________________
॥ ६८॥ यद्वा कषायग्रहणाद्धास्यादीनां परिग्रहः । सावर्ध्यात्सहचाराच्च, कषायनोकषाययोः॥६९॥ इत्यर्थतस्तस्वार्थवृत्ती, कर्मग्रन्थवृत्तावप्युक्तं-ननु निद्रापश्चकसातादिवेदनीयरत्यरतिप्रभृतयः प्रभूततरा भावा अन्येऽपि कर्मोदयजन्याः सन्ति, तत्किमित्येतावन्त एवेति निर्दिष्टाः?, सत्यं, उपलक्षणत्वादन्येऽपि द्रष्टव्याः, केवलं पूर्वशास्त्रेषु एतावन्त एव निर्दिष्टा दृश्यन्ते इत्यत्राप्येतावन्त एवास्माभिः प्रदर्शिता" इति॥ जीवत्वमथ भव्यत्वमभव्यत्वमिति त्रयः। स्युः पारिणामिका भावा, नित्यमीहक्खभावतः॥७॥ यदभव्यो न भव्यत्वं, भव्यो वा नैत्यभव्यताम् । कदाप्यजीवो जीवत्वं, जीवो वा न ह्यजीवताम् ॥७१ ॥ जीव एवात्र जीवत्वं, खार्थिक: प्रत्ययो ह्ययम् । भावि सिद्धिर्भवेद्भव्यः, सिद्ध्यनहस्त्वभव्यकः॥७२॥ भावाः सन्ति परेऽप्यस्तित्वादयः पारिणामिकाः। किंतु जीवाजीवसाधारणा इत्यत्र नोदिताः॥७३॥ जीवस्यैव परं ये स्युनत्वजीवस्य कर्हिचित् । ते त्रिपञ्चाशदत्रोक्ताः, सदीपशमिकादयः॥७४ ॥ तथोक्तं तत्त्वार्थभाष्ये-"जीवत्वभव्यत्वाभव्यत्वादीनि च, जीवत्वं भव्यत्वमभव्यत्त्वमित्येते त्रयः पारिणामिका भावा भवन्ति, आदिग्रहणं किमर्थमिति?, अत्रोच्यते, अस्तित्वमन्यत्वं कर्तृत्वं भोक्तृत्वं गुणवत्त्वमनादिकर्मसंतानबद्धत्वं प्रदेशवत्वमरूपत्वं नित्यत्वमित्येवमादयोऽ-13 प्यनादिपारिणामिका जीवस्य भावा भवन्ती"ति तत्त्वार्थटीकायां, कर्तृत्वं सूर्यकान्तेऽपि सवितृकिरणगोमय-13 संगमादुपलभ्यतेऽग्निनिवृत्तावतस्तत्सामान्यं, भोक्तृत्वं मदिरादिष्वप्यत्यन्तं प्रसिद्धं, भुक्तोऽनया गुड इति, क्रोधा-11 दिमत्वानुणवत्त्वं ज्ञानाद्यात्मकत्वाद्वा, परमाण्वादावपि गुणवत्त्वमेकवर्णादित्वात्समानं, अनादिकमसतान-1
Jain Education
For Private & Personal Use Only
jainelibrary.org