Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 34
________________ सवृत्तिकं मण्डलप्रकरणम् (२७) द्वौ दिवसकरौ सर्वाभ्यन्तरे सन्तौ 'दीप्तलेश्यौ' भाखत्तेजसौ तापयतः । एकैकसूर्यस्य भागत्रयप्रमिततापक्षेत्राभिधानात् ॥३५॥ चत्ता० । तथा चतुरो दशभागान् जम्बूद्वीपम्य द्वौ दिवसकरौ सर्वबाह्ये सन्तौ 'मन्दलेझ्यौ' मन्दतेजसौ तापयतस्तथाजगत्स्वाभाव्यात् ॥३६॥ अथ सर्वाभ्यन्तरे दशभागानां मध्यादेकैकभागस्य योजनकरणं गाथाद्वयेनाह--- एगारस अडतीसे, वजितु सयाइ दीवपरिहीए । सेस दसेहि विभत्ते, जे लद्धं तं इमं होई ॥ ३७॥ इगतीससहस्साई, सयाइमट्ठाहियाइँ तह पंच । चउपनसहिभागा, छहि गुणणे अंसछेाणं ॥३८॥ एगा० । एकादशशतान्यष्टात्रिंशदधिकानि ११३८ 'जम्बूद्वीपपरिधेः ३१६२२७ वर्जयित्वा' जम्बूद्वीपपरिधिमध्यात् ११३८ कर्ण्यन्त इत्यर्थः, ‘शेषे' सर्वाभ्यन्तरमण्डलपरिधिरूपे ३१५०८९ दशभिर्भक्ते यल्लब्धं तद् 'इदं' वक्ष्यमाणं भवति । यतः सर्वाभ्यन्तरं मण्डलं जगतीतोऽशीत्यधिकयोजनशतेनार्वाग् , तत उभयोः पार्श्वयोरपेक्षया तदकं द्विगुणीकृत्य ३६०, तच्च वर्गयित्वा दशगुणं क्रियते, तदनु करणीकरणे ११३८ भवन्तीति ॥ ३७ ॥ इग० । एकत्रिंश सहस्राण्यष्टाधिकानि पञ्चशतानि योजनानां चतुप्पञ्चाशञ्च षष्टिभागा योजनस्य । ते च कथं जाताः ? ' छहि गुणणे अंसछेआणं ' ति सर्वाभ्यन्तरमण्डलपरिधिदशमभागयोजनराश्या गमनानन्तरमवस्थितयोरंशच्छेदराश्योर्नवकदशरूपयोः षड्भिर्गुणने जाताः ५४, ततो दशस्वपि भागेषु प्रत्येकं योजनान्यंशाश्च भवन्ति ३१५०८ ५४, तद्दशगुणने मण्डलपरिधिर्भवति । एवं द्वितीयादिसर्वमण्डलेषु तत्तन्निजनिजपरिधेरनु

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72