतिदिवसमेकैकं पञ्चदशभागं 'उज्झइ' त्ति त्यजति, 'इति' अमुना प्रकारेण चन्द्रोऽपि द्वितीयादिषु दिनेषु तस्मात्प्रकटो भवति । भावना यथा-शुक्लप्रतिपद्युदयस्तथैव, अमावास्यातो मण्डलादीनामन्तरं जायते, मन्दगतित्वेन सूर्यान्मुहूर्ते नैकेन चन्द्रः पृष्ठे पतति, रा
Page #53
--------------------------------------------------------------------------
________________
(१६) विनयकुशलविरचितं हुरप्येकं भागं मुञ्चति, परं सायं सूर्यकिरणावृतत्वेन न तथा सम्यग्दृग्गोचरमायाति । द्वितीयादिने सूर्योदयादनूदयेन द्वितीयभागमोचनेन मुहूर्त्तद्विकगम्यक्षेत्रपृष्टपतनेन च सायं सूर्यादुरत्वाद् दृश्यते, एवं सर्वासु शेषतिथिषु ज्ञेयं पूर्णिमां यावत् । गतेः शीघ्रविभागस्त्वेवम्-सर्वमन्दगतिश्चन्द्रः, तस्माच्छीघ्रो रविः, तस्माद्ग्रहाः, तेभ्यो नक्षत्राणि, ततस्ताराः । ग्रहमध्ये तु बुधाच्छुक्रः शुक्रान्मङ्गलो मङ्गलाद वृहस्पतिवृहस्पतेः शनिः शीघ्र इति संग्रहणीवृत्तिगतम् ॥७३॥ अथ पूर्णिमायां यत्स्यात्तदाहसयलो वि ससी दिसइ, राहुविमुक्को अ पुएिणमादिअहे। सूरत्थमणे उदओ, पुव्वे पुन्बुत्तजुत्तीए ॥ ७४ ॥
सयलो० । पूर्णिमायां सकलोऽपि शशी राहुविमुक्तः सन् दृश्यते । सूर्यास्ते पूर्वस्यामुदयं प्रामोति, 'पूर्वोक्तयुक्त्या' पञ्चदशमुहूतैः सूर्यात्पृष्ठे पतितत्वेन ॥७४॥ पूर्णिमायां विशेषमाह
ससिमरामिह पुरिणमि, हुंति उ रासीण उभयसत्तमगे।
बहुलपडिवयनिसाए, गए मुहुत्ते हवइ उदओ ।। ७५ ॥ ___ ससिसू० । सर्वास्वपि पूर्णिमासु शशिसूर्यौ परस्परं सप्तमराशौ भवतः, सूर्यभोग्यात्सप्तमराशौ चन्द्रः, चन्द्रभोग्यात् सप्तमराशौ सूर्यः । शुक्लपक्षे दिनोदयस्वरूपं प्रोच्याथ सार्द्धगाथया कृष्णपक्षे चन्द्रस्य रात्रावुदयस्वरूपमाह-'बहुल' त्ति कृष्णपक्षप्रतिपन्निशाया मुहूर्ते गते चन्द्रस्योदयो भवति ॥ ७९ ॥ ततः किं स्यात् ? इत्याह
एवं मुहुत्तवुड्डी, भागं चावरह पइदिणं राहू ।
तेण अमावस्साए, होइ तहा जं पुरा वुत्तं ।। ७६ ॥ .. एवं मु० । 'एवं' अमुना प्रकारेण मुहूत्र्तवृद्धिर्भवति, यथा कृष्णद्विती
Page #54
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (१७) यायां मुहूर्तद्वये गते चन्द्रोदयो यावदमावास्यायां पञ्चदशमुहूर्त्तवृद्धिः । राहुरपि प्रतिदिवसं पञ्चदशमेकैकं भागमावृणोति 'तेन' कारणेनामावास्यायां तथाभवति तत्पुरा प्रोक्तं-सूर्येण सममुदयमित्यादिकं सर्वम् । अत्र किञ्चिदिनमानापेक्षया उदयवेलायाः स्तोकत्वमधिकत्वं वा चिन्त्यम् । किञ्च रात्रेर्यावद्भिर्मुहूर्तरुदयस्तावद्भिर्मुहूद्धितीयदिवसेऽस्तमयनमपि भाव्यम् ॥ ७६ ॥ अथ पर्वराहुखरूपमाह
ससिसूराणं गहणं, सड्डतिवरिसाडयालवरिसेहिं । . उकोसो कमेणं, जहन्नो मासछक्केणं ॥ ७७ ।। ___ ससिसू० । यः पर्वराहुः स पूर्णिमारात्रौ चन्द्रविमानं तथाऽमावास्यादिने सूर्यविमानं तिरोधत्ते, तस्मिंस्तिरोहिते ग्रहणमिति रूढिः । तच्च ग्रहणं चन्द्रसूर्ययोः क्रमेणोत्कृष्टतः सार्द्धवर्षत्रयेण चन्द्रस्याष्टचत्वारिंशद्वर्षेः सूर्यस्य च भवति । जघन्यतः पुनरुभयोर्मासषट्केनैवेति स्थितिः॥७७॥ अथ ग्रहणस्य पुनर्विशेषमाह- ससिणो वा रविणो वा, जहमा गहणं तु होइ एगस्स । । तइया तं सव्वेसिं, ताणं नेअं मणुअलोए । ७८ ॥
ससिणो० । यदाकदाचिदेकस्य शशिनो रवेर्वा ग्रहणं भवति तदा सर्वेषां चन्द्राणां सूर्याणां च मनुष्यलोके समकं जायते, एकस्य चन्द्रस्य तदा सर्वेषां चन्दाणाम् , एकस्य सूर्यस्य तदा सर्वेषां सूर्याणां नरक्षेत्रवर्तिनां भवति, यतः सर्वेषामप्येकनक्षत्रराशिस्थितिकत्वात्सम श्रेणिव्यवस्थितत्वाच्च । न चेदं स्वमनीषया लिखितं. किन्त्वनुयोगद्वारज्यादौ तथैव दर्शनात् , तथा च तवृचिः-" चन्द्रसूर्योपरागाःराहुग्रहणानि, बहुवचनं चात्राईतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदु
