Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 27
________________ ( २० ) विनयकुशलविरचितं 1 ३६७ गुणो जातं - एकक एककः षट्कोऽष्टको द्विक एककः षट्कः शून्यं पञ्चकचेति ११६८२१६०९, अस्य पूर्वोक्तेन २१९६० भागे लब्धानि योजनानि - १३१९ एषा बाह्ये मण्डले मृगशिर:प्रभृतीनामष्टानां नक्षत्राणां प्रतिमुहूर्तं गतिः । ग्रहाणां तारकाणां च मण्डलमानभ्रमिकालमानमुहूर्तगतिमानादिकं वार्त्तमानिकशास्त्रेषु न दृश्यते । किञ्च चन्द्रः साधिकैर्द्वाषष्ट्या मुहूर्तेर्मण्डलं पूरयति, सूर्योऽपि षष्ट्या मुहूर्तेर्मण्डलं पूरयति, नक्षत्रं साधिकेरेकोनषष्ट्या मुहूर्तेर्मण्डलं भ्रमणेन पूरयति । ततश्चन्द्रेभ्यः सूर्याः शीघ्रगतयः, तेभ्यो नक्षत्राणि शीघ्रगतीनि । ग्रहास्तु वक्रातीचारमन्दगतितो न नियतगतयस्तेन न तेषां गतिप्ररूपणोक्ता । यतः–“ चंदेहिं सिग्घयरा, सूरा सूरेहिं हुंति णक्खत्ता । अणिअयगइपत्थाणा, हवंति सेसा गहा सव्वे ॥ १ ॥ ” ॥ २७ ॥ अथ सर्वाभ्यन्तरे मण्डले वर्तमाने सूर्ये उदयास्तान्तरं दिनमानं चाह-मके उदयत्थंतर, चउणवइस इस्सपणसयछवीसा | बायाल सट्टिभागा, दिणं च (त) अट्ठारसमुहुत्तं ॥ २८ ॥ मज्झे॰ । सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य कर्काद्यदिने उदयास्तान्तरं चतुर्णवतिसहस्राणि पञ्चशतानि षट्विंशत्यधिकानि योजनानां द्विचत्वारिंशत्षष्टिभागाश्च ९४५२६ | 'तदा तस्मिन्दिsष्टादशमुहूर्त दिनमानं भवतीतिशेषः ॥ २८ ॥ अथ प्रतिमण्डलं कियद्दिनमानं हीयते ? सर्वबाह्ये मण्डले च गते सूर्ये कियद्दिनमान सावशेषं तिष्ठति ? इत्याह--- ૬૧૩૬૫ पमंडल दिहाणी, दुह मुहुत्तेगसट्टिभागाणं | यं बार मुहुत्तं, दिणं निसा तस्स. विवरीया ॥ २६ ॥

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72