Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 49
________________ (४२) विनयकुशलविरचितं पढमपहराइकाला, जंबुद्दीवम्मि दोसु पाससु । लब्भंति एगसमयं, तहेव सव्वत्थ परलोए ॥६५॥ पढ० । प्रथमप्रहरादिका उदयकालादारभ्य रात्रेश्चतुर्थयामान्त्यकाल यावन्मेरोः समन्तादहोरात्रस्य सर्वे कालाः समकालं जम्बूद्वीपे पृथक पृथक क्षेत्रे लभ्यन्ते । भावना यथा— भरते यदा, यतः स्थानात्सूर्य उदेति तत्पाश्चात्यानां दूरतराणां लोकानामस्तकालः, उदयस्थानाधोवासिनां जनानां मध्याह्नः, एवं केषाञ्चित्प्रथमः प्रहरः, केषाञ्चिद्वितीयः प्रहरः, केषाञ्चित्तृतीयः प्रहरः, क्वचिन्मध्यरात्रः, क्वचित्सन्ध्या, एवं विचारणयाष्टप्रहरसम्बन्धी कालः समकं प्राप्यते । तथैव नरलोके सर्वत्र जम्बूद्वीपगतमेरोः समन्तात् सूर्यप्रमाणेनाष्टप्रहरकालसंभावनं चिन्त्यम् ॥६५॥ सूर्यचन्द्रयोः स्वरूपमुक्त्वाऽथ चन्द्रस्य किञ्चिद्विशेषमाह केणं वड्डइ चंदो, परिहाणी होइ केण चंदस्स। - केण सिकिरहपक्खा, दिणे अ रत्तिम्मि केणुदओ ॥६६॥ - केणं० । केन प्रकारेण चन्द्रः शुक्लपक्षे वर्धते ? १ केन प्रकारेण कृष्णपक्षे चन्द्रस्य परिहानिर्भवति ? २ केन प्रकारेण शुक्लपक्षो भवति ? ३ केन प्रकारेण कृष्णपक्षोऽपि ? ४ केन प्रकारेण कदाचिचन्द्रस्य रात्रावुदयः स्यात् ? ५ केन च दिवाप्युदयोऽपि ? ६ ॥६६॥ अर्थतान् षट् प्रश्नान् विवृण्वन् प्रथमं राहुखरूपमाहकिएहं राहुविमाणं, निचं चंदेण होइ अविरहिअं। चउरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरइ ॥ ६७ ॥ - किण्हं ० । इह द्विधा राहुः, नित्यराहुः पर्वराहुश्च । तत्र यो नित्यराहुस्तस्य विमानं कृष्णम् , तच्च जगत्स्वाभाव्यात् 'नित्यं 'आ कालं

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72