Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 84
________________ भावानां साद्यादिभंगार लोकप्रकाशे चत्वार्याश्रित्य निश्चितम् । क्षायोपशमिको भावः, सादिः सान्त इति स्मृतः ॥४१॥ भङ्गो द्वितीयः शून्योभावलोकेऽत्राप्येषां सम्यक्त्वसंश्रयात् । यदुत्पातोऽन्तश्च पुनर्मिथ्यात्वे केवलेऽपि च ॥४२॥ मत्यज्ञानश्रुताज्ञाने, स्यातां ३६ सर्गे भव्यव्यपेक्षया । अनादिसान्ते तुर्ये च, भङ्गेऽभव्यव्यपेक्षया ॥४३॥ क्षायोपशमिकोऽचक्षुर्दर्शनापेक्षया भवेत्। भने तृतीये भव्यानामभव्यानां तुरीयके ॥४४॥ विभङ्गज्ञानमवधिचक्षुषी किल दर्शने । दानाद्या लब्धयः ॥५७८॥ पञ्च, संयमौ देशसर्वतः॥४५॥ सम्यक्त्वमेषामित्येकादशानां च व्यपेक्षया । क्षायोपशमिको भावः, साद्यन्तः केवलं भवेत् ॥ ४६॥ विशेषावश्यकसूत्रवृत्त्योस्तु केनापि हेतुना षण्णामेव क्षायोपशमिकानां भङ्गकव्यवस्थोक्ता, ततः शेषाणामचक्षुर्दर्शनादीनां द्वादशानां यथासम्भवमस्माभिलिखितेति ज्ञेयम् । पारिणामिकभावोऽपि, सर्वपुद्गलगोचरः। सादिः सान्तश्च विज्ञेयः, पर्यायपरिवृत्तितः॥४७॥ शून्य एव भवेद्भङ्गो, द्वितीयोऽत्रापि पूर्ववत् । सादीनां द्वयणुकादीनां, ह्यनन्तत्वमसम्भवि ॥४८॥ तथा भवति भव्यत्वमाश्रित्य पारिणामिकः । अनादिसान्तः सिद्धा हि, नाभव्या न च भव्यकाः॥४९॥ तथोक्तं-'सिद्धे नो भवे नो अभवे' इति । अभव्यत्वं च जीवत्वं, चाश्रित्यानाद्यनन्तकः । स्यात्पारिणामिको भावोऽनयोर्यन्नोद्भवक्षयौ ॥५०॥ एवमुक्तचतुर्भङ्गया, या भावानामवस्थितिः। सा भावकाल इत्युक्तो, महाभाष्यप्रणेतृभिः॥५१॥ साईसपज्जवसिओ चउभंगविभागभावणा एत्थ । ओदइयाईयाणं तं जाणसु भावकालं तु ॥५२॥ इत्याद्यर्थतो १ तत्र हि मुख्यवृत्त्या कालमधिकृत्य सादिसान्तादिताप्रदर्शनमेव प्रयोजनं, न तु भावप्रकरणं तत्र । २५ ॥५७८॥ Jain Educational For Private Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106