Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे काललोके ३५ सर्गे
बन्धः
॥५६४॥
सर्वान्त्य वर्गणाणवः । सर्वाद्यवर्गणाणुभ्यः, किलानन्तगुणाधिकान् ॥ २५ ॥ राशिश्चासां वर्गणानां, स्पर्द्धकं अनुभागप्रथमं भवेत् । समूहो हि वर्गणानामिह स्पर्द्धकमुच्यते ॥ २६॥ एकैकेन रसांशेन, वृद्धाश्च परमाणवः । अथै-18 तस्मान्न लभ्यन्ते, प्रथमस्पर्द्धकात्परम् ॥ २७॥ सर्वजीवानन्तगुणै, रसांशैरेव चाधिकाः। संप्राप्यन्तेऽत एवेदं, पूर्ण स्पर्द्धकमादिमम् ॥ २८ ॥ क्रमाद्रसनिरंशांशैर्वृद्धौ हि स्पर्द्धकं भवेत् । स्यादन्यस्पर्द्धकारम्भो, निरंशांशक्र-1 मत्रुटौ ॥ २९॥ आद्यस्पर्द्धकपर्यन्ताणुभ्यो येऽथ रसांशकैः। सर्वजीवानन्तगुणैः, प्रवृद्धाः परमाणवः॥३०॥ तेषां च समुदायः स्यात्, प्रथमा वर्गणा किल । द्वितीयस्य स्पर्द्धकस्य, ततः स्यात्पूर्ववत्क्रमः ॥ ३१॥ एकैकेन | रसांशेन, प्रवृद्धः परमाणुभिः। आरब्धा वर्गणा यावत्सिद्धानन्तांशसंमिताः ॥ ३२॥ एतासां वर्गणानां च, समुदायो भवेदिह । द्वितीयं स्पर्द्धकं पूर्णीभूतेऽस्मिन् स्पर्द्धके पुनः ॥ ३३॥ एकड्याद्यैः रसच्छेदैनं प्राप्यन्तेऽ-16 णवोऽधिकाः। प्राप्यन्ते किं तु ते सर्वजीवानन्तगुणधुवम् ॥ ३४॥ अणूनां प्राग्वदेतेषां, समूहो वर्गणाऽऽदिमा। तृतीयस्य स्पर्द्धकस्य, ततः स्यात्पूर्ववत्क्रमः ॥ ३५॥ भवन्ति स्पर्द्धकान्येवं, प्रवृद्धवानि रसांशकैः। सिद्धानन्तत-18 मभागतुल्यानीति जिना विदुः॥३६॥ अनुग्रहाय शिष्याणां, दृष्टान्तोऽत्र निरूप्यते । असद्भावस्थापनया, वर्गणास्पर्द्धकानुगः॥ ३७॥ आद्यस्य स्पर्द्धकस्याद्या, वर्गणा कल्प्यते यथा । रसांशशतसंयुक्तरारब्धा परमा
॥५६४॥ णुभिः॥ ३८॥ अथैकैकरसच्छेदवृद्धाणूत्थाभिरादितः। दशभिर्वर्गणाभिः स्यात्पूर्ण स्पर्द्धकमादिमम् ॥ ३९॥ ततो दशोत्तरशतरसांशैः परमाणुभिः। नाप्यते वर्गणारब्धा, नापि याद्यंशकाधिकैः॥४०॥ किंतु त्रिंशश
२८
Jain Education
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106