Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 53
________________ तथाहि-जीवप्रदेशाः सर्वेऽपि, शृङ्खलावयवा इव । स्युः परस्परसंबद्धाः, प्रतीका वपुषीव वा ।। ८२ ॥ एकस्मि-RI नपि तज्जीवप्रदेशे व्यापृते सति । सर्वेऽपि व्याप्रियन्तेऽन्ये, ग्रहीतुं कर्मणां दलम् ॥ ८३ ॥ यथा घटाद्युपादातुं, कराग्रे व्याप्ते सति । मणिबन्धकर्परांसादयोऽप्यवयवाः परे ॥८४॥ व्याप्रियन्ते मन्दमन्दतरमन्दतमं ध्रुवम् ।। एवं सर्वात्मप्रदेशव्यापारः कर्मसंग्रहे ॥८५॥ युग्मम् ॥ इदं च कर्मद्रव्याणां, ग्रहणं सादि भाव्यताम् । तद्रव्यदेशकालायैः, स्यादनादि प्रवाहतः ॥८६॥ ___एषां च कर्मद्रव्याणां, भागप्राप्तिर्यथा भवेत् । एकनाध्यवसायेन, गृहीतानां तथोच्यते ॥ ८७॥ क्रमान्म हत्तरो भागो, महास्थितिककर्मणाम् । एवं स्थित्यनुसारेण, भागोऽष्टाखपि कर्मसु ।।८८॥ आयुषस्तत्र सर्वेभ्यः, स्तिोको भागो भवेदिह । सर्वेभ्योऽल्पस्थितिकत्वाद्विशेषाभ्यधिकस्ततः॥ ८९॥ कर्माशानां भवेद्भागः, कर्म णोर्नामगोत्रयोः । परस्परापेक्षया तु, द्वयोः स्यादेतयोस्समः ॥९०॥ ज्ञानदर्शनावरणान्तरायाणां बृहत्तमः । भागः स्थानामगोत्राभ्यां, त्रयाणां च मिथः समः ॥९१॥ तेभ्योऽपि मोहनीयस्य, भवेद्भागो बृहत्तमः । न्याय्यो महास्थितेरस्य, महतां यखिलं महत् ॥ ९२॥ वेदनीयस्य भागः स्यान्मोहादल्पस्थितेरपि । सर्वेभ्योऽपि मही-|| यान् यत्, तत्र हेतुर्निशम्यताम् ॥ ९३ ॥ भागेऽल्पे वेदनीयस्य, स्फुटत्वं सुखदुःखयो। नानुभावयितुं शक्तमिदं ताहकखभावतः॥९४ ॥ वेदनीयं च भवति, प्रभूतदलिकं यदि । तदा खफलभूते ते, सुखदुःखे स्फुटा-1 त्मके ॥ ९५ ॥ ईष्टे व्यक्त्या दर्शयितुं, नान्यथेत्यंशकल्पना । एकाध्यवसायोपात्तकर्मद्रव्येषु भाव्यताम् ॥९६॥ १४ Jain Educatio n al For Private Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106