Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 54
________________ सवृत्तिकं मण्डलप्रकरणम् । (१७) यायां मुहूर्तद्वये गते चन्द्रोदयो यावदमावास्यायां पञ्चदशमुहूर्त्तवृद्धिः । राहुरपि प्रतिदिवसं पञ्चदशमेकैकं भागमावृणोति 'तेन' कारणेनामावास्यायां तथाभवति तत्पुरा प्रोक्तं-सूर्येण सममुदयमित्यादिकं सर्वम् । अत्र किञ्चिदिनमानापेक्षया उदयवेलायाः स्तोकत्वमधिकत्वं वा चिन्त्यम् । किञ्च रात्रेर्यावद्भिर्मुहूर्तरुदयस्तावद्भिर्मुहूद्धितीयदिवसेऽस्तमयनमपि भाव्यम् ॥ ७६ ॥ अथ पर्वराहुखरूपमाह ससिसूराणं गहणं, सड्डतिवरिसाडयालवरिसेहिं । . उकोसो कमेणं, जहन्नो मासछक्केणं ॥ ७७ ।। ___ ससिसू० । यः पर्वराहुः स पूर्णिमारात्रौ चन्द्रविमानं तथाऽमावास्यादिने सूर्यविमानं तिरोधत्ते, तस्मिंस्तिरोहिते ग्रहणमिति रूढिः । तच्च ग्रहणं चन्द्रसूर्ययोः क्रमेणोत्कृष्टतः सार्द्धवर्षत्रयेण चन्द्रस्याष्टचत्वारिंशद्वर्षेः सूर्यस्य च भवति । जघन्यतः पुनरुभयोर्मासषट्केनैवेति स्थितिः॥७७॥ अथ ग्रहणस्य पुनर्विशेषमाह- ससिणो वा रविणो वा, जहमा गहणं तु होइ एगस्स । । तइया तं सव्वेसिं, ताणं नेअं मणुअलोए । ७८ ॥ ससिणो० । यदाकदाचिदेकस्य शशिनो रवेर्वा ग्रहणं भवति तदा सर्वेषां चन्द्राणां सूर्याणां च मनुष्यलोके समकं जायते, एकस्य चन्द्रस्य तदा सर्वेषां चन्दाणाम् , एकस्य सूर्यस्य तदा सर्वेषां सूर्याणां नरक्षेत्रवर्तिनां भवति, यतः सर्वेषामप्येकनक्षत्रराशिस्थितिकत्वात्सम श्रेणिव्यवस्थितत्वाच्च । न चेदं स्वमनीषया लिखितं. किन्त्वनुयोगद्वारज्यादौ तथैव दर्शनात् , तथा च तवृचिः-" चन्द्रसूर्योपरागाःराहुग्रहणानि, बहुवचनं चात्राईतृतीयद्वीपसमुद्रवर्तिचन्द्रार्काणां युगपदु

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72