Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 14
________________ सवृत्तिकं मण्डलप्रकरणम्। (७) दधिकानि त्रीणि शतानि योजनानां ३३०, उभयोर्मीलने दशाधिकानि पञ्चशतानि योजनानामष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य ५१०४६ । नक्षत्राणामपि चारक्षेत्रमेतदेव, सर्वाभ्यन्तरसर्वबाह्यमण्डलयोः परस्परं दशाधिकपञ्चशतयोजनप्रमाणान्तरालस्योक्तत्वात् । ग्रहणां तारकाणां च चारक्षेत्रविष्कम्भमानं व्यक्त्या शास्त्रेषु नोपलभ्यत इति ॥ ८ ॥ अथ जम्बूद्वीपे चन्द्रयोः सूर्ययोश्च संख्याज्ञापनपूर्वकं प्रत्येकं कति मण्डलानि भवन्तीत्याहइह दीवे दुनि रवी, दुनि अचंदा सया पयासंति । चुलसीसयमेगेसि, मंडलमन्नसि पन्नरस ॥६॥ ... इह दिवे० । ' इह ' अस्मिन् जम्बूद्वीपे द्वौ सूर्यों द्वौ च चन्द्रौ सदा प्रकाशयतः । तत्र ‘एगेसिं'ति प्रथमोद्दिष्टयो रव्योश्चतुरशीत्यधिकं शतं मण्डलानि भवन्ति । 'अन्नेसिं'ति पश्चादुद्दिष्टयोश्चन्द्रयोः पञ्चदशसंख्याकानि भवन्ति । नक्षत्रमण्डलानि चाष्टौ सन्ति, तत्वरूपं नक्षत्राधिकारे भावयिप्यते ॥ ९॥ अथ सूर्यमण्डलानां मिथश्चन्द्रमण्डलानां चान्तराणि कियत्प्रमाणानीत्याह दो जोअणंतराई, सूराण ससीण पंचतीसा य । . तीसमिगसट्ठिभागा, चउरो तस्सत्तभागा य ॥१०॥ दो नोअणं० । सूर्यसम्बन्धिनां मण्डलानामन्तराणि हे योजने योजनद्वयप्रमाणानीत्यर्थः, एवंविधान्यन्तराणि सूर्ययोरुयशीत्यधिकशतसंख्याकानि भवन्ति । चन्द्रसम्बन्धिनां मण्डलानामन्तराणि पञ्चत्रिंशद्योजनानि त्रिंशच्चैकयोजनस्यैकषष्टिभागा एकस्यैकषष्टिभागस्य सप्तभागाः

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72