Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 28
________________ सवृत्तिकं मण्डलप्रकरणम् । ( २१ ) पइ० । प्रतिमण्डलं द्वयोर्मुहत्कषष्टिभागयोर्दिनस्य हानिर्भवति । अयमर्थः–एकस्य मुहूर्त्तस्यैकषष्टिभागाः क्रियन्ते तत्सम्बन्धिनौ द्वौ भाग हीयेते । 'अंते' इति सर्वबाह्यमण्डले वर्तमाने सूर्ये द्वादशमुहूर्त दिनं भवति । अत्र त्रैराशिककरणं ज्ञेयम् - यद्यशीत्यधिकशतदिनैः • मुहूर्तानां हानिस्तदैकैकेन दिनेन का हानिः ? इति, राशित्रयन्यासो यथा - १८३ - ६-१ मध्योऽन्त्यगुणः क्रियते, एकेन गुणितं तदेव भवति जाताः षटू, आदिना च भागाप्राप्तौ षडेकषष्टिगुणाः क्रियन्ते जाताः ३६६, ते त्र्यशीत्यधिकशतेन भज्यन्ते लब्धौ द्वौ मुहत्कषष्टिभागौ, एतौ कर्कात्प्रभृति प्रतिदिनं हीयेते, मकरात्प्रभृति प्रतिदिनं वर्द्धते । यच्च भगवत्यामेकादशे शत एकादशो देशके - एकस्य मुहूर्त्तस्य द्वाविंशत्यधिकं शतं भागाः क्रियन्ते तादृशाश्चत्वारो भागा हानौ वृद्धौ चोक्ताः, अत्रैकपष्टिकौ द्वौ भागौ, उभयोर्नाऽर्थभेदः । एतावता किञ्चिदूनं पलचतुष्कं जातं, यथा पलानि ३ अक्षराणि ५६ एकाक्षरस्य - भागाः १३, यतः १८२ दिनैः षण्मुहूर्ता वर्द्धन्ते प्रतिमुहूर्त्त पलानि १२०, तानि च षड्गुणानि ७२०, तानि त्र्यशीत्यधिकेन शतेन भज्यन्ते लब्धानि त्रीणि ३ पलानि, शेषं १७१, तानि भागाऽप्राप्तौ षष्टचक्षरगुणितानि १०२६०, तेऽङ्काः १८३ भक्ता लब्धा ५६ वर्णाः, शेषा एकस्याक्षरस्य द्वादश भागाश्च । तथा 'निसा तस्स विवरीअ ' त्ति निशा-रात्रिर्दिनाद्विपरीता ज्ञेया, कोऽर्थः ? यदा दिनमानमष्टादशमुहूर्तं तदा निशा द्वादशमुहूर्ता, यदा दिनं द्वादशमुहूर्तं तदा निशाष्टादशमुहूर्ता । अत्रापि हानिवृद्धी दिनवज्ज्ञेये ॥ २९ ॥ अथ सर्वबाह्ये मण्डले तथा प्रथमवर्जसर्वमण्डलेषु सूर्यस्योदयास्तान्तरयोजनसंख्यामाह— १८३

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72