Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 67
________________ सादिवत् ॥ २२ ॥ आदिमाश्च त्रयो भावा, जीवानामेव निश्चिताः । अन्तिमौ तौ पुनर्जीवाजीवसाधारणौ स्मृतौ ॥ २३ ॥ एकत्र घ्यादिभावानां, सन्निपातोऽत्र वर्तनम् । यो भावस्तेन निवृत्तः, स भवेत्सान्निपातिक॥२४॥ कर्मग्रन्थसूत्रवृत्तितत्त्वार्थभाष्यभावप्रकरणादिष्वयमेव भावषट्कोद्देशक्रमः, अनुयोगद्वारसूत्रमहाभाष्यः सूत्रवृत्त्यादिषु तु औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिका भावा इति,तत्र कर्मग्रन्थादिसूत्रेषु यत्प्रवचनोक्तक्रमलङ्घनं तत्र लाघवं कालस्वामिभेदतारतम्यं च हेतुमामनन्ति । आंतमौहूर्तिकत्वेन, यत आयोऽल्पकालिकः। तथाऽल्पखामिक इति, प्रथमं स प्ररूपितः॥२५॥ नानाप्नुयुर्यद्बहवः, परिणाममिहेदृशम् । भावस्तदीपशमिको, मितखामिक इष्यते ॥ २६ ॥ भूरिभेदो भूरिकालो, भूरिखामिक एव च । क्षायिको ह्यौपशमिकात्तदुक्तस्तदनन्तरम् ॥२७॥ क्षायोपशमिकः पश्चात्, क्षायिकात्तत एव च । एवमौदयिकः प्रोक्तः, क्षायोपशमिकादनु ॥ २८ ॥ ततो भूरिकर्मयोगात्, खामिसाधर्म्यतोऽपि च । युक्तं क्षायोपशमिकादन्वौदयिकशंसनम् ॥ २९ ॥ अत्यन्तभिन्नः पूर्वेभ्यो, महाविषय एव यत् । पारिणामिक इत्युक्तो, भावादौदयिकादनु ॥ ३०॥ पूर्वेषां ह्यादिसंयोगादाविर्भवति यन्ननु । तद्युक्तमुदितः सर्वपर्यन्ते सान्निपातिकः ॥ ३१॥ | द्वौ नवाष्टादशाथैकविंशतिश्च त्रयः क्रमात् । एषामुत्तरभेदाः स्युस्निपञ्चाशच मीलिताः ॥ ३२॥ औ०२ क्षायि०९क्षायो०१८ औद० २१ पा०३, सर्व०५३ । सान्निपातिकभावस्तु, षइविंशतिविधो भवेत् । तत्रोपयुक्ताः षड् भेदा, विंशतिस्त्वप्रयोजकाः ॥३३॥ सम्यक्त्वं यद्भवत्यादौ, ग्रन्थिभेदादनन्तरम् । स्याद्यच्चोपश Jain Educ a tional For Private Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106