Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 50
________________ सवृत्तिकं मण्डलप्रकरणम्। (४३) चन्द्रेण सार्द्धमविरहितं चतुर्भिरङ्गुलैरप्राप्तं सच्चन्द्रविमानस्याधस्ताच्चरति ॥ ६७ ॥ अथ चन्द्रस्य वृद्धिहानिस्वरूपमाह बावढि बावडिं, दिवसे दिवसे उ सुकपक्खस्स । जं परिवड्डइ चंदो, खवेइ तं चेव कालेण ।। ६८ ॥ वाव । द्वाषष्टिभागीकृतचन्द्रविमानस्य द्वौ भागावुपरितनौ सदाप्यनावार्यस्वभावत्वात्तावपाकृत्य शेषाः षष्टिभागाः पञ्चदशभागैह्रियन्ते चत्वारो लभ्यन्ते । अवयवे समुदायोपचाराच्छुक्लपक्षस्य दिवसे दिवसे चतुरो द्वाषष्टिभागान् यान परिवर्धते 'कालेन' कृष्णपक्षेण पुनर्दिवसे दिवसे तानेव द्वाषष्टिभागान 'क्षपयति ' परिहापयति । उक्तं हि" पन्नरसाभागेण य, चंदं पन्नरसमेव तं वरइ । पन्नरसविभागेण य, तेणेव कमेणऽवक्कमइ ॥ १ ॥ " व्याख्या-कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशभागेन तं चन्द्रमिति चन्द्रविमानस्य पञ्चदशमेव भागं 'वृणोति' आच्छादयति । शुक्लपक्षे पुनस्तमेव प्रतिदिवसं पञ्चदशभागमात्मीयेन पञ्चदशभागेन ‘व्यतिक्रामति' मुञ्चतीत्यर्थः । जीवाभिगमवृत्तिगतमिदम् ॥ समवायाङ्गवृत्तौ तु द्विषष्टिस्थाने-" बावडिं बावडिं" इत्यत्र चन्द्रविमानस्यैकत्रिंशदुत्तरनव- । शतविभक्तस्य ९३१ एकोऽशोऽवशिष्यते, शेषाः प्रतिदिवसं द्विषष्टिढिषष्टिवर्धन्ते, एकत्रिंशदुत्तरनवशताङ्कस्य पञ्चदशदिनरूपभागैर्हतस्य द्वाषष्टेर्लभ्यमानत्वात् , एकः शेषः, ततः पञ्चदशदिनैः सर्वे समुदिता भवन्ति । कृष्णपक्षे पुनस्तथैव हीयन्त इति व्याख्यातम् ॥ ६८ ॥ अथ तृतीयं मतं सूर्यप्रज्ञप्तिगतमुच्यते

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72