Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 69
________________ छद्मस्थानां भवन्ति याःक्षायोपशमिक्यो विनक्षयोपशमजा हिताः॥४७॥ भावा अष्टादशाप्येवं, क्षायोपशमिका इमे । कर्मक्षयोपशमतो, यद्भवंत्युक्तया दिशा ॥४८॥ अथाज्ञानमसिद्धत्वमसंयम इमे त्रयः । लेश्याषट्कं कषायाणां, गतीनां च चतुष्टयम् ॥ ४९ ॥ वेदास्त्रयोऽथ मिथ्यात्वं, भावा इत्येकविंशतिः। कर्मणामुदयाजातास्तत औदयिकाः स्मृताः॥५०॥ अतत्त्वे तत्त्ववुद्ध्या दिखरूपं भूरिदुःखदम् । मिथ्यात्वमोहोदयजमज्ञानं तत्र कीर्तितम् ॥५१॥ यदभ्यधायि-"जह दुबयणमवयणं कुच्छियसीलं असीलमसईए। भन्नइ तह नाणंपि हु मिच्छद्दिहिस्स अन्नाणं ॥५२॥" असिद्धत्वमपि ज्ञेयमष्टकर्मोदयोद्भवम् । प्रत्याख्यानावरणीयोदयाच स्यादसंयमः॥५३॥ लेश्याः कषायनिस्यन्द, इति येषां मतं मतम् । तेषां मते कषायाख्यमोहोदयभवा इमाः॥५४॥ येषां मते त्वष्टकर्मपरिणामात्मिका इनाः। अष्टकर्मोदयात्तेषां, मतेऽसिद्धत्ववन्मताः ॥५५॥ येषां योगपरीणामो, लेश्या इति मतं मतम् । तेषां त्रियोगीजनककर्मोदयभवा इमाः ॥५६॥ इति कर्मग्रन्थवृत्त्यभिप्रायः, तत्त्वार्थवृत्तौ च मनोयोगपरिणामो लेश्या इत्युक्तं, तथाहि-"ननु कर्मप्रकृतिभेदानां द्वाविंशं शतं प्रकृतिगणनया प्रसिद्धमाम्नाये, न च तत्र लेश्याः परिपठितास्तदेतत्कथम् ?, उच्यते, वक्ष्यते नामकर्मणि मनःपर्याप्तिः, पर्याप्तिश्च करणविशेषो, येन मनोयोग्यपुद्गलानादाय चिन्तयति, ते च मन्यमानाः पुद्गलाः सहकरणान्मनोयोग उच्यते, मनोयोगपरिणामश्च लेश्या" इति, एवं मतत्रयेऽपि यथाखं लेश्यानाम Jain Educati o nal For Private & Personel Use Only tolaw.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106