________________
सवृत्तिकं मण्डलप्रकरणम् ।
(५)
षट्सप्ततं पंक्तिशतं षट्सप्तत्यधिकं पंक्तिशतं भवति, एकैका च पंक्तिर्भवति षट्षष्टिः षट्षष्टिः । अत्रापीयं भावना - जम्बूद्वीपे दक्षिणार्द्धभागे एकस्य शशिनः परिवारभूता अङ्गारकप्रभृतय एवान्येऽष्टाशीतिर्ग्रहाः । तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्सम श्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावङ्गारकौ लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्करार्द्ध इति, एवं शेषा अप सप्ताशीतिग्रहाः पंक्त्या व्यवस्थिताः प्रत्येकं षट्षष्टिर्वेदितव्याः । एवमुत्तरतोऽप्यर्द्धभागे पूर्वोक्तदक्षिणपंक्तिसमश्रेणिस्थानामङ्गारकप्रभृतीनामष्टाशीतेग्रहाणां पंक्तयः षट्षष्टिसङ्ख्या भावनीया इति भवति सर्वसङ्ख्यया ग्रहाणां षट्सप्ततं पंक्तिशतम् । एकैका च पंक्तिः षट्षष्टिसंख्याकेति । पुनरुक्तं जीवाभिगमे -- "छावट्ठी पिडगाई, चंदाइच्चाण मणुअलोगम्मि | दो चंद्रा दो सूरा, य होंति इक्किक्कए पिse ॥ १ ॥ छावट्टी पिडगाई, नक्खत्ताणं तु मणुअलोगम्मि । छप्पण्णं नक्खत्ता, होंति इक्किक्कए पिse || २ || छावट्टी पिडगाई, महग्गहाणं तु मणुअलोगम्मि । छावत्तरं गहसयं, होइ उ इक्किए पिse || २ || " ' पिटकानि ' इति, अत्र चन्द्रादित्यचतुष्कं सपरिवारं पिटकाकारं पिटकमुच्यते, अयमर्थो हारिभद्रयां जीवाभिगमलघुवृत्तौ । किञ्चात्र प्रथमं नक्षत्रगाथा नक्षत्राणां चन्द्रादिभोग्यत्वेनोक्ता, ग्रहा न चन्द्रादिभोग्या इति ज्ञापनाय व्युत्क्रमः || ६ || अथैतेषां चन्द्रादीनां भ्रमणस्वरूपमाह
,
म
"
१ ' षट्सप्तति' इत्यपि । २ द्वौ चन्द्रमसौ द्वावादित्यौ इतिरूपम्, न तु चन्द्रचतुष्कमादित्यचतुष्कमिति ।