Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 22
________________ सवृत्तिकं मण्डलप्रकरणम् । (१५) मज्झि दुवन्निगवन्ना, सया य चउवन्नसंजुत्रा बाहिं । सूरस्स व अट्ठारस, सट्टीभागाणमिह बुड्डी ॥ २१ ॥ मज्झि० । सर्वमध्यमण्डले वर्तमानस्य जम्बूद्वीपसत्कसूर्यस्य तु द्विपञ्चाशच्छतान्येकपञ्चाशदधिकानि योजनानामिति योगः, एकैकस्मिमुहूर्ते गतिरेतावती भवति ५२९१, ये चोपरितनांशाः सूत्रे स्तोकत्वान्नोकास्ते चन्द्रसूर्ययोर्मुहूर्तवर्तनावसरे चिन्तयिप्यन्ते । या च सर्वमध्यमण्डले मुहूर्तगतिः सूर्यस्य सैव चतुष्पञ्चाशद्योजनसंयुता कृता सती सर्वबाह्यमण्डले प्रतिमुहूर्तं गतिर्जायते, यथा - १३०९ ॥ अत्र प्रतिमण्डलं किञ्चिदूनानामष्टादशषष्टिभागानां वृद्धि:, यतोऽष्टादशानां त्र्यशीत्यधिकशतगुणने ३२९४ जायन्ते तेषां षष्ट्या भागहारे लब्धानि चतुष्पञ्चाशद्योजनानीति ॥ २१ ॥ अथाधिकारान्नक्षत्राणां प्रतिमुहूर्त गतिप्रमाणमाह पण सह सदुसयसाहित्र, परगट्टी जोणारा मज्झि गई । चउपन्नहिया सा बहिमंडलए होइ रिक्खाणं ॥ २२ ॥ पणस 'मज्झि' ति सर्वाभ्यन्तरे मण्डले वर्तमानानां नक्षत्राणामेकैकमुहूर्ते गतिः पञ्चसहस्राणि द्वे शते पञ्चषष्टिश्च साधिका योजनानां ५२६१३८ । सा च सर्वाभ्यन्तरमण्डलगतिश्चतुष्पञ्चाशद्योजनाधिका क्रियते तदा सर्वबाह्ये मण्डले वर्तमानानां नक्षत्राणां प्रतिमुहूर्तं गतिः यथा—१३१९ । अत्र प्रतिमण्डलवृद्धिः सम्यग् न ज्ञायते, यतो मण्डलानामन्तरं सर्वत्र तुल्यं नास्ति ॥ २२ ॥ अथ मण्डलभ्रमिमुहूर्त ज्ञापनपूर्वकं पूर्वोक्तमपि चन्द्रादिमुहूर्तगतिपरिमाणं करणगाथाभिर्विवक्षुः प्रथमं चन्द्रस्याह ૧૬૩૬૮ २१८९०

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72