Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नार्थाभावात्ता इहोक्ताः, प्रोक्तास्त्वावश्यकादिषु ॥२९॥ तदर्थिना च ते ग्रन्था, भावनीयाः सवृत्तयः। क्षेत्रावगाहाद्युक्तानां, वर्गणानामथोच्यते ॥ ३०॥ एता यथोत्तरं सूक्ष्मा, ज्ञेया बह्वणुका अपि । प्रथमौदारिकानहवर्गणायाः प्रभृत्यथ ॥ ३१ ॥ सर्वा अप्यङ्गुलासङ्ख्यभागमात्रावगाहनाः। यथोत्तरं च सूक्ष्मत्वात्, स ऊनोनो विभाव्यताम् ॥ ३२॥ औदारिकोचिता यावत्, क्षेत्रं स्पृशति वर्गणा । तदनहीं ततो न्यूनं, भाव्या इत्यखिला अपि ॥ ३३ ॥ औदारिकवैक्रियाद्यन्तरालेष्वत्र वर्गणाः । उक्ता एकैकाणुवृद्ध्याऽनहीं या उभयोरपि ॥ ३४ ॥ ताश्च सिद्धानामनन्ततमभागेन संमिताः। अभव्येभ्योऽनन्तगुणा, मानतः परिकीर्तिताः॥ ३५॥ औदारिकाद्यष्टकस्य, जघन्या ग्रहणोचिताः। उक्ता या वर्गणास्ताभ्य, उत्कृष्टा ग्रहणोचिताः॥ ३६॥ वस्वानन्ततमे भागे, यावन्तः परमाणवः। एकैकवृद्धस्तावद्भिरधिकाः स्युः किलाणुभिः॥ ३७॥ अत एवान्तराले स्युर्जघन्योत्कृष्टयोस्तयोः। अनन्ता वर्गणा मध्या, एकैकाणुविशेषिताः॥ ३८॥ सर्वाः परिणमन्त्येताः, वर्गणा विस्रसा| वशात् । यथाखमुपयुज्यन्ते, ततश्चौदारिकादिषु ॥ ३९ ॥ अयोग्याः स्युः पुनर्योग्याः, योग्याः पुनरयोग्यकाः। परिणामपराव द्विवर्तन्ते हि वर्गणाः॥४०॥ औदारिकप्रभृतय, एताश्चाहारकावधि । अष्टस्पर्शाः पञ्च वर्णा, रसगन्धद्वयान्विताः॥४१॥ एकवर्णरसगन्धः, स्याद् द्विस्पर्शश्च यद्यपि । परमाणुस्तथाप्येते, समुदाय-18 व्यपेक्षया ॥ ४२ ॥ तैजसाद्या वर्गणा अप्येवं वर्णादिभिः स्मृताः । स्पर्शतस्तु चतुःस्पर्शास्तेषां मृदुलघू ध्रुवौ ? ॥४३॥ अन्यौ द्वौ च लिग्धशीती, स्निग्धोष्णौ वा प्रकीर्तितौ। रूक्षोष्णौ रूक्षशीतौ वा, विज्ञैवेद्यो यथाग
Jain Educa
t
ional
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106