Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 31
________________ (२४) . विनयकुशलविरचितं . 'तेसिं पविसंताणं, तावक्खित्तं तु वड्डए निअमा। तेणेव कमेण पुणो, परिहायइ निक्खमंताणं ॥ ३२ ॥ - तेसिं० । 'तेषां' सूर्याचन्द्रमसां सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतां तापक्षेत्र प्रतिदिवसं क्रमेण नियमादायामतो वर्धते । येनैव क्रमेण परिवर्धते तेनैव क्रमेण सर्वाभ्यन्तरान्मण्डलाहहिनिष्कामतां परिहीयते। तथाहि-सर्वबाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं चतुर्णामपि दशधा प्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ हौ भागौ तापक्षेत्रस्य भवतः । ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्टयधिकषट्त्रिंशच्छत ३६६० प्रविभक्तस्य जम्बूद्वीपचक्रवालस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्धते । चन्द्रमसस्तु मण्डले मण्डले प्रत्येकं पौर्णमासीसंभवे क्रमेण प्रतिमण्डलं षड्विंशतिः षड्विंशतिर्भागाः सप्तविंशतितमस्य च.भागस्यैकः सप्तभागः २६ । रवेरभ्यन्तरमण्डलपरिधिः ३१५.० ८९, स च ३६६० भक्तो लब्धाः षडशीतिः ८६, शेषाः ३२९, ते षष्टिगुणिताः १९७४०, तेऽपि च ३६६० भक्ता लब्धाः पञ्च । शेषाः १४४० । चन्द्रस्य तु ८६ षड्विंशत्या गुण्यते २२३६, एकसप्तभागः षडशीतिगुणस्तदा ८६, स सप्तधा भक्तो लब्धाः १२, ते २२३६ मध्ये क्षिप्ताः २२४८, पञ्च भागाः षड्विंशतिगुणा जाताः १३०, ते षष्टया हृता लब्धौ धौ, तौ २२४८ मध्ये क्षिप्तौ जातौ २२५० । तेषां तापक्षेत्राकारास्त्वन्तः संकुचिता बहिर्विस्तृताः कलम्बुकापुप्पसंस्थानसंस्थिताः, कोऽर्थः ? मेरुदिशि संकुचिता लवणदिशि विस्तृताः । उक्तं हि-" तेसिं कलंबुआपुप्फसंठिआ हुंति तावखित्तपहा । अंतो संकुइआ बाहि वित्थडा चंदसूराणं ॥ १ ॥” ति ॥ ३२ ॥ अथो

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72