Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 65
________________ ॥ अथ श्रीभावलोकप्रकाशे षट्त्रिंशत्तमः सर्गः प्रारभ्यते ॥ । शश्वरं प्रणिदधे प्रकटप्रभावं, त्रैलोक्यभावनिवहादगमस्वभावम् । भावारिवारणहरि हरिसेवनीयं, वामेयमीश्वरममेयमहोनिधानम् ॥१॥ स्वरूपं भावलोकस्य, यथाऽऽगममथ ब्रुवे । गुरुश्रीकीर्तिविजयदीपोद्योतितहृद्हः ॥२॥ स्वतस्तैस्तैर्हेतुभिर्वा, तत्तद्रूपतयाऽऽत्मनाम् । भवनान्यौपशमिकादयो भावाः स्मृता इति ॥३॥ भवन्त्यमीभिः पर्यायैर्योपशमनादिभिः । जीवानामित्यमी भावास्ते च पोढा प्रकीर्तिताः॥४॥ आद्यस्तत्रीपशमिको, द्वितीयः क्षायिकाह्वयः।क्षायोपशमिको भावस्तार्तीयीको निरूपितः॥५॥ तुर्य औदयिको भावः, पञ्चमः पारिणामिकः। द्वयादिसंयोगनिष्पन्नः, षष्ठः स्यात्सान्निपातिकः॥६॥ यः प्रदेशविपाकाभ्यां, कर्मणामुयोऽस्य यत् । विष्कम्भणं स एवौपशमिकस्तेन वा कृतः॥७॥क्षयः स्यात्कर्मणामात्यन्तिकोच्छेदः स एवं यः। अथवा तेन निवृत्तो, यः स क्षायिक इष्यते ॥८॥ अभावः समुदीर्णस्य, क्षयोऽथोपशमः पुनः । विष्कभितोदयस्वं यदनुदीर्णस्य कर्मणः ॥९॥ आभ्यामुभाभ्यां निवृत्तः, क्षायोपशमिकाभिधः। भावस्तृतीयो| १० निर्दिष्टः, ख्यातोऽसौ मिश्र इत्यपि ॥ १०॥ उदयावलिकायां यत्, प्रविष्टं क्षीणमेव तत् । तदन्यत्तु भवेत्कर्म, शेषमत्रोपशान्तिमत् ॥ ११॥ वहेर्विध्यातशेषस्य, भस्मच्छन्नस्य साम्यभृत् । क्षीणोपशान्तं स्यात्कर्मेत्यवस्थाद्वितयान्वितम् ॥ १२॥ नन्वौपशमिकाद्भावो, भिद्यते नैष कर्म यत् । तत्रापि क्षीणमुदितमुपशान्तं भवेत्परम् । Jain Education & Ional For Private Personal Use Only Indjainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106