Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
षु । कषायाध्यवसायेन, ग्रहणक्षण एव ते ॥ ९ ॥ अविभागपरिच्छेदा, रससंबन्धिनोऽमिताः । प्रादुर्भवन्ति सर्वेभ्यो, जीवेभ्योऽनन्तसंगुणाः ॥ १० ॥ विविधाश्च खभावाः स्युर्ज्ञानावारकतादयः । जीवानां पुद्गलानां चाचिन्त्यशक्तिकता यतः ॥ ११ ॥ यथा शुष्कतृणादीनां पूर्व ये परमाणवः । प्रायेणैकस्वरूपाः स्युः, स्वाभावि करसास्तथा ॥ १२ ॥ गवादिभिर्गृहीतास्ते, क्षीरादिरसरूपताम् । सप्तधातुपरीणामायान्ति चानेकरूपताम् ॥ १३॥ तथैकाध्यवसायातेष्वपि कर्मदलाणुषु । रसोद्भेदोऽनन्तभेदो, भवेत्तद्दर्श्यते स्फुटम् ॥ १४ ॥ तथाहि - अभव्येभ्योऽनन्तगुणैः, सिद्धानन्तांशसंमितैः । निष्पन्नानणुभिः स्कन्धानात्माऽऽदत्ते प्रतिक्षणम् ॥ १५ ॥ अविभागपरिच्छेदान् करोत्येषु रसस्य च । सर्वजीवानंतगुणान्, प्रत्येकं परमाणुषु ॥ १६ ॥ योऽर्द्धार्द्धन छिद्यमानो, रसांशः सर्वविद्धिया । न दत्तेऽंशं सोऽविभागपरिच्छेद इह स्मृतः ॥ १७ ॥ तत्रैकसमयोपात्ते, कर्मस्कन्धेऽत्र येऽणवः । सर्वाल्पिष्टर साच्छिद्यमानास्तेऽपि रसांशकैः ॥ १८ ॥ सर्वजीवानन्तगुणान् प्रयच्छन्ति रसांशकान् । एषां चाल्परसाणूनां निचयो वर्गणाऽऽदिमा ॥ १९ ॥ अन्यासां वक्ष्यमाणानां, वर्गणानामपेक्षया । स्युर्भूयांसोऽणवोऽत्राल्परसा | हि बहवोऽणवः ॥ २० ॥ रसाविभागभागेन, तत एकेन येऽधिकाः । द्वितीया वर्गणा तेषामणूनामिह कीर्त्तिता ॥ २१ ॥ इयं च वर्गणा हीना, परमाणुव्यपेक्षया । आद्याया वर्गणाया यदेते तेभ्यो रसाधिकाः ॥ २२ ॥ रसाविभागभागस्येत्येकैकस्य प्रवृद्धितः । वर्गणाः परमाणूनां तावद्वाच्या मनीषिभिः || २३ || भवन्ति वर्गणा यावत्सिद्धानन्तांशसंमिताः । अभव्येभ्योऽनन्तगुणास्ता रसांशविशेषिताः ॥ २४ ॥ रसभागांश्च यच्छन्ति,
Jain Educatornational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106