Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 55
________________ (४८) विनयकुशलविरचितं परागभावान्मन्तव्यमिति । यच्च जीवाभिगमादावन्तरद्वीपादियौगलिकक्षेत्रेषु चन्द्रार्कोपरागाभावः प्रोक्तस्तत्तु तज्जयाजन्यासंभवस्तत्र ज्ञायते । यद्वा तेषां पुण्यानुभावाद ग्रहणादर्शनमपि संभाव्यते परं न ग्रहणासंभवः, तत्रापि चन्द्रादित्यानां चारत्वेन ॥ ७८ ॥ अथ चन्द्रार्काः कदा दक्षिणचारिणः कदोत्तरचारिणश्च भवन्ति ? इत्याह ककाइमिश्राइसु छसु, रासीसुं दाहिणुत्तरा कमसो। । मासेण हुंति ससिणो, सूरा संवच्छरेण पुणो ॥ ७९ ॥ कक्का० । कर्कादिषट्सु राशिघु-कर्क १ सिंह २ कन्या ३ तुला४ वृश्चिक ५ धनुर्पु ६ वर्तमानाश्चन्द्रार्का दक्षिणचारिणो भवन्ति, उत्तरमण्डलेभ्यः क्रमेण दक्षिणमण्डलेषु गच्छन्ति । मृगादिषट्सु चमकर १ कुम्भ २ मीन ३ मेष ४ वृष ५ मिथुनेषु ६ वर्तमानाश्चन्द्रार्का उत्तरचारिणो भवन्ति । बहुवचनमत्र सकलचन्द्रार्कापेक्षम्, यतः सर्वेऽपि सूर्याश्चन्द्रा वा दक्षिणोत्तरचारिणः समकालमेव भवन्ति, एकराश्यवस्थानात् । तत्र विशेषमाह-एकेन मासेन चन्द्रा दक्षिणोत्तरचारिणः, सूर्याः पुनः संवत्सरेण दक्षिणोत्तरचारिणो भवन्ति । अत्र मासो नक्षत्रमासो ग्राह्यः, स च सप्तविंशतिर्दिनान्येकविंशतिसप्तषष्टिभागाश्चेति २७३ प्रमाणः, तदर्धेन १३४४ चन्द्रस्य दक्षिणायनमर्दैन चोत्तरायणम् । यतश्चन्द्र १ चन्द्र २ अभिवर्धित ३ चन्द्र ४ अभिवर्धित ५ नामानः संवत्सराः ५, ते च त्रिंशदधिकाष्टादशशतदिनसंख्ये युगे पञ्च भवन्ति । तत्रैकोनविंशदिनमानाः सहात्रिंशदूद्वापष्टिभागाश्चन्द्रमासा द्वाषष्टिः, साईत्रिंशदिनमानाः सूर्यमासाः पष्टिः, सप्तविंशतिदिनमानाः सैकविंशतिः सप्तषष्टिभागा नक्षत्रमासाः

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72