Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 21
________________ (१४) विनयकुशलविरचितं भांगन्यूनता ॥ १७ ॥ अथ सर्वाभ्यन्तरपरिधिं सर्वबाह्यपरिधिं च वृत्तावुक्तमपि सूत्रमध्ये गाथाद्वयेनाह-- तिन्नेव सयसहस्सा, पन्नरस हवंति जोअणसहस्सा। एगुणनउमा परिही, अभंतरमंडले तेसिं ॥१८॥ लक्खतिगं अट्ठारससहसा, तिन्नि सय पंचदसअहिआ। परिहीइ जोषणाई, बाहिरए मंडले हुंति ॥१६॥ तिन्नेव । त्रीणि लक्षाणि पञ्चदशसहस्राणि एकोननवत्यधिकानि ३१५०८९ योजनानां सर्वाभ्यन्तरे मण्डले परिधिः 'तयोः' चन्द्रयोः सूर्ययोश्च ॥ १८ ॥ लक्ख० । लक्षत्रिकमष्टादशसहस्राणि पञ्चदशाधिकानि त्रीणि शतानि योजनानां ३१८३१५ सर्वबाह्ये मण्डले परिधिरिति ॥१९॥ अथ चन्द्रस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह-- साहिअपणसहसतिहुत्तराई, ससिणो मुहुत्त गइ मज्झे । बावन्नहिया सा बहि, पइमंडल पउणचउवुड्डी ॥२०॥ साहि० । 'मज्झे' इति सर्वाभ्यन्तरे मण्डले वर्तमानस्य जम्बूद्वीपे एकैकस्मिन्मुहूर्ते पञ्चसहस्राणि त्रिसप्तत्यधिकानि साधिकानि योजनानां गतिर्भवति, अङ्कतो यथा-५०७३,७७४४ । 'सैव' सर्वाभ्यन्तरमण्डलगतिढिपञ्चाशद्योजनाधिका कृता सती सर्वबहिर्मण्डले चन्द्रस्यैकैकमुहूर्तगतिर्जायते, अत्र कियद्भागानां न्यूनत्वं जातम् , अङ्कतो यथा-५१२५.१९१९ । प्रतिमण्डलं च किञ्चिदूनपादोनचतुर्योजनवृदिः क्रियते एतावता पूर्ण योजनत्रिकं पञ्चपञ्चाशदधिकाः षण्णवतिशतभागाश्चेत्यर्थः ३,६५५ । एतच्चतुर्दशगुणितं द्वापञ्चाशत् ॥२०॥ अथ सूर्यस्य सर्वमण्डलेषु प्रतिमुहूर्त गतिप्रमाणमाह

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72