Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 86
________________ लोकप्रकाशे ३७ सर्गे ॥ ५७९ ॥ Jain Educatio ॥ अथ सप्तत्रिंशत्तमः सर्गः प्रारभ्यते ॥ पार्श्व शङ्केश्वरोत्तंसं, प्रणम्य परमेश्वरम् । लोकप्रकाशग्रन्थस्य, करोम्युक्तार्थबीजकम् ॥१॥ मङ्गलाचरणं तावदभिधेयप्रयोजने । शिष्टप्रसादनौद्धत्यत्यागो ग्रन्थस्य नाम च ॥२॥ अङ्गुलयोजनरज्जूपल्याब्धिनिरूपणानि गुणकारः । भागाहृतिसंख्येयासंख्यानन्तानि चादिमे सर्गे १ ॥ ३ ॥ ( गीतिः) द्रव्यक्षेत्रकाल भावलोकानां नाममात्रतः । आख्याऽथ धर्माधर्माभ्रसिद्धाख्यातिर्द्वितीय के २ ॥४॥ द्वारैः सप्तत्रिंशता यैरुक्ताः संसारिणोऽङ्गिनः । सर्गे तृतीय के तेषां द्वाराणामस्ति विस्तृतिः ३ ॥५॥ पृथ्वीकायादयः सूक्ष्माः, सर्गे ४ तुर्येऽथ पञ्चमे । त एव बादराः ५ षष्ठे, तिर्यञ्चो |दीन्द्रियादयः ६ ॥ ६ ॥ मनुष्याः सप्तमे ७ देवा, अष्टमे ८ नवमे पुनः । नारका ९ दशमे जन्मसंवेधः सर्वदेहिनाम् १० ॥७॥ महाल्पबहुता कर्मप्रकृतीनां च कीर्तनम् । एकादशे पुद्गलास्तिकायखरूपवर्णनम् ११ ॥८॥ इति द्रव्य लोकः ॥ क्षेत्रलोकेऽथ लोकस्य, सामान्येन निरूपणम् । दिशां निरूपणं लोके, रज्जुखण्डुककीर्त्तनम् ॥ ९ ॥ संवर्त्ति तस्य लोकस्य, खरूपं च निदर्शितम् । महत्तायामस्य रत्नप्रभापृथ्वीनिरूपणम् ॥ १० ॥ व्यन्तराणां नगरादिसमृद्धिपरिकीर्त्तनम् । इत्यादि द्वादशे सर्गे, सविशेषं निरूपितं १२ ॥ ११ ॥ स्वरूपं भवनेशानां तदिन्द्राणां च वर्णिता । सामानिकाग्र पत्यादिसंपत् सर्गे त्रयोदशे १३ ॥१२॥ चतुर्दशे च सप्तानां, नरकाणां निरूपणम् । प्रस्तटस्थितिलेश्यायुर्वेदनाद्युक्तिपूर्वकम् १४ ॥ १३ ॥ सर्गे पञ्चदशे तिर्यग्लोके द्वीपान्धिशंसनम् । जम्बूदीपस्य जगती tional For Private & Personal Use Only सर्गाणां बीजकं १० १५ ।। ५७९ ॥ १८ jainelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106