SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे भाव लोके ३६ सर्गे ॥५७१॥ Jain Education न्तर्भावो वाच्यः, अत्र मतत्रयेऽन्त्यं' पटीयः, अन्ये चानीदृशे इत्यादि द्रव्यलोके लेश्याधिकारे प्रपञ्चितमस्ति ॥ कषायाः स्युः क्रोधमानमाया लोभा इमे पुनः । कषायमोहनीयाख्यकर्मोदयसमुद्भवाः ॥ ५७ ॥ गतयो देवमनुजतिर्यग्नरकलक्षणाः । भवन्तीह गतिनामकर्मोदयसमुद्भवाः ॥ ५८ ॥ नोकषायमोहनीयोदयोद्भूता भवन्त्यथ । स्त्रीपुंनपुंसकाभिख्या, वेदाः खेदाश्रया भृशम् ॥ ५९ ॥ मिथ्यात्वमपि मिथ्यात्वमोहनीयोदयोद्गतम् । एवमौदारिका भावा, व्याख्याता एकविंशतिः ॥ ६० ॥ ननु निद्रादयो भावास्तत्तत्कर्मोदयोद्गताः । अन्येऽपि संति तत्केयं, गणनाऽत्रैकविंशतेः १ ॥ ६१ ॥ अत्रोच्यते - यथासंभवमेष्वेवान्तर्भाच्या अपरेऽपि ते । सावर्ण्यसाहचर्याभ्यामाक्षेपाद्वोपलक्षणात् ॥ ६२ ॥ निद्रापचकमाक्षिप्तमज्ञानग्रहणाद्यतः । स्यादज्ञानमोहनीयावरणद्वितयोदयात् ॥ ६३ ॥ गतिग्रहणतः शेषनामकर्मभिदां व्रजः । आक्षिप्यतेऽविनाभावात्सावर्ण्याद्वोपलक्ष्यते ॥ ६४ ॥ आयूंषि वेदनीये द्वे, गोत्रे द्वे इत्यमून्यपि । आक्षिप्यन्तेऽत्र गत्यैवानन्यथाभावतः खलु ॥ ६५ ॥ जात्यादिनामगोत्रायुर्वेद्यानां कर्मणां ध्रुवम् । भवधारण हेतूनाम सत्येकतरेऽपि यत् ॥ ६६ ॥ गतिर्न संभवत्येवाव्यभिचारि ततः स्फुटम् । ज्ञेयमेषां साहचर्यमर्ह| त्यपि तथेक्षणात् ॥ ६७ ॥ हास्यादिषट्कमाक्षिप्तं वेदानां ग्रहणादिह । यदेतेऽव्यभिचारेण, वेदोपग्रहकारिणः १ अन्त्यं योगपरिणामो लेश्येत्यात्मकं मतं, नतु मनोयोगपरिणामो लेश्येत्यात्मकं, तस्य तुर्यमतत्वात् पृथगगणना तु तस्य योगपरि - णाम एवान्तर्भावात् 1 onal For Private & Personal Use Only भावप्रभेदाः १५ २० २५ ॥५७१॥ jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy