Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
लोकप्रकाशे भाव लोके
३६ सर्गे
॥५७१॥
Jain Education
न्तर्भावो वाच्यः, अत्र मतत्रयेऽन्त्यं' पटीयः, अन्ये चानीदृशे इत्यादि द्रव्यलोके लेश्याधिकारे प्रपञ्चितमस्ति ॥ कषायाः स्युः क्रोधमानमाया लोभा इमे पुनः । कषायमोहनीयाख्यकर्मोदयसमुद्भवाः ॥ ५७ ॥ गतयो देवमनुजतिर्यग्नरकलक्षणाः । भवन्तीह गतिनामकर्मोदयसमुद्भवाः ॥ ५८ ॥ नोकषायमोहनीयोदयोद्भूता भवन्त्यथ । स्त्रीपुंनपुंसकाभिख्या, वेदाः खेदाश्रया भृशम् ॥ ५९ ॥ मिथ्यात्वमपि मिथ्यात्वमोहनीयोदयोद्गतम् । एवमौदारिका भावा, व्याख्याता एकविंशतिः ॥ ६० ॥
ननु निद्रादयो भावास्तत्तत्कर्मोदयोद्गताः । अन्येऽपि संति तत्केयं, गणनाऽत्रैकविंशतेः १ ॥ ६१ ॥ अत्रोच्यते - यथासंभवमेष्वेवान्तर्भाच्या अपरेऽपि ते । सावर्ण्यसाहचर्याभ्यामाक्षेपाद्वोपलक्षणात् ॥ ६२ ॥ निद्रापचकमाक्षिप्तमज्ञानग्रहणाद्यतः । स्यादज्ञानमोहनीयावरणद्वितयोदयात् ॥ ६३ ॥ गतिग्रहणतः शेषनामकर्मभिदां व्रजः । आक्षिप्यतेऽविनाभावात्सावर्ण्याद्वोपलक्ष्यते ॥ ६४ ॥ आयूंषि वेदनीये द्वे, गोत्रे द्वे इत्यमून्यपि । आक्षिप्यन्तेऽत्र गत्यैवानन्यथाभावतः खलु ॥ ६५ ॥ जात्यादिनामगोत्रायुर्वेद्यानां कर्मणां ध्रुवम् । भवधारण हेतूनाम सत्येकतरेऽपि यत् ॥ ६६ ॥ गतिर्न संभवत्येवाव्यभिचारि ततः स्फुटम् । ज्ञेयमेषां साहचर्यमर्ह| त्यपि तथेक्षणात् ॥ ६७ ॥ हास्यादिषट्कमाक्षिप्तं वेदानां ग्रहणादिह । यदेतेऽव्यभिचारेण, वेदोपग्रहकारिणः १ अन्त्यं योगपरिणामो लेश्येत्यात्मकं मतं, नतु मनोयोगपरिणामो लेश्येत्यात्मकं, तस्य तुर्यमतत्वात् पृथगगणना तु तस्य योगपरि - णाम एवान्तर्भावात्
1
onal
For Private & Personal Use Only
भावप्रभेदाः
१५
२०
२५ ॥५७१॥
jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106