Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 38
________________ सवृत्तिकं मण्डलप्रकरणम् । ( ३१ ) किट्टे ॥ २ ॥ " उत्कृष्टदिवसे एतावद्येोजनत उदितं पश्यन्ति, तंत्रतावत्क्षेत्रपरिधिसद्भावात् । परमिदं सर्वाभ्यन्तरमण्डलं मानुषोत्तरादर्वाक् संभवति, येन शेषमण्डलानामवकाशो दशोत्तरपञ्चशतयोजनान्तर्विलोक्यत इति, तेनोक्ततेजःप्रसरः कतिचित्सहस्रैर्न्यूनो ज्ञेयः । नवरमियान् विशेष :- जम्बूद्वीपगतसूर्ययोर्दक्षिणोत्तरयोः करप्रसरेभ्यो लवणसमुद्रगत-चन्द्रसूर्याणां दक्षिणोत्तरयोः करप्रसरः स्तोकः, पूर्वपश्चिमयोश्च भूयान्, क्षेत्रस्य परिधिबाहुल्यात् । धातकीखण्डे च षण्णां षण्णां पंक्तिगतसूर्याणामुत्तरोत्तरं दक्षिणोत्तरयोस्तेजः प्रसरः स्तोकः पूर्वपश्चिमयोश्च वर्धते । एवं कालोदे पुष्करार्द्धेऽपि पूर्वपश्चिमयोरतिबहुलो वर्धत इति स्थितिः । परं यो यः सूर्यो यत्र यत्र चरति तदधोवासिनो जनास्तमेव सूर्य पश्यन्ति नान्यं तथाजगत्स्वाभाव्याद्व्यवस्थाभङ्गदोषप्रसङ्गाच्च । एवं चन्द्रग्रहादीनामपि व्यवस्था भावनीया ॥ ४४॥ अथ तेषां रवीणां दशभागादिस्वरूपमाह 9 सव्वपरिहीय एवं सच्चे विश्र भाणुणो दसंसतिगं । तावंतुक्कोसदिणे, जहन्नए दुनि उ दससे ॥ ४५ ॥ सव्व॰ । लवणधातकीकालोदपुष्करार्द्धेषु सर्वपरिधीनां ' एवं ' अमुना प्रकारेण जम्बूद्रीपन्यायेन सर्वेऽपि भानवः ' दशांशत्रिकम्' इति त्रीन् दशभागान् कर्कस्था युगपत्सर्वाभ्यन्तरमण्डले सञ्चरन्त उत्कृष्टदि चसे तापयन्ति, तदा दिनमानमष्टादशमुहूर्त्तम्, रात्रिर्द्वादशमुहूर्ता । जघन्यदिवसे समकं सर्वबाह्यमण्डलस्था मकरे द्वौ दशभागौ तापयन्ति, तदा दिनमानं द्वादशमुहूर्त, रात्रिरष्टादशमुहूर्ता । सर्वेषां सूर्याणां चतुरशीत्यधिकशतमण्डलेषु प्रत्येकं षष्ट्या मुहूर्तेरेव समकं परिभ्रमणात् ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72