Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 41
________________ (३४) विनयकुशलविरचितं उदीणपाईणमागच्छंति ? ४ हंता गोअमा !।" इत्यादि, काका प्रश्नः । तथा तापयतीति तापः-सूर्यस्तदाश्रिता दिक तापदिक, एताः पूर्वोक्तास्तापदिशोऽवगन्तव्याः, सूर्यप्रभवा इत्यर्थः । क्षेत्रदिशस्तु मेरुरुचकप्रभवा भवन्ति, रुचका अपि मेरुसर्वमध्यस्थिता अष्टौ प्रदेशाः समभूतलस्थाने गोस्तनाकाराः । तत्र चतस्रो द्विप्रदेशादयो द्वयुत्तराः शकटोडीसंस्थाना महादिशः पूर्वाद्याः, चतस्र एवैकप्रदेशाः, मुक्तावलीनिमा विदिशः, द्वे च चतुष्प्रदेशात्मिके ऊर्ध्वाधोदिशाविति । तेन जम्बूद्वीपजगत्यां विजयनामद्वारि पूर्वा दिक, एवं वैजयन्तद्वारि दक्षिणा, जयन्तद्वारि पश्चिमा, अपराजिते उत्तरा । एवं च सर्वत्र द्वीपे जगतीद्वाराण्येतन्नामान्येव सन्तीति क्षेत्रदिनिर्णयः । अथ तापदिगपेक्षया 'सर्वेषां ' कर्माकर्मभूमिजजनानां मेरुः 'औतरः' उतरस्याम् , लवणोदधातकीखण्डकालोदपुष्कराईप्वनेनैव क्रमेण जम्बूद्वीपसूर्यवद्दिग्विभागो ज्ञेयः, सर्वेषां समकं सञ्चरणात् । एतत्कथनेन सूर्यस्य मेरुसमन्ताच्चतसृषु(दिक्षु)गतिरुक्ता । ततश्च ये मन्यन्ते सूर्यः समुद्रं प्रविश्य पाताले गत्वा पुनः पूर्वसमुद्रे उदेतीति तन्मतमपास्तम् ॥ ५० ॥ अथ सूर्यस्य दिशः सामान्येनाह पिढे पुन्या पुरो, अबरा वलए भमंतसूरस्स । दाहिणकरम्मि मेरू, वामकरे होइ लवणोही ॥ ५१ ॥ पिढे । मेरुं परितः प्रदक्षिणावर्तेन सूर्यस्य भ्रमतः पृष्ठे पृष्ठे पूर्वा दिक्, पुरतः 'अपरा' इति पश्चिमा । सूर्यस्य दक्षिणहस्ते मेरुः, वामकरे लवणोदधिर्भवति । एताः सूर्यदिशो न तु जनानाम् , जनानां सूर्यापेक्षया • --

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72