Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 19
________________ (१२) विनयकुशलविरचितं अङ्कानां वर्गकरणे दशगुणे च ९९२८१२९६००० एतदकानां करणीकरणे सर्वाभ्यन्तरमण्डलस्य परिधिः ३१५०८९ भवति । ततो द्वितीयादिचन्द्रमण्डलेषु विष्कम्भस्य 'चय' इति वृद्धिर्योजनानां द्वासप्ततिरेकपञ्चाशदेकषष्टिभागास्तत्साप्तिकश्चैकभागोऽपि, यथा-योजनानि ७२५॥ एतद्राशेः परिधिर्योननानि २३०१४७, यतो द्विसप्ततियोजनान्येकषष्टया गुण्यन्ते ४३९२, एकपञ्चाशति क्षिप्ते जातं ४४४३, तच्च सप्तगुणितमेकेन युतं ३११०२, तच्च वर्गितं दशगुणितं च यथा९६७३३४४०४०, एतस्य करणीकरणे आगतं ९८३५३, शेषाकाः ३१४३१ स्थितास्तैन किञ्चित्प्रयोजनम् । तत एकषष्टिः सप्तगुणिता जाताः ४२७ तैः कृत्वा लब्धानां भागहारे योजनानि २३०१७३ । अयं परिरयो यदि चन्द्रस्य प्रथमादिमण्डलपरिरये क्षिप्यते तदा यथोत्तरं द्वितीयादिमण्डलपरिरयमागच्छति । विष्कम्भवृद्ध्यानयनोपायश्चायम्-चन्द्रमण्डलान्तरं पञ्चत्रिंशद्योजनानि त्रिंशदेकषष्टिभागाश्चत्वारश्च साप्तिका भागा इति, अत्र द्वयोः पार्श्वयोरपेक्षया योजनानां द्विगुणने सप्ततियोजनानि ७०, तथा त्रिंशद्भागानां द्विगुणत्वे षष्टिरेकषष्टिभागाः, तथा साप्तिकाश्चत्वारो भागास्ते द्विगुणिता अष्टौ, तैः सप्तभिरे (क ए) कषष्टिभागः, सर्वे एकषष्टिस्तैरेकं योजनम् , तच्च योजनराशिमध्ये क्षिप्तमेकसप्ततिः, साप्तिकश्चैकभागः स्थितः । चन्द्रविमानं तु षट्पञ्चाशद्भागमितम् , तद्विगुणत्वे द्वादशोत्तरं शतं ११२, एकषष्टया भागैरेकं योजनं शेषा एकपञ्चाशद्भागाः, तद्योजनमेकसप्ततौ क्षिप्तं जातं पूर्वोक्तमानम् ७२ ११३ । एतच्चतुर्दशगुणितं जातमेकोनविंशत्युत्तरं सहस्रं . . “ द्विगुणिते " इत्यपि ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72