Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
क्षायोपशमिकान्यथ ॥ ८ ॥ जीवत्वमथ भव्यत्वं भवेतां पारिणामिके । पञ्चसंयोगजस्यैकविधस्यैवं हि संभवः ॥ ९ ॥ सान्निपातिक भेदानां षण्णां संभविनामिति । उक्ता भेदाः पञ्चदश, प्रतिभेदविवक्षया ॥ १० ॥ जीवेषु षडमी भावा, यथासंभवमाहिताः । अजीवेषु त्वौदयिकपारिणामिकसंज्ञकौ ॥ ११ ॥ तथाहि धर्माधर्मात्रास्तिकायकालेषु पारिणामिकः । एक एवानाद्यनन्तो, निर्दिष्टः श्रुतपारगैः ॥ १२ ॥ चलनस्थित्युपष्टम्भावकाशदानधर्मकाः । सर्वदाऽमी परिणताः, परिणामेन तादृशाः ॥ १३ ॥ आवल्यादिपरिणामोररीकारान्निरन्तरम् । अनाद्यनन्तो भावः स्यात्कालस्य पारिणामिकः ॥ १४ ॥ वर्त्तनालक्षणः कालः, क्षणावल्यादिकः परः । इति द्वेधा निगदितः कालः केवलशालिभिः ॥ १५ ॥ तेन तेन खरूपेण वर्त्तन्तेऽर्था जगत्सु ये । तेषां प्रयोजकत्वं यद्वर्त्तना सा प्रकीर्त्तिता ॥ १६ ॥ सा लक्षणं लिङ्गमस्य वर्त्तनालक्षणस्ततः । सर्वक्षेत्रद्रव्यभावव्यापी कालो भवत्ययम् ॥ १७ ॥ समयावलिकादिस्तु समयक्षेत्रवर्त्तिषु । द्रव्यादिष्वस्ति न ततो, बहिर्वर्त्तिषु तेष्वयम् ॥ १८ ॥ अन्यान्यसमयोत्पत्तेरेकक्षणात्मकोऽप्ययम् । आवल्यादिपरीणामं, सदा परिणमत्यहो ॥ १९ ॥ स्यात्पुद्गलास्तिकाये तु सायन्तः पारिणामिकः । भवेदौदयिकोऽप्यस्मिन्, भावः स्कन्धेषु केषुचित् ॥ २० ॥ स्कन्धानां द्वयणुकादीनां सायन्तः पारिणामिकः । तेन तेन स्वरूपेण, साद्यन्तपरिणामतः ॥ २१ ॥ स्यादेवं परमाणूनां सायन्तः पारिणामिकः । स्कन्धान्तर्भावतो वर्णगन्धादिव्यत्ययादपि ॥ २२ ॥ अनन्ताण्वात्मकाः स्कन्धा, ये जीवग्रहणोचिताः । स्यात्पारिणामिको भावस्तेषामौदयिकोऽपि च ॥ २३ ॥ शरीरादिनामकर्मोद्येन
ational
For Private & Personal Use Only
१४,
ww.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106