Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 67
________________ विनयकुशलविरचितं (६०) कियान् ? इत्याह- लवणम्मि उ जोइसिया, उडूंलेसा हवंति नायव्वा । ते परं जोइसिया, अहलेसागा मुणेश्रव्वा ॥ ६६ ॥ " लव ० । लवणसमुद्रे यानि ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्याच्छिखायां प्राप्तान्यूर्ध्वलेश्याकानि, शिखायामपि सर्वत्रोर्ध्व प्रकाशो भवतीत्यर्थः । ततोऽन्यद्वीपसमुद्रेषु चन्द्रसूर्यविमानानि 'अधोलेश्याकानि ' अधोबहुलप्रकाशानीत्यर्थः । अयं चार्थः प्रायो बहूनामप्रतीतः, परं श्रीजिनभद्रगणिक्षमाश्रमण विरचितविशेषेणवती ग्रन्थाल्लिखितो न स्वमनीषयेति । तथा सर्वेषां ज्योतिष्काणां विमानान्यर्धीकृतकपित्थफलाकाराणि । स्थापना यथा - मानं चेह प्रमाणाङ्गलेन । योजनस्यैकषष्टिभागा विधीयन्ते तत्र क्रमेण समवृत्तत्वाच्चन्द्रविमानानामायामो विस्तारश्च षट्पञ्चाशद्भागाः, सूर्यविमानानामष्टचत्वारिंशद्भागाः, ग्रहविमानानां द्वे गव्यूते, क्रोशद्वयमिति हृदयम्, नक्षत्रविमानामेकं क्रोशम्, ताराविमानानामर्धक्रोशम् । उच्चत्वे सर्वेषामेभ्योऽर्धम्, यथा-चन्द्राणां विमानान्युच्चत्वेऽष्टाविंशतिः, सूर्याणां चतुर्विंशतिः, ग्रहाणां क्रोशम्, नक्षत्राणामर्धक्रोशम्, ताराणां कोशचतुर्थभागः । इदं ताराविमानेष्वा - यामविष्कम्भोचत्वमुत्कृष्टस्थितीनामवसेयम् । जघन्यस्थितीनां तारकाणामायामविष्कम्भाभ्यां पञ्चधनुःशतानि, उच्चत्वेऽर्धतृतीयधनुः शतानि । यदुक्तं तत्वार्थभाष्ये— “उत्कृष्टायास्ताराया अर्धक्रोशम्, जघन्यायाः पञ्चधनुःशतानि, विष्कम्भार्द्धमुच्चत्वे भवन्ति । ” ज्योतिष्काणां विमानेषु वर्णविभागः संग्रहणीवृत्तिवचनाद्यथा - " ताराः पञ्च वर्णाः, शेषा

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72