Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ शान् जघन्यतोऽपि हि । अवगायैव म्रियते, संख्येयान तु कर्हिचित् ॥५६॥ तथाऽत्राप्यवधीभूत, एक एव | विवक्ष्यते । नभाप्रदेशो मरणस्पृष्टोऽन्येऽस्पृष्टका इति ॥ ५७॥ कालचक्रस्य समयैर्निखिलैर्निरनुक्रमम् । मरणेनाङ्गिना स्पृष्टः, कालतो बादरो भवेत् ॥५८॥ कालचक्रस्य कस्यापि, म्रियते प्रथमक्षणे । अन्यस्य कालचक्रस्य, द्वितीयसमयेऽसुमान् ॥५९॥ तृतीयस्य पुनः कालचक्रस्यैव तृतीयके । समये म्रियते दैवात्तदैवायुःक्षये सति ॥ ६०॥ कालचक्रस्य समयैः, सर्वरेवं यथाक्रमम् । मरणेनाङ्गिना स्पृष्टः, सूक्ष्मः स्यादेष कालतः॥६१॥ यत्र चाद्यद्वितीयादिक्षणक्रममतीत्य च । मरणं स्यात्कालचक्रं, लेख्यकेतन्न गण्यते ॥ ६२॥ भावतः पुद्गलपरावर्त सूक्ष्म तथापरम् । उपदेष्टुं यथाशास्त्रं, वक्तव्यान्तरमुच्यते ॥ ६३ ॥ एकस्मिन् समये जीवा, ये पृथ्वीकाकायिकादयः प्रविशन्त्यवशाः कर्मनुन्नाः सूक्ष्माग्निकायिषु॥६४॥ लोकाकाशप्रमाणानां, खखण्डानां महीयसाम् । असंख्यानां खप्रदेशः, प्रमितास्तेऽङ्गिनः स्मृताः॥६५॥ ये पुनः पूर्वमुत्पन्नास्तेजस्कायतयाऽगिनः। पुनर्विपद्योत्पद्यन्ते, खकायेष्वेव कर्मभिः ॥ ६६ ॥ ते पूर्वोद्दिष्टसूक्ष्माग्निप्रविशजीवराशिषु । न लेख्यके समायान्ति, ते हि पूर्वप्रविष्टकाः ॥ ६७ ॥ एकक्षणप्रविशय, एभ्यः सूक्ष्माग्निकायिकाः। पूर्वप्रविष्टा ये ते स्युरसंख्येयगुणाधिकाः ॥ ६८॥ यतो जघन्यतोऽप्यतेऽन्तर्मुहर्त्तायुषोऽङ्गिनः। प्रतिक्षणं चासंख्येया, उत्पद्यन्ते नवा नवाः ॥६९॥ तेभ्यः कायस्थितिस्तेषामसंख्येयगुणाधिका । एकैकस्य ह्यसंख्येयकालचक्राणि सा गुरुः ॥७०॥ ततोऽप्यस्या अनुभागवन्धस्थानानि तानि च । असंख्येयगुणानि स्युः, संयमस्थानकानि च ॥ ७१ ॥ कायस्थिती Jain Educati onal For Private Personal use only स w.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106