Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 81
________________ न्तरेषु यत्प्रोक्तं, कैश्चित्तेषां मतं ह्यदः। ॥९७ ॥ येषां मते तु नवमे, दशमे च गुणास्पदे । मिश्रोत्थं स्यात कृत्स्नं, तन्मोहानुपशान्तितः ॥९८॥ तन्मते त्वौपशमिकं, व्रतमेकादशे गुणे । पूर्वेऽनुमन्वते सद्वत्सत्सामीप्यादनागतम् ॥९९ ॥ इत्यौपशमिको भावौ, गुणस्थानेषु भावितौ । प्रतिभेदा विभाव्यन्ते, क्षायिकस्य गुणेवथ ॥ २०॥ सम्यक्त्वं क्षायिकं प्रोक्तं, तुरीयादिगुणाष्टके । क्षीणमोहे च चारित्रसम्यक्त्वे क्षायिके उभे ॥१॥लब्धयः पञ्च दानाद्याः, केवले ज्ञानदर्शने । तथा सम्यक्त्वचारित्रे, नवेत्यन्त्यगुणद्धये ॥२॥ इत्येवं क्षायिका भेदा, गुणस्थानेषु भाविताः। पारिणामिकभावस्य, प्रतिभेदानथ ब्रुवे ॥३॥ अभव्यत्वं च भव्यत्वं, तथा जीवत्वमित्यमी । मिथ्यादृष्टिगुणस्थाने, भावाः स्युः पारिणामिकाः॥४॥ द्वितीयादिक्षीणमोहपर्यन्तेषु गुणेषु च । स्यातां जीवत्वभव्यत्वे, अभव्यत्वविनाकृते ॥५॥ स्यादेकमेव जीवत्वं, चरमे च गुणद्वये । सप्रभेदा गुणस्थानेष्वेवं भावाःप्ररूपिताः॥६॥ कथं च ननु भव्यत्वाभावोऽन्तिमगुणद्वये। निर्वाणगमना) हि, भव्योऽहंद्भिर्यतः स्मृतः॥७॥ अन्रोच्यते-प्रत्यासन्नभाविसिद्धावस्थायां तदभावतः । अत्रापि भव्यत्वाभावः, शास्त्रकृद्भिर्विवक्षितः॥८॥ यद्वा परेण केनापि, हेतुना न विवक्षितम् । भव्यत्वमिह शास्त्रेषु, नोक्तमस्माभिरप्यतः॥९॥सान्निपातिकभावोऽथ, गुणस्थानेषु भाव्यते । अनेकधा स च यथागुणस्थानं परापरैः॥१०॥ यावतां यत्र भावानां, भेदा यावन्त ईरिताः। तेषां तत्र गुणस्थाने, कृते संकलने सति ॥ ११॥ स्यात्तावनेदनिष्पन्नो, भावोऽयं सान्निपातिकः । नामग्राहं गुणस्थानेष्वेषोऽथ परिभाव्यते ॥१२॥ मिथ्यादृष्टावौदयिकभावा पारिणामदानथ दुर्ववत्यन्त्यगुणका Jain Educat i onal For Private & Personel Use Only (@rww.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106