Page #55
--------------------------------------------------------------------------
________________
(४८) विनयकुशलविरचितं परागभावान्मन्तव्यमिति । यच्च जीवाभिगमादावन्तरद्वीपादियौगलिकक्षेत्रेषु चन्द्रार्कोपरागाभावः प्रोक्तस्तत्तु तज्जयाजन्यासंभवस्तत्र ज्ञायते । यद्वा तेषां पुण्यानुभावाद ग्रहणादर्शनमपि संभाव्यते परं न ग्रहणासंभवः, तत्रापि चन्द्रादित्यानां चारत्वेन ॥ ७८ ॥ अथ चन्द्रार्काः कदा दक्षिणचारिणः कदोत्तरचारिणश्च भवन्ति ? इत्याह
ककाइमिश्राइसु छसु, रासीसुं दाहिणुत्तरा कमसो। । मासेण हुंति ससिणो, सूरा संवच्छरेण पुणो ॥ ७९ ॥
कक्का० । कर्कादिषट्सु राशिघु-कर्क १ सिंह २ कन्या ३ तुला४ वृश्चिक ५ धनुर्पु ६ वर्तमानाश्चन्द्रार्का दक्षिणचारिणो भवन्ति, उत्तरमण्डलेभ्यः क्रमेण दक्षिणमण्डलेषु गच्छन्ति । मृगादिषट्सु चमकर १ कुम्भ २ मीन ३ मेष ४ वृष ५ मिथुनेषु ६ वर्तमानाश्चन्द्रार्का उत्तरचारिणो भवन्ति । बहुवचनमत्र सकलचन्द्रार्कापेक्षम्, यतः सर्वेऽपि सूर्याश्चन्द्रा वा दक्षिणोत्तरचारिणः समकालमेव भवन्ति, एकराश्यवस्थानात् । तत्र विशेषमाह-एकेन मासेन चन्द्रा दक्षिणोत्तरचारिणः, सूर्याः पुनः संवत्सरेण दक्षिणोत्तरचारिणो भवन्ति । अत्र मासो नक्षत्रमासो ग्राह्यः, स च सप्तविंशतिर्दिनान्येकविंशतिसप्तषष्टिभागाश्चेति २७३ प्रमाणः, तदर्धेन १३४४ चन्द्रस्य दक्षिणायनमर्दैन चोत्तरायणम् । यतश्चन्द्र १ चन्द्र २ अभिवर्धित ३ चन्द्र ४ अभिवर्धित ५ नामानः संवत्सराः ५, ते च त्रिंशदधिकाष्टादशशतदिनसंख्ये युगे पञ्च भवन्ति । तत्रैकोनविंशदिनमानाः सहात्रिंशदूद्वापष्टिभागाश्चन्द्रमासा द्वाषष्टिः, साईत्रिंशदिनमानाः सूर्यमासाः पष्टिः, सप्तविंशतिदिनमानाः सैकविंशतिः सप्तषष्टिभागा नक्षत्रमासाः
Page #56
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( ४९ ) सप्तषष्टिर्युगे । तेन युगे चन्द्रस्य दक्षिणायनानि सप्तषष्टिः, उत्तरायणान्यपि सप्तषष्टिः सर्वाणि युगे १३४ चन्द्रायणानि । तथा सूर्यस्य युगे दशायनानि, तत्र पञ्च दक्षिणायनानि पञ्चैवोत्तरायणानि । त्र्यशीत्यधिकशतदिनानामेकैकमयनं १८३, तद्दशगुणं युगं १८३० दिनप्रमाणम् । तथा सूर्यः सर्वाभ्यन्तरे मण्डले दिनमेकं चरति, सर्वबाह्येऽपि दिनमेकम् शेषेषु मण्डलेषु प्रवेशनिर्गमाभ्यां दिनद्वयम्, अतः प्रथमचरमदिनन्यूनत्वे सूर्यसंवत्सरे ३६६ दिनानि, स च पञ्चगुणितोऽष्टादशशतानि त्रिंशदधिकानि । युगस्य चादिः श्रावणसितप्रतिपदि उक्तं हि - " सावणबहुलपडिवए, बालवकरणे अभीइनक्खत्ते। सव्वत्थ पढमसमए, जुगस्स आई विआणाहि ॥ १ ॥ " सर्वत्रेति भरतैरावतविदेहेषु भाव्यम् । अवसर्पिण्यां षण्णामरकाणामप्यादिरत्रैव । विदेहेषु यद्यप्यरकाणामभावस्तथापि पञ्चवत्सरात्मकस्य युगस्य सद्भावात् । मासपञ्चकवर्षपञ्चकखरूपं श्रीमुनिचन्द्रसूरिकृतकालशतक - प्रवचनसारोद्धारादिग्रन्थेभ्योऽवसेयम् । दिनादिसंख्या तु यन्त्रकद्वयादवधार्या
२९
३२
६२
३०
६२
३१
६२
चन्द्रमास. सूर्यमास. नक्षत्रमास.
२७
६०
२१
६७
६७
"
३१
१२१
१२४
अभिवर्धित
मास.
२
३०
०
०
ऋतुमास.
६१
दिनसंख्या.
भागाः
भागकरणांकाः
पंचमासनाम.
संख्या.
Page #57
--------------------------------------------------------------------------
________________
(५०)
३५४
१२
विनयकुशलविरचितं
३५४ | ३८३
१२
४४
૨૪ | ૨૮૨ दिनसंख्या.
१२
४४
आगत भागसंख्या.
६२
६२
६२
६२
६२
भागकरणकाः
त्सरः
तत्र.
