Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 16
________________ सवृत्तिकं मण्डलप्रकरणम् । (९) स्थितः ७१, पूर्वोक्तानि योजनानि १३ तथा ४९० तथा ७, सर्वेषां मीलने जातानि योजनानि ५१०, शेषभागाः १ तथा ४७, उभयोमीलने ४६ स्थिता इति । इदं चारक्षेत्रचक्रवालविष्कम्भमानम् ॥१०॥ अथ कति मण्डलानि द्वीपे कति च निषधे लवणे च कति सूर्यचन्द्रयोर्भवन्तीति गाथाद्वयेनाह-- संततमंतरमेयं, रवीण पणसट्टिमंडला दीवे । तत्थ बिसट्ठी निसढे, तिन्नि अ बाहाइ तस्सेव ॥११॥ चंदाणं निसढे वि अ, मंडल पण गुरुवएसि दीसंति । सेसाई मंडलाई, दोण्ह वि जलहिस्स मज्झम्मि ॥१२॥ .. संतत० । 'संततं ' सर्वकालं 'एतत् ' पूर्वोक्तं सूर्ययोश्चन्द्रयोश्च मध्ये प्रविशतोर्बहिर्निगच्छतोश्च मण्डलानां परम्परमन्तरं ज्ञेयम् । तत्र रव्योः पञ्चषष्टिमण्डलानि जम्बूद्वीपे । तत्रापि द्वाषष्टिं निषधपर्वते त्रीणि च तस्य बाहायाम् , इदं तु श्रीमुनिचन्द्रसूरिभिरुक्तम् । समवायाङ्गवृत्तौ त्रिषष्टिस्थाने-"जम्बूद्वीपस्य पर्यन्तिमेऽशीत्युत्तरे योजनशते पञ्चषष्टिर्भवन्ति, तत्र निषधपर्वते नीलवत्पर्वते च त्रिषष्टिः सूर्योदयाः सूर्यमण्डलानीत्यर्थः, तदन्ये तु द्वे जगत्यां, शेषाणि तु लवणे” इत्युक्तमस्ति । सङ्ग्रहणीवृत्तादावपि-"त्रिषष्टित्रिषष्टिमण्डलानि निषधनीलवतोः, द्वे वे हरिवर्षकोट्यादौ ।” ततस्तत्त्वं सर्वविद्वेद्यम् ॥ ११ ॥ तथा-चंदा । चन्द्रयोर्निषधनीलवन्तपर्वत एव पञ्च मण्डलानि गुरूपदेशे दृश्यन्ते, शेषाणि मण्डलानि द्वयोरपि जलधौ ११९ सूर्यस्य दश १० चन्द्रस्य च भवन्ति। तत्राप्ययं विशेषः-१-२-३-४-५-११-१२-१३१४-१५ एतानि चन्द्रमण्डलानि सूर्यस्यापि साधारणानि । षष्ठ ६

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72