Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वैकालिकावधि । षाण्मासिकतपस्तुल्यं, षष्ठभक्तं भविष्यति ॥ ३९ ॥ मत्रीशः सुमुखाभिख्यो, राजा विमलवाहनः । भविष्यतस्तदा लोके, नीतिमार्गप्रवर्त्तकौ ॥ ४० ॥ अयं दुष्प्रसहाचार्योपदेशेन करिष्यति । चैत्यस्यान्तिममुद्धारं, राजा श्रीविमलाचले ॥ ४१ ॥ कोट्येकैकादश लक्षाः, सहस्राणि च षोडश । उत्तमानां क्षितीशानां संख्यैषा दुष्षमारके ||४२|| कोटयः पञ्चपञ्चाशल्लक्षाञ्चापि सहस्रकाः । तावन्तोऽग्रशताः पञ्च पञ्चपञ्चा शदन्विताः ॥ ४३ ॥ (६६६६६६६६५) इयन्तो दुष्षमाकाले, निर्दिष्टा सर्वसंख्यया । नवभिः पञ्चकैर्नामधारिणोऽघमसूरयः ॥ ४४ ॥ इत्यर्थतो दीपालिकाकल्पे । एवं च सर्ववर्षावसर्पिणीष्वखिलाखपि । पञ्चमानामरकाणां यथार्ह भाव्यतां स्थितिः ॥ ४५ ॥ एवमुक्तखरूपस्य, पंचमस्यारकस्य च । प्रान्ते मूलाद् ज्ञातिधर्मो, विवाहादिर्विलीयते ॥ ४६ ॥ धर्मो विलीयते शाक्याद्यन्यपाखण्डिनामपि । राजधर्मो दुष्टशिष्ट निग्रहानुग्रहादिकः ॥ ४७ ॥ धर्मोऽथ श्रुतचारित्रलक्षणोऽपि विलीयते । साध्वादिनाशे तन्नाशः, पात्रनाशे घृतादिवत् ॥ ४८ ॥ तथा चोच्छिद्यते वह्निरन्नपाकादिभिस्सह । अतिस्निग्धेऽतिरूक्षे च काले भवति नैष यत् ॥ ४९ ॥ अनतिस्नि धरुक्षेषु, सुषमादुष्षमादिषु । कालेषूत्पद्यते वह्निस्तत्साध्याश्च क्रिया अपि ॥ ५० ॥
एवं पूर्ण पञ्चमेऽनन्तैर्वर्णादिपर्यवैः । हीयमानैः प्रविशति, दुष्षमादुष्षमारकः ॥ ५१ ॥ स च कालो महाभीष्मः, शून्योऽशेषजनक्षयात् । प्रवर्द्धमानदुःखार्त्तलोकहाहारवाकुलः ॥ ५२ ॥ तस्मिन् कालेऽतिकठिना, दूरोदश्चितधूलयः । वाता वान्ति भृशं भीष्मा, असह्याः प्राणहारिणः ॥ ५३ ॥ धूमायन्ते दिशोऽभीक्ष्णं,
Jain Educatmational
For Private & Personal Use Only
१४
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106