चन्द्रसंव- चन्द्रसंव- अभिवर्धित - चन्द्रसंव- अभिवर्धित - पंचवर्षेरेको युगः त्सरः संवत्सरः त्सरः संवत्सरः माम १२ मास १२ मास १३ मास १२ मास १३
दिन १८३०
किञ्च सर्वबाह्यमण्डलस्थस्य पुष्यस्य भोगः सूर्याचन्द्रमसोस्सर्वाभ्यन्तरमण्डलस्थयोः स्यात् । तथा सर्वाभ्यन्तरमण्डलस्थिताभिजिद्भोगः सर्वबाधे मण्डले तयोः स्यादित्यत्रायनापेक्षो भोगो न तु मण्डलैकत्वं कारणम् । स्थानाङ्के नवमाध्ययनप्रान्तेऽपि - " अभिई सवण धणिट्ठा, रेवइ असिणी मिगसिरं पूसो । हत्थो चित्ता य तहां, पच्छंभागा णव हवंति ॥ १ ॥ " एतदवृत्तिः - ' पच्छंभाग ' त्ति पश्चाद्भागचन्द्रेण भोगो येषां तानि पश्चाद्भागानि, चन्द्रोऽतिक्रम्य यानि भुङ्क्ते ष्टष्ठं दत्त्वेत्यर्थः । इत्यादि दृश्यम् ॥ ७९ ॥ चन्द्रसूर्ययोर्मण्डलादिस्वरूपं प्रकाश्याथ नक्षत्रतारकयोः स्वरूपमाह-
व मंडलाई, एक्खत्ताणं जिहिं भणिश्रई । दो मंडलाई दीवे, मंडलछकं च लवणम्मि ॥ ८० ॥ अट्टे० । अष्टावेव मण्डलानि नक्षत्राणां जिनेन्द्रैर्भणितानि । तत्र द्वे मण्डले जबूद्वीपे मण्डलषट्कं च लवणोदे । यच्चन्द्रमसस्सर्वाभ्यन्तरमण्डलं तन्नक्षत्राणामपि सर्वाभ्यन्तरं मण्डलम् यच्चन्द्रमसस्सर्वबाह्यं
Page #58
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। (५१) मण्डलं तन्नक्षत्राणामपि सर्वबाह्यं मण्डलम् । यदुक्तं जम्बूद्वीपप्रज्ञप्त्याम्" जम्बुद्दीवे दीवे णं भंते ! केवइअं ओगाहेत्ता नक्खत्तमण्डला पण्णत्ता ? गोअमा ! जंबुद्दीवे दीवे असीइसयं ओगाहेत्ता एत्थ णं दो नक्खत्तमण्डला, लवणसमुद्दे वि तिन्नि तीसे जोअणसए ओगाहेत्ता एत्थ णं छ नक्खत्तमण्डला पन्नत्ता । सव्वभंतराओ णं णक्खत्तमण्डलाओ केवइए अबाहाए सव्वबाहिरए णक्खत्तमण्डले पन्नत्ते ? गोअमा ! पंचदसुत्तरजोअणसए अबाहाए णक्खत्तमण्डले पन्नत्ते ।" इति ॥ ८० ॥ अथ केषु केषु मण्डलेषु नक्षत्राणि सन्ति ? इति गाथापञ्चकेनाह
अभिइ सवण धणिट्ठा, सयभिस पुव्वुत्तरा य भवया। रेवइ अस्सिणि भरणी, पुव्वुत्तरफग्गुणीओ अ॥१॥ तह साई बारसमा, अभंतरए उ मंडले ससिणो । तइए पुणव्वसु मघा, छठे पुण कत्तिा एका ॥२॥ रोहिणि चित्ता सत्तमि, विसाहिया होइ अट्टमे एगा। दसमे पुण अणुराहा, एगारसमे पुणो जेट्ठा ।। ८३ ॥ मिगसिर अद्दा पुस्सो, अस्सेसा तह य हत्थमूलाणि । पुव्वुत्तरसड्ढाओ, इमाणि अंड हुंति पनरसमे ॥ ८४ ॥
अभि । अभिजित् १ श्रवण २ धनिष्ठा ३ शतभिषक् ४ पूर्वभद्रपदा ५ उत्तरभद्रपदा ६ रेवती ७ अश्विनी ८ भरणी ९ पूर्वाफाल्गुनी १० उत्तराफाल्गुनी ११ ॥ ८१ ॥ तह । तथा खातिर्द्वादशः १२, एतानि द्वादश नक्षत्राणि चन्द्रस्य सर्वाभ्यन्तरे मण्डले सन्ति, इदं नक्षत्रमण्डलं प्रथमं सर्वाभ्यन्तरम् १ । तृतीये चन्द्रमण्डले पुनर्वसु
Page #59
--------------------------------------------------------------------------
________________
( ५२ )
विनयकुशलविरचितं
१ मघा २ द्वे नक्षत्रे, द्वितीयं नक्षत्रमण्डलम् । पष्ठे चन्द्रमण्डले एका कृत्तिका, तृतीयं नक्षत्रमण्डलमेतत् ॥ ८२ ॥ रोहि ० । सर्वाभ्यन्तरा - त्सप्तमे चन्द्रमण्डले रोहिणी १ चित्रे २ द्वे, नक्षत्रमण्डलं चतुर्थम् । सर्वाभ्यन्तरादष्टमे चन्द्रमण्डले एका विशाखा, नक्षत्रमण्डलं पञ्चमम् ५। सर्वाभ्यन्तरान्मडलात्पुनर्दशमेऽनुराधा नक्षत्रमण्डलं षष्ठम् ६ । एकादशे चन्द्रमण्डले ज्येष्ठा नक्षत्रमण्डलं सप्तमम् ७ ॥ ८३ ॥ मिग० । मृगशीर्ष १ आर्द्रा २ पुप्य ३ अश्लेषा ४ हस्त ५ मूल ६ पूर्वाषाढा ७ उत्तराषाढा ८ एतान्यष्टौ नक्षत्राणि सर्वबाह्ये पञ्चदशे चन्द्रमण्डले सन्ति, नक्षत्रमण्डलमष्टमम् ॥ ८४ ॥ अथ येषु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति तान्याह -
