Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लेश्याश्च षडसिद्धत्वमज्ञानासंयमावपि ॥ २७ ॥ अमी औदयिकाः सप्तदश भव्यव्यपेक्षया । भने तृतीये तुर्ये च, भङ्गेऽभव्यव्यपेक्षया ॥२८॥ सम्यक्त्वमौपशमिकं, चारित्रमपि तादृशम् । द्वावौपशमिकावेती, केवलं सादिसान्तकौ ॥ २९॥ आदिसम्यक्त्वलाभे यच्छ्रेण्यां वेदमवाप्यते । चारित्रमप्युपशमश्रेण्यामेवेदमाप्यते ॥३०॥ तयोश्चावश्यपातेन, भङ्गोऽत्र प्रथमः स्थितः। तदाश्रित्यौपशमिके, शून्या भङ्गास्त्रयः परे ॥ ३१॥ चारित्रं क्षायिकमथ, दानादिलब्धिपञ्चकम् । आश्रित्य क्षायिको भावो, भने स्यात्सादिसान्तके ।। ३२॥ तथोक्तं महाभाष्ये-“सम्मत्तचरित्ताईसाई संतो य ओवसमिओऽयं । दाणाइलद्धिपणगं चरणंपि अखाइओ भावो ॥१॥” ननु चारित्रमस्त्येव, सिद्धस्यापीति तत्कथम् । न साधनन्ते भङ्गे स्थादत्राकर्णयतोत्तरम् ॥ ३३ ॥ न चरित्री नाचरित्री, न चरित्राचरित्र्यपि । सिद्धा एवंविधाः प्रोक्ताः, पञ्चमाङ्गे जिनेश्वरैः ॥ ३४ ॥ 'सिद्धे नोचरित्ती' इत्यादि च तत्सूत्रं । सम्यक्त्वं क्षायिकमथ, केवले ज्ञानदर्शने । इत्येतत्रयमाश्रित्य, क्षायिका साधनन्तकः ॥३५॥ शेषौ तु भङ्गकावत्र, शून्यावेव स्थितावुभौ । अनादिसान्तोऽनाद्यन्तः, क्षायिका सम्भवेन यत् ॥ ३६॥ इच्छन्ति सिद्धस्याप्यन्ये, चारित्रं लब्धिपञ्चकम् । सिद्धत्वेऽपि हि निर्मूलमेतदावरणक्षयात् ॥ ३७॥ एषामावरणाभावेऽप्यसत्त्वं यदि कल्प्यते। क्षीणमोहादिकेष्वेवं, तदभाव: प्रसज्यते ॥ ३८॥ तदेतन्मतमाश्रित्य, चारित्रे लब्धिपञ्चके । सिद्धेषु खीकृते साद्यनन्त: स्यात्क्षायिकः परम् ॥ ३९॥ शेषा भङ्गास्त्रयः शुन्याः, क्षायिकस्याप्यपेक्षया । भङ्गव्यवस्था क्रियते, क्षायोपशमिकेष्वथ ॥४०॥ छाद्मस्थिकानि ज्ञानानि,
Jain Educatio
n
For Private & Personel Use Only
wnlm.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106