Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 36
________________ सवृत्तिकं मण्डलप्रकरणम् । (२९), पश्चादप्येतावदग्रतोऽप्येतावत्सूर्यस्योभयपार्थाभ्यां कृत्वा द्विगुणं भवति ९४५२६ ४४ कर्कस्य प्रथमदिने। तथैतदेव सर्व पूर्वोक्तस्वरूपं जम्बृद्वीपवर्तिद्वितीयरवेरपि द्रष्टव्यम् ।। ४१ ॥ अथ कांद्यदिनवर्जशेषदिवसेषु प्रतिदिवसं तेनसः का हानिः ? मकरात्का वृद्धिर्वा ? द्वात्रिंशत्तमगाथावृत्ती करणेनोक्तापि साक्षादक्षरेणाह- जंबूदीवे पइदिणमुभो पासेसु तावखित्तस्स । छासीइ जोषणाई, अहिआई वुड्डिहाणीसु ।। ४२ ।। जंबू० । जम्बूद्वीपे सूर्यस्य पूर्वापरयोरेकैकपाधै तापक्षेत्रस्य साधिकानि षडशीतिः षडशीतिर्योजनानि कर्काद्धानौ मकराच्च वृद्धौ-भवन्ति । यतरुयशीत्यधिकेन दिनशतेन दशभागीकृतस्य सर्वाभ्यन्तरमण्डलपरिधेरष्टोत्तरपञ्चशतसमधिकैकत्रिंशत्सहस्रप्रमित एको दशभागभागो हीयते वर्धते च तदैकैकेन दिनेन का हानिर्वृद्धिर्वा ? अत्र त्रैराशिकन्यासः१८३। ३१५०८।१ । एकेनान्त्येन गुणितो मध्यराशिस्तदेव भवति । ततो मध्य आयेन भज्यते लब्धं च द्विसप्ततं शतं, शेषा द्वात्रिंशस्थिताः, ते च षष्टिगुणिताः १९२०, चतुष्पञ्चाशच्च षष्टिभागा मीलिताः १९७४ भवन्ति, तेऽपि १८३ भक्ता लब्धा दश १० शेषाः १४४, द्विसप्तत्यधिकशतस्य चाई षडशीतिर्योजनानि (६ ५ १३, उक्तोऽप्ययमर्थो दशमभागविभजनार्थमुक्तः । चन्द्रस्याप्येष राशिः ३१५०८५४ चतुर्दशविभक्तो वे सहस्र साढे च द्वे शते सप्तत्रिंशच्च षष्टिभागाः २२५० ३४ ॥४२॥ अथ मनुष्यलोकचारिशेषसूर्याणां वक्तव्यतामाह एवं सेसरवीण य, पयासखित्तं दसंसकप्पणया । ता नेअं जा चरमो, पुक्खरदीवड्भाणु त्ति ॥ ४२ ॥ .

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72