सेसेसु मंडलेसुं, सत्सु ससिणो न हुंति रिक्खाणि । सुहवंति ताणं, अव य मंडलागि तत्र ॥ ८५ ॥ सेसे ० ० । ' शेषेषु ' द्वितीयचतुर्थपञ्चमनवमद्वादशत्रयोदशचतुर्दशसंज्ञेषु सप्तसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति । पूर्वोक्तेष्वष्टसु चन्द्रमण्डलेषु नक्षत्राणि सन्ति, 'ततः ' तस्मात्कारणात्तेषामष्टावेव मण्डलानि भवन्ति ॥ ८९ ॥ अथ नक्षत्रमण्डलानामवस्थितत्वमाह---
रिक्खाणि मंडले जागि जम्मि वृत्ताणि ताणि तत्थेव । निचं चरंति चंदाईणं भोगं तह उ चिंति ॥ ८६ ॥ रिक्खा ० । यानि नक्षत्राणि यस्मिन्मण्डले उक्तानि तानि तत्रैव ' नित्यं ' आ कालं चरन्ति तत्तन्निजं निजं मण्डलं त्यक्त्वा नान्यत्र मण्डले गच्छन्ति । चन्द्रादीनामुपभोग्यानि, आदिशब्दात्सूर्यग्रहाणां ग्रहः । अष्टाविंशतिनक्षत्राणां मध्ये द्वादश नक्षत्राणि सर्वाभ्यन्तरमण्डलस्थानि
Page #60
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (५३) चन्द्रस्योत्तरेणोत्तरस्यां दिशि व्यवस्थितानि सदा योगं युञ्जन्ति । योगः किम् ? उच्यते, नक्षत्रसीमावर्तिना चन्द्रेण सह नक्षत्राणां संबन्धो योगः। अष्टौ नक्षत्राणि सर्वबाह्यमण्डलस्थानि चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि सदा योगं युञ्जन्ति । सर्वाभ्यन्तरसर्वबाह्ये नक्षत्रमण्डले त्यक्त्वा शेषाणि षण्मध्यमण्डलस्थान्यष्टौ नक्षत्राणि कदाचिदुत्तरयोगीनि कदाचिदक्षिणयोगीनि कदाचित्प्रमर्दयोगीन्यपि । प्रमर्दमिति कोऽर्थः ? तेषां नक्षत्राणां मध्येन भूत्वा चन्द्रो व्रजति गच्छतीति समवायाङ्गे प्रोक्तम् ॥ ८६ ॥ अथ किं नक्षत्रं कति मुहूर्तानि चन्द्रेण सह चरति ? तत्र प्रथममभिजिन्नक्षत्रमाह
अभिइस्स चंदजोगो, सत्तट्ठीखंडियो अहोरत्तो। . ते टुति नव मुहुत्ता, सत्तावीसं कलाओ अ॥८७ ॥
अभिइस्स ० । अभिजिन्नक्षत्रस्य चन्द्रेण सह योगः सप्तषष्टिभागीकृतमहोरात्रगम्यक्षेत्रं तस्यैकविंशतिर्भागाः क्षेत्रतः, कालतो नव मुहूर्ता एकस्य मुहूर्त्तस्य च सप्तविंशतिः सप्तषष्टिभागाः । तथाहि-सर्वेषामपि नक्षत्राणां सीमा विष्कम्भतः पूर्वापरतश्चन्द्रस्य नक्षत्रभुक्तिक्षेत्रविस्तारो नक्षत्रेणाहोरात्रगम्यक्षेत्रस्य सप्तषष्टया भागैर्भाजितो विभक्तः समच्छेदः प्रज्ञप्तः । भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदता भवति, भागान्तरेण न वक्तुं शक्यत इत्यर्थः । ततो नक्षत्रणाहोरात्रगम्यक्षेत्रस्य सप्तषष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमा विष्कम्भो भवति, एतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यते । तदनु श्रवणेन सह योगः, शीघ्रगामित्वेनाभिजितोऽग्रे गमनात् । तथास्यामेवैकविंशतौ त्रिशन्मुहूर्त्तत्वादहोरात्रस्य त्रिंशता गुणितायां
Page #61
--------------------------------------------------------------------------
________________
(५४) विनयकुशलविरचितं जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्टया भागहारे नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः ९२७ ॥ ८७ ॥ अथ पञ्चदशमुहूर्त्तयोगीनि षण्नक्षत्राण्याह
सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य । एए छन्नक्खत्ता, पन्नरसमुहुत्तसंजोगा ॥ ८८ ॥
सय० । शतभिषक् १ भरणी २ आH ३ अश्लेषा ४ स्वाति ६ ज्येष्ठा ६ चैतानि षट् नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चदशमुहूर्तसंयोगीनि । तथाहि-एतेषां षण्णां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्याहोरात्रस्य सा स्त्रयस्त्रिंशद्भागान् ३३ यावच्चन्द्रेण सह योगः। ततः कालमानाय मुहूर्तभागकरणार्थ त्रयस्त्रिंशंत्रिंशता गुण्यते जातं ९९०, अर्द्धस्त्रिंशद्गुणितः पञ्चदश भवन्ति, तेषां पञ्चदशानां क्षेपे जातं पञ्चोत्तरं सहस्रं १००५, एतस्य सप्तषष्टया भागहरणे लब्धाः पञ्चदशमुहूर्ताः १५, तदेषां कालसीमा ॥ ८८ ॥ अथ पञ्चचत्वारिंशन्मुहूर्त्तयोगीनि षणूनक्षत्राण्याह
तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य ।
एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा ।। ८६ ॥ .. तिन्ने । 'तिस्र उत्तरा' उत्तराफाल्गुन्यः १ उत्तराषाढाः २ उत्तराभद्रपदा ३ श्च पुनर्वसुः ४ राहिणी ५ विशाखा ६ एतानि षण्नक्षत्राणि प्रत्येकं चन्द्रेण सह पञ्चचत्वारिंशन्मुहूर्त्तसंयोगीनि भवन्ति । तथाहिएतेषां सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सम्बन्धिनां भागानां शतमेकमेकभागस्याड़े यावच्चन्द्रेण साई क्षेत्रसीमायोगः । तत्रैषां भागानां मुहूर्त्तगतकरणार्थ भागशतं भागस्यैकस्याई १०० त्रिंशता गुण्यते जातानि पञ्च
Page #62
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् । (५५) दशोत्तराणि त्रीणि सहस्राणि ३०१५, एतेषां सप्तषष्टया भागहारे लब्धाः पञ्चचत्वारिंशन्मुहूर्तास्तदेषां कालसीमा ॥८९॥ अथ त्रिंशन्मुहूर्त्तचन्द्रयोगीनि पञ्चदशनक्षत्राण्याह
अवसेसा नक्खत्ता, पन्नरस हवंति तीसह मुहुत्ता। चंदम्मि एस जोगो, णक्खत्ताणं मुणेयव्वो ॥ १० ॥ अव० । 'अवशेषाणि' उक्तत्रयोदशव्यतिरिक्तानि श्रवण १ धनिष्ठा २ पूर्वभद्रपदा ३ रेवती ४ अश्विनी ५ कृत्तिका ६ मृगशिरः ७ पुष्य ८ मघा ९ पूर्वफाल्गुन्यः १० हस्त ११ चित्रा १२ मूल १३ अनुराधा १४ पूर्वाषाढा १५ एतन्नामानि पञ्चदशापि नक्षत्राणि चन्द्रेण सह प्रत्येकं त्रिंशन्मुहूर्त्तसंयोगीनि भवन्ति । तथाहि-एतेषां नक्षत्राणां प्रत्येकं परिपूर्णानां सप्तषष्टिभागानां क्षेत्रसीमाविष्कम्भः, ते च त्रिंशद्गुणिता जाते वे सहस्र दशोत्तरे, ते च सप्तषष्टया भागे हृते लब्धास्त्रिंशदेव, तदेषां त्रिंशन्मुहूर्ताः कालसीमाप्रमाणम् । सूर्यस्यापि नक्षत्रयोगो गाथाभिरिमाभिर्जेयः- " अभिइ छ च्च मुहुत्ते, चत्तारि अ केवले अहोरत्ते । सूरेण समं गच्छइ, इत्तो सेसाण वुच्छामि ॥ १ ॥ सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य । वच्चंति मुहुतेकवीसइ छ च्चेवऽहोरत्तो ॥ २ ॥ तिन्नेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ततिगे, चेव वीसं अहोरत्ते ॥ ३ ॥ अवसेसा णक्खत्ता, पन्नरस सूरं सह गया जंति । बारस चेव मुहुत्ते, तेरस पुण्णे अहोरत्ते ॥ ४ ॥९०॥ अथ नक्षत्रपटले सर्वमध्ये किम् , उपरि किम् , अधश्च किं नक्षत्रम् ? इत्याह
Page #63
--------------------------------------------------------------------------
________________
(५६) विनयकुशलविरचितं
सव्वभंतर अभिई, मूलं पुण सव्वबाहिरे होई । सव्वोवरिं तु साई, भरणी सव्वस्स हिट्ठिम्मि ॥११॥ सव्व० । उत्तरस्यां दिशि जगतीतोऽशीत्यधिकशते सर्वाभ्यन्तरे मण्डलेऽभिजिन्नक्षत्रम् । पुनः सर्वबाह्ये मण्डले दक्षिणस्यां दिशि मूलं सदाप्यवस्थितं चरति, तत्र मण्डलेऽष्टौ नक्षत्राणि सन्ति, परं चन्द्रमण्डलं षट्पञ्चादेकषष्टिभागप्रमाणम् , नक्षत्रविमानं तु क्रोशमेकमेव, ततो मण्डलविष्कम्भप्रान्ते मूलम् , शेषाणि तन्मण्डलस्थान्यपि किच्चिदर्वाक् संभाव्यन्ते । एवमभिजिदपि द्वादशसु सर्वाभ्यन्तरे ज्ञेयम् । ऊर्धाधश्च चतुर्योजने नक्षत्रपटले सर्वेषां नक्षत्राणामुपरि खातिनक्षत्रम्, सर्वेभ्योऽपि नक्षत्रेभ्योऽधस्तनं भरणी नक्षत्रं चरति ॥ ९१ ॥ अथ तारकाणां खरूपमाहरिक्खाण व ताराण वि, मंडलगाइं अवट्ठियाइँ सया।। णेअव्वाई णवरं, संपइ अपसिद्धसंखाई ॥ १२ ॥ रिक्खा० । नक्षत्राणामिव तारकाणामपि मण्डलानि सदाप्यवस्थितानि ज्ञातव्यानि, प्रतिनियते निजे निज एव मण्डले सञ्चरणात् । न चैवमाशङ्कनीयमेषां गतिर्न, यतस्तेऽपि प्रदक्षिणया जम्बूद्वीपगतमेकमेवानुलक्षीकृत्य परिभ्रमन्ति, न च दक्षिणोत्तरगाः । ये दक्षिणचारिणो ये चोत्तरचारिणस्ते सर्वदा तथैव । तेषां मण्डलादिसंख्या सांप्रतीनशास्त्रे न दृश्यते ॥ ९२ ॥ अथ भूमितः कियदूध ज्योतिश्चक्रं चरति तदाह. समभूतला उ अट्ठहिं, दसूणजोअणसएहिं आरम्भ ।
उवरि दसुत्तरजोत्रण, सयम्मि चिट्ठन्ति जोइसिया ॥१३॥
Page #64
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्। .
