Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सरलः सत्यवाग्जनः । कुटिलो वक्रवादी च, प्रायः स्याजनतादृतः॥ ६०॥ वेश्यावीवाहसीमन्तादिषु संसारकर्मसु । ऋणं कृत्वाऽपि वित्तानि, विलसन्ति घना जनाः॥ ६१॥ चैत्योपाश्रयदेवा प्रतिष्ठाद्युत्सवेषु तु । उपदेशं न शृण्वन्ति, शक्ता अप्येडमूकवत् ॥६२॥श्रद्धाहानिद्रव्यहानिर्धर्महानिर्यथाक्रमम् । आयुर्हानिर्वपुहानिः, सारहानिश्च वस्तुषु ॥ ३३॥ कौटिल्यमग्रजः स्वल्पं, वेत्त्यनल्पं ततोऽनुजः। यथाकनिष्ठमित्येवं, तद्वर्धताधिकाधिकम् ॥ ६४ ॥ मणिमन्त्रौषधीतन्त्रास्तादृग्माहात्म्यवर्जिताः। देवा भवन्ति नाध्यक्षाः, सम्यगाराधिता अपि ॥६५॥ खल्पतुच्छाऽरसफलाः, सहकारादयो दुमाः। गोमहिष्यादयोऽप्यल्पदुग्धास्तान्यरसानि च ॥६६॥ दुर्णयो वर्द्धते कूटतुलादिलोभवृद्धितः। ततः स्युर्जलदास्तुच्छाः, पृथिवी नीरसा ततः॥॥ ६७॥ औषध्यस्तेन निस्सारा, मानवानां ततः क्रमात् । आयुर्देहबलादीनां, परिहाणिः प्रवर्तते ॥ ६८॥ तथोक्तं तन्दुलवैचारिके“संघयणं संठाणं उच्चत्तं आउयं च मणुआणं । अणुसमयं परिहायई ओसप्पिणिकालदोसेण ॥ ६९॥ कोहमयमायलोभा ओसन्नं वड्डए य मणुआणं । कूडतुलकूडमाणा तेणऽणुमाणेण सबंपि ॥७०॥ विसमा अज तुलाउ विसमाणि य जणवएसुमाणाणि । विसमा रायकुलाई तेण उविसमाई वासाई॥७१॥ विसमेसु अ वासेसु हुंति असाराई ओसहिबलाई । ओसहिदोब्बल्लेण य आउं परिहायइ नराणं ॥७२॥” । ___बकुशाच कुशीलाच, स्युर्द्विधैवात्र साधवः। न स्युः पुलाकनिर्ग्रन्थस्नातकाः कालदोपतः॥७३॥ यस्यातिचारपङ्केन, चारित्रं वकुशं भवेत् । बकुशः श्रमणः स स्यात्, बकुशं नाम कव॒रम् ।।७४॥ स च विधोपकरणदेहा-
१४
Jain Education
a TANI
l
For Private & Personel Use Only
ainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106