Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 87
________________ द्वारतत्खामिवर्णनम् ॥ १४ ॥ क्षेत्रस्य भरतस्याथ, वैताढ्यस्य च भूभृतः । सगुहस्य सकूटस्य, गिरेर्हिमवतोऽपि च ॥ १५ ॥ पद्महस्य श्रीदेव्याः, गङ्गादिसरितामपि । दाढानगान्तरद्वीपतद्वासियुग्मिवर्णनम् ॥ १६ ॥ ततो हैमवत क्षेत्रत द्वैतास्याद्रिवर्णनम् । ततो महाहिमवतः सरिच्छ्रङ्गहृदस्पृशः ॥ १७ ॥ क्षेत्रस्य हरिवर्षस्य, निषधाद्रेश्च वर्णनम् । शीताशीतोदयोः पञ्चहदवत्योश्च षोडशे १६ ॥ १८ ॥ देवकुरूत्तरकुरुपूर्वापर विदेहकाः । सामान्यतश्चतुर्धेति, महाविदेहवर्णनम् ॥ १९ ॥ विजयानां वक्षस्कारान्तर्नदीनां च कीर्त्तनम् । विजयेषु च वैताढ्य षट्खण्डनगरीस्थितिः ॥ २० ॥ गन्धमादन सन्माल्यवतोश्च गजदन्तयोः । उत्तराणां कुरूणां च विस्तरेण निरूपणम् ॥ २१ ॥ यमकायोर्हदानां च काञ्चनक्ष्माभृतामपि । जम्बूतरोः सकूदस्य, साधिपस्य निरूपणम् ॥ २२ ॥ सौमनस विद्युत्प्रभगजदन्त निरूपणम् । स्थितिर्देव कुरूणां च विचित्रचित्रभूभृतोः ॥ २३ ॥ हृदानां काञ्चनाद्रीणां, तरोः शाल्मलिनोऽपि च । इत्यादि वर्णनं व्यक्त्या, सर्गे सप्तदशे कृतम् १७ ॥ २४ ॥ मेरुश्चतुर्वनः कूटमेखला चूलिकादियुक् । साभिषेकशिलश्चाष्टादशे सर्गे निरूपितः १८ ॥ २५ ॥ गिरेर्नीलवतः कूटहददेव्यादिशालिनः । शीतानारीकान्तयोश्च नाममात्रेण वर्णनम् ॥ २६ ॥ क्षेत्रस्य रम्यकाख्यस्य, रुक्मिणोऽपि च भूभृतः । हैरण्यवतवर्षस्य, गिरेः शिखरिणोऽपि च ॥ २७ ॥ क्षेत्रस्यैरवताख्यस्य, षट्खण्डस्य पुरस्पृशः । वर्णनं च क्षेत्रशैलादीनां साम्यनिरूपणम् ॥ २८ ॥ सर्वाग्रमद्रिकूटानां खेट श्रेणीपुरामपि । नदीकुण्डहदादीनां चक्रिरत्नाईतामपि ॥ २९ ॥ चन्द्रसूर्यग्रहादीनां सज्जम्बूद्वीपवर्त्तिनाम् । एकोनविंशे सर्गेऽत्र, सर्वमित्यादि वर्णितम् १९ ॥ ३० ॥ विस्तृता Jain Educate national For Private & Personal Use Only १४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106