Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वरणं, सौधर्मेशाननाथयोः॥४६॥षविंशतितमे सर्गे, इत्याद्यखिलमीरितम् २६ । सप्तविंशे ततः सर्गे, तृतीयतुर्यनाकयोः॥४७॥ वर्णनं ब्रह्मलोकस्य, तमस्कायस्य मूलतः । कृष्णराजी तद्विमानलोकान्तिकसुधाभुजाम् | ॥४८॥ स्वर्गस्य लान्तकस्याथ, सकिल्बिषिकनाकिनः । जमालेश्वरितं शुक्रसहस्रारादिवर्णनम् ॥४९॥ यावदच्युतनाकस्य, कीर्तनं रामसीतयोः। चरितं तदनु ग्रैवेयकानुत्तरवर्णनम् ॥५०॥ ततः सिद्धशिलाख्यानं, लोकान्तस्य च संशनम् । इत्यादिवर्णनैरेवं, क्षेत्रलोकः समापितः २७॥५१॥ इति क्षेत्रलोकः ॥
दिष्टलोकेऽथ कालस्य, युक्तिव्यक्तिमतद्वये । ऋतूनां वर्णनं षण्णां, निक्षेपाः कालगोचराः॥५२॥ समयावलिकाक्षुल्लभवादिपरिकीर्तनम् । घटीमुहर्त्तदिवसपक्षमासादिशंसनम् ॥५३॥ सूर्यचन्द्रनक्षत्राभिवर्द्धिताहृयाः क्रमात् । मासा वर्षाण्यथैतेषामुपपत्त्यादिवर्णनम् ॥५४॥ युगस्यादियुगे मासत्वयनानि दिनानि च । अधिमासावमरात्रावृत्तयो विषुवन्ति च ॥ ५५॥ करणान्यत्वयनादेनक्षत्रानयनं विधोः। रवेश्च करणान्येषां, बवादिकरणान्यपि ॥५६॥ पौरुष्यादिपरीमाणं, तस्मात्तिथ्यादिनिश्चयः। सर्गेऽष्टाविंशतितमे, इत्यादि युगवर्णनम् २८ ॥५७॥ युगात्प्रभृत्यब्दशतसहस्रादिक्रमेण च । शीर्षप्रहेलिकान्ताङ्कस्वरूपप्रतिपादनम् ॥५८॥ अरत्रयस्याद्यस्यावसर्पिण्यां वर्णनं स्थितेः। कल्पद्रुयुग्मिलोकादेरेकोनत्रिंश आहतम् २९॥५९॥ अर्हतां पद्धतिः सर्वा, निर्वाणावधि जन्मतः । उक्ता त्रिंशत्तमे सर्गे ३०, एकत्रिंशे ततः पुनः॥६०॥ चक्रिदिग्विजयः सम्पन्निधिरत्नादिरस्य च । सामान्यतः शाहिशीरिप्रतिविष्ण्वादिकीर्तनम् ३१॥६॥सर्गे द्वात्रिंशत्तमेऽथ, सङ्केपात्प्राग्भवा
Jain Education
a
l
For Private & Personel Use Only
T
ainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106