________________
॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । श्रीमद्-विनयकुशलविरचितस्वोपज्ञवृत्तिसङ्कलितं
मण्डलप्रकरणम्।
-*OKश्रीमद्वीरजिनं नत्वा, नित्यानित्यार्थदेशकम् । मण्डलादिविचारस्य, कुर्वे वृत्तिं सुबोधिकाम् ॥१॥ अन्यत्र ग्रन्थेषु विस्तराभिहितान् चन्द्रादिमण्डलादिविचारानवेश्यात्र संक्षेपेण तद्विचाराभिधित्सया मण्डलप्रकरणाभिधानस्य ग्रन्थस्येमामाद्यां गाथामाह---
पणमित्र वीरजिणिंद, भवमंडलभमणदुक्खपरिमुकं । चंदाइमंडलाई-विवारलवमुद्धरिस्सामि ॥ १ ॥
पणमिः । श्रीवीरजिनेन्द्रं 'प्रणम्य' नत्वा, किंलक्षणं वीरम् ? भवमण्डलभ्रमणस्य यदुःखं तेन परिमुक्तं-रहितं, चन्द्रादिमण्डलादिविचारलेशमुद्दरिष्यामि, जीवाभिगमाद्यागमादिति शेषः । इह चन्द्रादयः पञ्च-चन्द्र १ सूर्य २ ग्रह ३ नक्षत्र ४ तारका ५ रूपाः, ते