Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 26
________________ सवृत्तिकं मण्डलप्रकरणम् । सवर्णनार्थ सप्तषष्टयधिकशतत्रयगुणाः क्रियन्ते जातं २१६५३, उपरितनानामंशानां च क्षेपे जातान्येकविंशतिसहस्राणि नवशतानि षष्टयधिकानि २१९६०, सर्वाभ्यन्तरे नक्षत्रमण्डले परिधिः३१५०८९, स च ३६७ गुणः क्रियते-एकक एककः पञ्चकः षट्कस्त्रिकः सप्तकः षट्कः षट्कस्त्रिकश्चेति ११५६३७६६३, अस्य पूर्वेण २१९६० भागे लब्धानि योजनानि पञ्चसहस्राणि पञ्चषष्टयधिके द्वे च शते एकस्य योजनस्य चैकविंशतिसहस्राणि षष्टयधिकानि नवशतानि भागाः क्रियन्ते तत्सबंन्धिनोऽष्टादशसहस्राणि त्रिषष्टयधिके द्वे च शते भागाः ५२६५३६४१३, एतावती प्रतिमुहूर्त सर्वाभ्यन्तरे मण्डले वर्तमानानामभिनिदादिद्वादशनक्षत्राणां गतिः । एवं तृतीयादिचन्द्रमण्डलानां परिधिप्रमाणं परिभाव्य तत्तन्मण्डलस्थशेषनक्षत्राणामपि प्रतिमुहूर्त गतिप्रमाणमवसातव्यम् , यतः प्रथमे चन्द्रमण्डलेऽभिजित् १ श्रवण २धनिष्ठा ३ शततारका ४ पूर्वभाद्रपद ५ उत्तरभाद्रपद ६ रेवती. ७अश्विनी ८ भरणी ९ पूर्वफाल्गुनी १० उत्तरफाल्गुनी ११ खाति१२ नक्षत्राणि भवन्ति १, तृतीये चन्द्रमण्डले पुनर्वसु १ मघा २ढे नक्षत्रे २, षष्ठे चन्द्रमण्डले कृत्तिका ३, सप्तमे चन्द्रमण्डले रोहिणीचित्रे हे ४, अष्टमे चन्द्रमण्डले विशाखा ५, दशमे चन्द्रमण्डले अनुराधा ६, एकादशमे चन्द्रमण्डले ज्येष्ठा ७, पञ्चदशे चन्द्रमण्डले मृगशीर्ष १ आर्द्रा २ पुप्य ३ अश्लेषा ४ हस्त ५ मूल६ पूर्वाषाढा ७ उत्तराषाढा - अष्टौ सन्ति, शेषेषु द्वितीयचतुर्थपञ्चमनवमहादशत्रयोदशचतुर्दशसंख्येषु सप्तसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति । तत्रान्तिमे नक्षत्रमण्डले परिधिः ३१८३१५, एषोऽपि

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72