Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 11
________________ विनयकुशलविरचितं वारभूतान्यभिजिदादीन्यष्टाविंशतिसङ्ख्याकानि नक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति । उत्तरतोऽप्यईभागे द्वितीयम्य शशिनः परिवारभृतान्यष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येव नक्षत्राणि क्रमेण व्यवस्थितानि । तत्र दक्षिणतोऽर्धभागे यदभिनन्नक्षत्रं तत्समश्रेणिव्यवस्थिते हे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, घट्त्रिंशदभ्यन्तरपुष्करार्धे इति सर्वसङ्ख्यया षट्षष्टिरभिजिन्नक्षत्राणि पंक्त्या व्यवस्थितानि । एवं श्रवणादीन्यपि दक्षिणतोऽईभागे पङ्क्तया व्यवस्थितानि षट्षष्टिसङ्ख्याकानि षट्षष्टिसङ्ख्याकानि भावनीयानि । तथोत्तरतोऽप्य भागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव हे अभिजिन्नक्षत्रे लवणसमुद्रे, षड् धातकीखण्डे, एकविंशतिः कालोदे, षट्त्रिंशदभ्यन्तरपुष्कराढ़ें । एवं श्रवणादीनां सर्वनक्षत्राणां पतयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशत्सङ्ख्या नक्षत्राणां पतयः । एकैका च पंक्तिः षट्षष्टिसङ्खयेति । किञ्च जम्बूद्वीपे यस्मिन्दिने यदश्चिन्यादिनक्षत्रं दक्षिणाईभागे एकस्य चन्द्रस्य परिभोग्यं भवति तस्मिन्नेव दिने तत्समश्रेणिस्थस्य द्वितीयम्य चन्द्रस्योत्तरार्द्धभागे तन्नामकमेव नक्षत्रं परिभोग्यं भवति । एवं सर्वस्मिन् द्वीपे समुद्रे चैकनामकनक्षत्रे एव चन्द्राः सूर्याश्च समकं भवन्ति ॥५॥ अथ ग्रहाणां पंक्तिस्वरूपमाह- . छावत्तरं गहाणं, पंतिसयं होइ मणुअलोगम्मि । . छावहि अ छावट्ठि अ, होई इकिकिया पंती ॥ ६ ॥ छावत्तरं० । ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोके

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72