Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 47
________________ (४०) विनयकुशलविरचितं उदितं पश्यन्ति, ऐरावतेप्वपि मुहूर्तत्रिके पूर्व विदेहमनुष्याश्च, ततोऽग्रेतनक्षेत्रे मुहूर्त्तत्रिके दिने चटिते पाश्चात्यक्षेत्रे सूर्योऽस्तमेतीत्यर्थः । यथोदयवेलासम्बन्धि मुहूर्त्तत्रिकं लब्धं तथास्तसमयादर्वाग्मुहूर्त्तत्रिकं लभ्यते, अतः सर्वत्र क्षेत्रे सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्येऽष्टादशमुहूर्त तुल्यमेव, रात्रिश्च सर्वत्र द्वादश मुहूर्ता । तदा च पूर्वपश्चिमविदेहभरतैरावतेषु चतुर्षु स्थानेषु मुहूर्त्तत्रिकं यावदिवसो युगपत्प्राप्यते, परं पूर्वपश्चिमविदेहक्षेत्रयोः सन्ध्याकालिकं मुहूर्त्तत्रिकं भरतैरावतक्षेत्रेषु प्राभातिकम् , यदा च भरतैरावते सायन्तनं तदा च पूर्वपश्चिमविदेहेषु प्राभातिकमित्येवमभ्यूह्यम् । कर्कसङ्क्रान्त्याद्यदिनव्यतिरिक्तशेषेषु दिनेषु प्रतिमण्डलं किञ्चिन्न्यूनचतुष्पलैरुदयास्तमायाभ्यां हानिवृद्धी ज्ञेये ॥ ६२ ॥ अथ सर्वत्राष्टादशमुहूर्ता रात्रिः कथं स्यात् ? इत्याहजंबुद्दीवे मयरे, रयणीइ मुहुत्ततिगि अइकंते । उदयइ तहेव सूरो, मुहुत्ततिगसेसि अत्थमए ॥ ६३ ॥ जंबु० । जम्बूद्वीपे सर्वाभ्यन्तरात्क्रमेण दिने हीयमाने सूर्यो यदा • सर्वबाह्ये मण्डले गच्छति तदा पूर्वविदेहेषु मकराद्यदिने रात्रेर्मुहर्त्तत्रिकेऽतिक्रान्ते सूर्यो भरते उदयमेति, तथैव मुहूर्त्तत्रिके च शेषे सत्येवास्तमेति । तथा भरते रात्रेर्मुहूर्त्तत्रिके गते सति पश्चिमविदेहक्षेत्रे सूर्योदयः, अवशिष्टे रात्रेर्मुहूर्त्तत्रिके सूर्यस्यास्तमयनं स्यात् । एवमैरावते पूर्व विदेहेष्वपि भाव्यम् । रात्रिः सर्वत्राष्टादशमुहूर्ता, यदुक्तं भगवत्यां पञ्चमशतकप्रथमोदेशके-"जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ ?, जया णं दाहिणड्ढे उत्तरड्ढे उक्कोसए

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72