(५७)
सम० । समात्-मेरुमध्यस्थिताप्टप्रदेशात्मकरुचकसमानामृतलादष्टाभ्यो दशोनयोजनशतेभ्य आरभ्योपरि दशोत्तरे योजनशते ११० ज्योतिष्कास्तिष्ठन्ति । तथाहि-" शतानि सप्त गत्वोवं, योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ १ ॥ तारकापटलाद्गत्वा, योजनानां दशोत्तरे । सूर्याणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ २ ॥ चत्वारि च ततो गत्वा, नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् ॥ ३ ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम्। त्रीणि त्रीणि च गत्वोवं, क्रमेण पटलं स्थितम् ॥ ४ ॥" बहुत्वं चात्र सर्वद्वीपसमुद्रवर्तिज्योतिश्चक्रापेक्षं मन्तव्यम् । यन्त्रं चात्रावधार्यम्तारा. | सूर्यः | चन्द्रः | नक्षत्र. | बुधः | शुक्रः | बृहस्पतिः मंगलः | शनिः
अमीषामङ्कानां मीलने जातं दशोत्तरं ११० शतम् । इदं तूर्ध्वाधःप्रमाणम् ॥ ९३ ॥ अथ तिर्यक्तारकाणां प्रचारमाह
इक्कारसजोअणसय, इगवीसिकारसाहिया कमसो । मेरुअलोगाबाहिं, जोइसचकं चरइ ठाइ ॥ १४ ॥
इक्कारस० । एकादशयोजनशतान्येकविंशत्यधिकानि मेरोः अबाधां-अन्तरं कृत्वा, एतावद्भिर्योजनैमरे दूरं विमुच्येत्यर्थः, चलं ज्योतिश्चक्रं मनुष्यलोके परिभ्रमति । तथैकादशयोजनशतान्येकादशाधिकान्यलोकाकाशस्याऽबाधयाऽचलं ज्योतिश्चक्रं तिष्ठति । शेषमेरुष्वपि संभावनेत्थमेव । इदं तु जम्बृद्दीपतारकापेक्षम्, चन्द्रसूर्यनक्षत्राणां तु
Page #65
--------------------------------------------------------------------------
________________
(५८) विनयकुशलविरचितं जम्बूद्वीपमेरुतः ४४८२० योजनैः समन्ताद्दरे परिभ्रमणम् , नैतेभ्यो योजनेभ्योऽर्वाक्कदाप्यागमनं भवति । तारकाणां चान्तरं द्विधा-व्याघातजं निर्व्याघातजं च । एकैकं द्विधा-उत्कृष्टं जघन्यं च । तत्रोत्कृष्ट। व्याघाते पर्वतादिस्खलने मेरुमपेक्ष्य भावनीयम् , यथा-मेरुर्दशसहस्रयोजनात्मकः, तस्य चोभयतोऽबाधया प्रत्येकमेकविंशत्यधिकान्येकादशशतानि ११२१, ततः सर्वमीलने योजनानां द्वादशसहस्रा द्वे च शते द्विचत्वारिंशदधिके १२२४२ । जघन्यं तु निषधनीलवत्कूटाद्यपेक्षम् , यथा-निषधपर्वतः खतोऽप्युच्चैश्चत्वारि योजनशतानि, तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि, तान्यधश्चायामविष्कम्भाभ्यां पञ्चयोजनशतानि, मध्ये त्रीणि शतानि पञ्चसप्तत्यधिकानि ३७५, उपरि चार्धतृतीयानि योजनशतानि २५०, एतेषां कूटानामुपरितनसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्तीति जघन्यतो व्याघातजमन्तरं द्वे योजनशते पट्पष्टयधिके २६६ । तथोत्कृष्टं तु निर्व्याघातजं क्रोशद्वयम् , जघन्यं पञ्चधनु:शतानि तारतारयोरन्तरम् । उक्तं हि संग्रहण्याम्-" तारस्स य तारस्स य, जंबुद्दीवम्मि अन्तरं गुरुअं । बारसजोयणसहसा, दुन्नि सया
चेव बायाला ॥ १ ॥ छावट्ठा दो अ सया, जहन्नमेअं तु होइ वाघाए । निव्वाघाए गुरुलहु, दोगाउ घणुसया पंच ॥ २ ॥" ॥ ९४ ॥ अथ लवणसमुद्रे षोडशयोजनसहस्रोच्चायां शिखायां चरतां चन्द्रसूर्यादिज्योतिष्काणां कथं न व्याघातः ? तन्निर्वचनमाह
जोइसिअविमाणाई, सव्वाइं हवंति फालिअमयाई । दगफालिग्रामया पुण, लवणे जे जोइसविमाणा ॥६५॥
Page #66
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम् ।
( ५९ )
जोइ ० । इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्यस्फटिकमयानि भवन्ति । यानि पुनर्लवणसमुद्रे शिखाचारीणि ज्योतिष्क विमानानि तानि तथाजगत्स्वा - भाव्यादुदकस्फाटनस्वभावस्फाटिकमयानि, ततस्तेषामुदकमध्ये चरतामुदकेन न व्याघातः, वारि द्विधा भवति, अग्रतो गमनान्तरं जलं पुनर्मिलति । लवणशिखा षोडशयोजनसहस्रोच्चा, ज्योतिप्रकाणां चारो नवशतेष्वेव । शिखाव्यतिकरस्त्वेवम् - विशेषमार्गरूपो नीचो नीचतरो भूप्रदेशो गोतीर्थमिव गोतीर्थम्, तच्च लवणोदधौ उभयतः प्रत्येकं पञ्च - नवतियोजनसहस्राः । तत्रादौ जम्बूद्वीपधातकीजगत्योः समीपे समभूभागापेक्षया उण्डत्वं तदुपरि जलवृद्धिश्च प्रत्येकमङ्गुलसंख्येयभागः, ततः परं क्रमादध ऊर्ध्वं च तथाकथञ्चित्प्रदेशानां हानिर्वृद्धिश्च यथा पञ्चनवतिसहस्रान्ते भूतलापेक्षयाऽधोवगाहो योजनसहस्रम् १०००, तदुपरि जलवृद्धिश्च सप्तयोजनशतानि ७००, ततः परं मध्यभागे दशयो - जनसहस्राणि रथचक्रवद्विस्तीर्णभूतसमजलपट्टादूर्ध्वं षोडशयोजनसह - aroyer सहस्रमेकमधोऽवगाढा लवणशिखा वर्तते, तस्याश्चोपर्यहोरात्रमध्ये द्विवारं किञ्चिन्न्यूने हे गव्यूते जलमधिकमधिकं पातालकलशवायोः क्षोभादुपशमाच्च वर्धते हीयते चेति । उक्तं हि - “ पंचाणउइसहस्सो, गोतित्थं उभयओ वि लवणस्स । जोयणसयाण सत्त उ, उद्गपरिवुड्ढि उमओ व ॥ १ ॥ दसजोअणसाहस्सा, लवणसिहा चक्कवालओ रुंदा । सोलससहस्स उच्चा, सहस्समेगं च ओगाढा || २ || देसूणमद्धजोअण, लवणसिहोवरि दगं दुवे काले । अइरेगं अइरेगं परिवडूढइ हायए वाकि ॥ ३ ॥” ॥ ९५ ॥ अथ लवणशिखायां ज्योतिष्काणामूर्ध्वं तेजः प्रसरः
Page #67
--------------------------------------------------------------------------
________________
विनयकुशलविरचितं
(६०)
कियान् ? इत्याह-
लवणम्मि उ जोइसिया, उडूंलेसा हवंति नायव्वा । ते परं जोइसिया, अहलेसागा मुणेश्रव्वा ॥ ६६ ॥
"
लव ० । लवणसमुद्रे यानि ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्याच्छिखायां प्राप्तान्यूर्ध्वलेश्याकानि, शिखायामपि सर्वत्रोर्ध्व प्रकाशो भवतीत्यर्थः । ततोऽन्यद्वीपसमुद्रेषु चन्द्रसूर्यविमानानि 'अधोलेश्याकानि ' अधोबहुलप्रकाशानीत्यर्थः । अयं चार्थः प्रायो बहूनामप्रतीतः, परं श्रीजिनभद्रगणिक्षमाश्रमण विरचितविशेषेणवती ग्रन्थाल्लिखितो न स्वमनीषयेति । तथा सर्वेषां ज्योतिष्काणां विमानान्यर्धीकृतकपित्थफलाकाराणि । स्थापना यथा - मानं चेह प्रमाणाङ्गलेन । योजनस्यैकषष्टिभागा विधीयन्ते तत्र क्रमेण समवृत्तत्वाच्चन्द्रविमानानामायामो विस्तारश्च षट्पञ्चाशद्भागाः, सूर्यविमानानामष्टचत्वारिंशद्भागाः, ग्रहविमानानां द्वे गव्यूते, क्रोशद्वयमिति हृदयम्, नक्षत्रविमानामेकं क्रोशम्, ताराविमानानामर्धक्रोशम् । उच्चत्वे सर्वेषामेभ्योऽर्धम्, यथा-चन्द्राणां विमानान्युच्चत्वेऽष्टाविंशतिः, सूर्याणां चतुर्विंशतिः, ग्रहाणां क्रोशम्, नक्षत्राणामर्धक्रोशम्, ताराणां कोशचतुर्थभागः । इदं ताराविमानेष्वा - यामविष्कम्भोचत्वमुत्कृष्टस्थितीनामवसेयम् । जघन्यस्थितीनां तारकाणामायामविष्कम्भाभ्यां पञ्चधनुःशतानि, उच्चत्वेऽर्धतृतीयधनुः शतानि । यदुक्तं तत्वार्थभाष्ये— “उत्कृष्टायास्ताराया अर्धक्रोशम्, जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धमुच्चत्वे भवन्ति । ” ज्योतिष्काणां विमानेषु वर्णविभागः संग्रहणीवृत्तिवचनाद्यथा - " ताराः पञ्च वर्णाः, शेषा
Page #68
--------------------------------------------------------------------------
________________
सवृत्तिकं मण्डलप्रकरणम्
( ६१ )
श्चत्वार उत्तप्तकनकवर्णाः सन्ति " || ९६ ॥ अथ मनुष्यलोक बहिर्वर्तिनां ज्योतिष्काणां किञ्चित्स्वरूपमाह—
चित्तंतरलेसागा, चंदा सूरा वा बाहिं । अभिजिजोए चंदा, सूरा पुरा पुस्सजोए ।। ९७ । चित्तं ० । मनुष्यलोकाद्वहिर्दिवसा रात्रयश्यावस्थिताः सन्ति, यतचित्रान्तरलेश्याकाश्चन्द्राः सूर्याश्च । सूर्याणामन्तरे चन्द्राचन्द्राणामन्तरे सूर्याः, कोऽर्थः ? यत्र स्थाने दिवसस्तत्र सर्वकालं दिवस एव, यत्र च रात्रिस्तत्र सर्वदा रात्रिरेव । तत्र यथा चन्द्रसूर्या अवस्थतास्तथा रात्रिदिवसा अप्यवस्थिताः । तत्रत्याश्चन्द्रा नात्यन्तं शीताः सूर्याश्च नात्यन्तमुष्णरश्मयः । तथाभिजिन्नक्षत्रयोगे सर्वे चन्द्राः सर्वदा, सूर्याः पुनः पुष्यनक्षत्रयोगे सन्ति । तत्रान्यानि सर्वाणि नक्षत्राणि सन्ति परं भोग्यत्वेनैते स्तः । एवं ग्रहनक्षत्रतारका अपि स्थिरा ज्ञेयाः । एषां विमानानां मानं चरज्योतिष्कादर्धम्, यथा चन्द्राणामष्टाविंशतिरेकषष्टिभागा आयामो विष्कम्भव, उच्चत्वे चतुर्दशभागाः । सूर्याणां चतुविंशतिरेकषष्टिभागा आयामो विष्कम्भव, उच्चत्वे द्वादश भागाः । ग्रहाणामेकं क्रोशमुच्चत्वेऽर्धम् । नक्षत्राणामर्द्धक्रोशमुच्चत्वे चतुर्थांशः । ताराणां क्रोशचतुर्थीश उच्चत्वेऽष्टमांशः । स्थिराणां ज्योतिष्काणामायूंषि चराणां पञ्चानामिव ज्ञेयानि । किञ्च स्थिरचन्द्रसूर्याणां पतिविषये बहूनि मतानि सन्ति तान्यत्र ग्रन्थगौरवभयान्न लिखितानि, संग्रहणीच्यादिभ्यो ज्ञेयानि ॥ ९७ ॥
तव गणगय यदिणे सरसूरीसर विजय से सुपसाया । नरखित्तचारिचंदाइयाण मंडलगमाईणं ॥ ९८ ॥
