Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 51
________________ (४४) विनयकुशलविरचितं सोलसभागे काऊण उडुबई हायएत्थ पन्नरसं । तत्तियमित्ते भागे, पुणो वि परिवड्डए जोण्हा ॥ ६९ ।। सोल । षोडशभागान् कृत्वा उडुपतिः ' चन्द्रः कृष्णपक्षे प्रतिदिनमेकैकं पञ्चदशभागं परिहापयति, एवं पञ्चदशदिनैः पञ्चदशभागा भवन्ति, एकोऽनावृतोऽवशिष्यते । शुक्लपक्षे त्वेकैकः पञ्चदशभागो वर्धते तेन राकायां पूर्णाः षोडशभागा भवन्ति । ज्योतिष्करण्डकेऽपीत्थमेव । अनेन भणितत्रयानुसारेण स्तोको वा घनो वा चन्द्र उद्घाटस्तिष्ठति, न च सर्वः कदापि नित्यराहुणा चन्द्र आब्रियते । आह च चन्द्रविमानस्य पञ्चैकषष्टिभागोनयोजनमानत्वादाहुविमानस्य ग्रहविमानत्वेनार्धयोजनमात्रत्वाच्च कथं सर्वात्मनावरणस्य संभवः ?, उच्यते, ग्रहविमानानामुक्तप्रमाणस्य प्रायिकत्वादाहुविमानमधिकप्रमाणमपि संभाव्यते। अन्ये त्वाहुर्लधीयसोऽपि राहुविमानस्याऽत्यन्तबहुलेन प्रसर्पता तमिस्ररश्मिजालेन महदपि चन्द्रविमानमाब्रियते । अथवा महदपि चन्द्रविमानमर्वावस्थायिना लघुनापि राहुविमानेनाच्छादितमधस्तनैलॊकै दृश्यत इति ॥ ६९ ॥ अथ श्वेतकप्णाभिधे तृतीयचतुर्थे द्वारे आह---- एवं वड्डइ चंदो, परिहाणी होइ एव चंदस्स । कालो वा जोएहा वा, तेणणुभावेण चंदस्स ॥७॥ एवं वि० । 'इत्थं' राहुविमानेन प्रतिदिनं क्रमेणाऽनावरणकरणतश्चन्द्रः 'वर्धते' वर्धमानः प्रतिभासते, एवं' राहुविमानेन प्रतिदिवसं क्रमेणाचरणकरणतः परिहाणिप्रतिभासो भवति । चन्द्रस्य विषये 'तेनानुभावेन' तेन कारणेन एकः पक्षः 'कालः' कृष्णो भवति यत्र चन्द्रस्य परिहाणिप्रतिभासः, एकस्तु ज्योत्स्नावान् शुक्लपक्षः यत्र चन्द्रविषया वृद्धिः प्रति

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72