Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 53
________________ (१६) विनयकुशलविरचितं हुरप्येकं भागं मुञ्चति, परं सायं सूर्यकिरणावृतत्वेन न तथा सम्यग्दृग्गोचरमायाति । द्वितीयादिने सूर्योदयादनूदयेन द्वितीयभागमोचनेन मुहूर्त्तद्विकगम्यक्षेत्रपृष्टपतनेन च सायं सूर्यादुरत्वाद् दृश्यते, एवं सर्वासु शेषतिथिषु ज्ञेयं पूर्णिमां यावत् । गतेः शीघ्रविभागस्त्वेवम्-सर्वमन्दगतिश्चन्द्रः, तस्माच्छीघ्रो रविः, तस्माद्ग्रहाः, तेभ्यो नक्षत्राणि, ततस्ताराः । ग्रहमध्ये तु बुधाच्छुक्रः शुक्रान्मङ्गलो मङ्गलाद वृहस्पतिवृहस्पतेः शनिः शीघ्र इति संग्रहणीवृत्तिगतम् ॥७३॥ अथ पूर्णिमायां यत्स्यात्तदाहसयलो वि ससी दिसइ, राहुविमुक्को अ पुएिणमादिअहे। सूरत्थमणे उदओ, पुव्वे पुन्बुत्तजुत्तीए ॥ ७४ ॥ सयलो० । पूर्णिमायां सकलोऽपि शशी राहुविमुक्तः सन् दृश्यते । सूर्यास्ते पूर्वस्यामुदयं प्रामोति, 'पूर्वोक्तयुक्त्या' पञ्चदशमुहूतैः सूर्यात्पृष्ठे पतितत्वेन ॥७४॥ पूर्णिमायां विशेषमाह ससिमरामिह पुरिणमि, हुंति उ रासीण उभयसत्तमगे। बहुलपडिवयनिसाए, गए मुहुत्ते हवइ उदओ ।। ७५ ॥ ___ ससिसू० । सर्वास्वपि पूर्णिमासु शशिसूर्यौ परस्परं सप्तमराशौ भवतः, सूर्यभोग्यात्सप्तमराशौ चन्द्रः, चन्द्रभोग्यात् सप्तमराशौ सूर्यः । शुक्लपक्षे दिनोदयस्वरूपं प्रोच्याथ सार्द्धगाथया कृष्णपक्षे चन्द्रस्य रात्रावुदयस्वरूपमाह-'बहुल' त्ति कृष्णपक्षप्रतिपन्निशाया मुहूर्ते गते चन्द्रस्योदयो भवति ॥ ७९ ॥ ततः किं स्यात् ? इत्याह एवं मुहुत्तवुड्डी, भागं चावरह पइदिणं राहू । तेण अमावस्साए, होइ तहा जं पुरा वुत्तं ।। ७६ ॥ .. एवं मु० । 'एवं' अमुना प्रकारेण मुहूत्र्तवृद्धिर्भवति, यथा कृष्णद्विती

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72