Book Title: Mandal Prakaran
Author(s): Chaturvijay Muni
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 6
________________ अथ निवेदनम् । इदं हि चन्द्रसूर्यादिमण्डलगतानेकवक्तव्यताप्रधानं सान्वर्थाभिधेयाभिधानं नवनवतिगाथापरिमितं मण्डलप्रकरणं नाम प्रकरणं सांप्रतकालीनमन्दमतीनामेकत्र मण्डलविचारसारजिज्ञासूनां भव्यसत्त्वानां तदवबोधाय स्वस्मृतये च जीवाजीवाभिगमादिसूत्रगाथाभिः वृहद्च्छगगनाङ्गणदिनमणिश्रीमन्मुनिचन्द्रसूरिविरचितसमग्रमण्डलविचारकुलकगाथाभिः पृथक्टथगागमप्रकीर्णकगतविप्रकीर्णभूतमण्डलविचारलेशाधारविरचितनवीनगाथाभिश्च श्रीमता पण्डितविनयकुशलेन सङ्कलितमित्यस्य प्रकरणस्य प्रान्तगाथाव्याख्यानतः प्रकटमेव । अस्य प्रकरणस्योपरि वाचकवर्गस्य सुखावबोधाय जिनागम-उपाङ्ग--प्रकरणादिगतमण्डलविचारानुसरणशीलाऽतीवस्फुटतरव्याख्याना अनेनैव पण्डितप्रवरेण खोपज्ञा वृत्तिरपि लिखितेत्यस्य प्रशस्तिगतद्वितीयकाव्येन स्फुटमेवावसीयते । खोपज्ञवृत्तियुतस्यास्य प्रकरणस्य विनिर्माता कदा कतमं महीमण्डलं मण्डयामास? इति जिज्ञासायां जातायां प्रस्तुतप्रकरणस्य प्रशस्तिगतेन"गुरुतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः । श्रीमदकब्बरनरवरविहितप्रबलप्रमोदा ये ॥ १ ॥ तेषां शिशुना वृत्तिः खोपज्ञा व्यरचि विनयकुशलेन । मूलत्राणाहपुरे करबाणरसेन्दु १६५२ मितवर्षे ॥ २॥"

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 72