Page #69
--------------------------------------------------------------------------
________________
(६२) विनयकुशलविरचितं
एसो विधारलेसो, जीवाभिगमाइआगमेहितो । विणयकुसलेण लिहियो, सरणत्थं सपरगाहाहिं ॥१६॥
॥इति मण्डलप्रकरणं सपूर्णम् ॥ तव । एसो० । स्वकृतपरकृतगाथाभिः स्मृत्यर्थं लिखितो विचारलेशो न नूतनो विहितः किन्तु श्रीमुनिचन्द्रमूरिकतमण्डलकुलकमेव प्रतिसंस्कृतं जीवाभिगमादिगाथाभिः कतिभिः कतिभिभूतनाभिश्च । शेष स्पष्टम् ॥९८॥९९॥ इति मण्डलप्रकरणवृत्तिः संपूर्णा ॥
अथ प्रशस्तिः । गुरुतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः । श्रीमदकब्बरनरवरविहितप्रवलप्रमोदा ये ॥१॥ तेषां शिशुना वृत्तिः, स्वोपज्ञा व्यरचि विनयकुशलेन । मूलत्राणाहपुरे, करवाणरसेन्दु १६५२ मितवर्षे ॥२॥ विरचितविबुधानन्दाः, विबुधाः श्रीलाभविजयनामानः । तैरेतस्याः शोधनसानिध्यमधायि सुप्रज्ञैः ॥३॥ यच्च विरुद्धं किश्चिद्भवति हि मतिमान्यतस्तथापीह । शोध्यमनुग्रहबुद्ध्या, येनेयं भवति सुपवित्रा ॥४॥
Page #70
--------------------------------------------------------------------------
________________
टीकागतप्रमाणानां वर्णक्रमानुसारि परिशिष्टम् नं.-१
...५१
पद्याद्यारम्भः . पत्राङ्काः अट्ठासीई लक्खा... ...२२ अभिई छच्च मुहुत्ते... अभिई सवण धणिहा... ...५० अवसेसा नक्खत्ता... इकारस य सहस्सा... ...२२ इगवीसं खलु लक्खा ... ...३० इह नयणविसयमाणं ... ...३० एगमेगस्स णं भंते !... ...२३ एगा जोयणकोडी... ...३० चत्वारि च ततो गत्वा... ...५७ चन्देहिं सिग्घयरा... छावट्ठा दो असया... छावट्ठी पिडगाइं ....
" " ...
पद्याद्यारम्भः पत्राङ्काः जंबुद्दीवे दीवे णे भंते ! के- ...३७ जंबुद्दीवे दीवे णं भंते !... जया णं भंते ! जंबुद्दीवे... ...३८ ___" " ... .४० जोयणसयदसगते ... ... ...३७ तारकापटलाद्गत्या... ... तारस्स य तारस्स य.... तिन्नेव उत्तराओ... ... ...५५ तेसिं कलंबुआपुष्फ ...२४ दसजोयणसाहस्सा... ... देसूणमद्धजोअण..... ... पंचाणउइसहस्सा......... पन्नरसाभागेण य... ... बावहिं बावदि... शतानि सप्त गत्वोज़ शुक्राणां च गुरूणां च सयभिसया भरणिआ ... सावणबहुलपडिवए
...५९
...४३
जंबुद्दीवे णं भंते! सूरिआ ... २८
Page #71
--------------------------------------------------------------------------
________________
टीकायां प्रमाणत्वेनोद्धृतानां ग्रन्थानां वर्णक्रमानुसारि
परिशिष्टम् नं. २
ग्रन्थनामानि पत्राङ्काः ग्रन्थनामानि पत्राका अनुयोगद्वारवृत्ति. ... ... ...४७ भगवती.२१-२६-२८-३७-३८-४० कालशतक... ... ... ...४९ मण्डलकुलक. ... ... ...६२ चन्द्रप्रज्ञप्ति..... ... ... ...२२ लघुक्षेत्रसमास. ... ... ...३७ जीम्बूद्वीपप्रज्ञप्ति. ... ... ३३-५१ लघुक्षेत्रसमासवृत्ति ... ... ... ६ जीवाभिगम.. ... ... ... १ विशेषणवती. ... ...
५-२३-३०-४५-४८-६२ संग्रहणी. ... ... ... ...५८ जीवाभिगमलघुवृत्ति. ... ... ५ । संग्रहणीवृत्ति. ...९-४६-६०-६१ जीवाभिगमवृत्ति. ... ... ...४३ समवायाङ्ग. ... ... ३७-५३ ज्योतिष्करण्डुक. ... ... ...४४ समवायाङ्गवृत्ति. ... ९-२३-४३ तत्त्वार्थभाष्य. ... ... ...६० सूर्यप्रज्ञप्ति.... ... ... ...४३ प्रवचनसारोद्धार.. ... ... ३०-४९ स्थानाङ्ग. ... .... ... ...५०
-
Page #72
--------------------------------------------------------------------------
________________ अपूर्व! अद्वितीय !! अनुपम !!! टीका साथे देवेंद्रनरकेंद्र प्रकरण. -2000. आ प्रकरण पूर्वाचार्य कृत छे. तेना उपर टीका श्रीमान मुनिचंद्रसूरिनी छे. आ ग्रन्थमां आवेल विषय अंग-उपांगमां पण उपलभ्य नथी एटले आ ग्रंथर्नु महत्त्व सूत्रग्रंथ जेटलं ज अने तेनी उपादेयता पण तेटली ज समजवानी छे. आ प्रकरणनी एक कोपी फक्त ढक्कन कॉलेजमां छे. ते धणी अशुद्ध छे. संशोधके तेने घणी काळजीपूर्वक शुद्ध करी छेएटलं ज नहीं पण धणे ठेकाणे पाठो पड़ी गयेला हता तेनी पूर्ति करी तेनुं गौरव वधार्यु छे. किंमत मात्र 0-12-0 _आ ग्रन्थनी फक्त 500 कोपी ज छपाई छे. जरुर जणाती होय तो जलदी लखो श्री जैन आत्मानन्द सभा. ठे० आत्मानन्द भवन. भावनगर. T REE