Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे
ग्रन्थकुप्रशस्तिः
॥५८४॥
ख्यवाचकैः। सर्वशास्त्रनिपुणैर्यथागम, ग्रन्थ एष समशोधि सोचमैः ॥ ३७॥ (रथोद्धता) जिनविजयाभिधगणयो, ग्रन्थेऽस्मिन्नकृषतोद्यम सुतराम् । लिखितप्रथमादर्शाः शोधनलिखनादिपटुमतयः ॥ ३८॥ (आर्या) वसुखाश्वेन्दुप्रमिते (१७०८) वर्षे हर्षेण जीर्णदुर्गपुरे । राघोज्वलपञ्चम्यां, ग्रन्थः पूर्णोऽयमजनिष्ट ॥ ३९॥ (आयों) एतद्ग्रन्थग्रथनप्रचितात्सुकृतान्निरन्तरं भूयात् । श्रीजिनधर्मप्राप्तिः श्रोतुः कर्तुश्च पठितुश्च ॥४०॥ ( आर्या ) द्रव्यक्षेत्रादिभावा य इह निगदिताः शाश्वतास्तीर्थकृद्भिर्जीवा वा पुद्गला वा कलितनिजकलाः पर्यवापेक्षया ते । यावत्तिष्ठन्ति तावजगति विजयतां ग्रन्थकल्पद्रुमोऽयं, विद्वद्वन्दारकार्य प्रमुदितसुमनाः कल्पितेष्टार्थसिद्धिः ॥४१॥ (स्रग्धरा)॥ ग्रन्थाग्रं श्लोकसङ्ख्या २०६२१ । इति महोपाध्यायश्रीविनयविजयविहितो लोकप्रकाशः समाप्तः॥
इति महोपाध्यायश्रीविनयविजयगणिविरचिते श्रीलोकप्रकाशे
गुरुपरंपरावर्णनमयी प्रशस्तिः समासा॥
॥५८४॥
इति श्रेष्ठी-देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे ग्रन्थाङ्कः ८६.
Jain Education
a
l
For Private & Personel Use Only
w.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106