Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अन्त्यद्वये त्रयो भावा, मिश्रीपशमिको विना ॥६६॥
पञ्चाप्येवं मूलभेदा, गुणस्थानेषु भाविताः। एतेष्वेवाथ भावानां, प्रतिभेदान् प्रतन्महे ॥ ६७॥ दश मिथ्यादृष्टिसास्वादनयोर्गुणयोः स्मृताः।क्षायोपशमिकाख्यस्य, प्रतिभेदा जिनैर्यथा ॥ ६८ विनक्षयोपशमजाः, पञ्च दानादिलब्धयः । अज्ञानत्रितयं चक्षुरचक्षुर्दर्शने इति ॥६९॥ भेदा द्वादश मिश्राख्ये, सम्यक्त्वं मिश्ररूपकम् । दानादिपञ्चकं ज्ञानदर्शनानां त्रयं त्रयम् । ॥७॥ ज्ञानाज्ञानान्यतरांशबाहुल्यमिह संभवेत् । कचिक्वचिचोभयांशसमता वाऽऽत्र यद्यपि ॥७१॥ तथापि विज्ञानांशबाहुल्यस्य विवक्षया। उक्तं ज्ञानत्रयं मिश्रगुणस्थाने गुणाश्रये ॥७२॥ अस्मिंश्च यद्गुणस्थाने, दर्शनत्रयमीरितम् । तच्च सैद्धान्तिकमतापेक्षयेति विभाव्यताम् ॥७३॥ स्युादशैवाविरतसम्यग्दृश्यपि मिश्रवत् ।क्षायोपशामिकं मिश्रस्थाने सम्यक्त्वमत्र तु ॥७॥ द्वादशस्वेषु सद्देशविरतिक्षेपतः स्मृताः।क्षायोपशमिका भावास्त्रयोदशैव पञ्चमे ॥ ७५ ॥ एतेभ्यो देशविरतित्यागे द्वादश ये स्थिताः। तेष्वेव सर्वविरतिमनोज्ञानसमन्वये ॥७६ ॥ षष्ठसप्तमयोर्भावा, भवन्त्येते चतुर्दश। |क्षायोपशमिकाख्येन, सम्यक्त्वेन विना त्वमी ॥७७॥ त्रयोदशाष्टमे भावा, नवमे दशमेऽपि च । अष्टमादिषु सम्यक्त्वं, क्षायोपशमिकं न यत् ॥७८॥ एकादशद्वादशयोगुणस्थानकयोरमी। विना क्षायोपशमिकं, चारित्र द्वादशोदिताः॥७९॥ एकादशे गुणस्थाने, यदीपशमिक परम् । चारित्रं क्षायिकं च स्यात्, केवलं द्वादशे गुणे ॥ ८०॥ दर्शनलितयं ज्ञानचतुष्कं लब्धिपञ्चकम् । अमी भावा द्वादशोपशान्तक्षीणविमोहयोः ॥८१ ॥
१४
Jain Educat
i
onal
For Private & Personel Use Only
KOww.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106