Book Title: Lokprakash Part_4
Author(s): Vinayvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 33
________________ Colle पूजितः । जनिष्यते दिने यस्मिन् तस्मिंस्तत्र पुरेऽभितः ॥ ३०० ॥ अन्तर्बहिश्च पद्मानां रत्नानां चातिभूयसाम् । वृष्टिर्भविष्यति प्राज्या, वारामिव तपात्यये ॥ १ ॥ ततः पित्रादयस्तस्य, मुदिता द्वादशे दिने । करिष्यन्ति महापद्म, इति नाम गुणानुगम् ॥ २ ॥ साधिकाष्टादश्यसमथैनं सुमतिः पिता । स्थापयिष्यति राज्ये खे, ततो राजा भविष्यति ॥ ३ ॥ राज्यं पालयतस्तस्य शक्रस्येव महौजसः । देवो महर्द्धिकावेत्य, सेविष्येते पदद्वयम् ॥ ४ ॥ यक्षाणां दाक्षिणात्यानां पूर्णभद्राभिधः प्रभुः । माणिभद्रश्रौत्तराहयक्षाधीशः सुरेश्वरः ॥ ५ ॥ एतौ द्वावपि यक्षेन्द्रौ प्रभोस्तस्य करिष्यतः । सेनान्याविव सैन्यस्य, कार्यं शत्रुजयादिकम् ॥ ६ ॥ सामन्तादिस्ततस्तस्य, श्रेष्ठिपौरजनादिकः । मिथः परिच्छदः सर्वः सम्भूयैवं वदिष्यति ॥ ७ ॥ अहो सुरेन्द्रौ कुर्वाते, अस्यास्माकं महीपतेः । सेनाकार्यं महाश्चर्य पुण्य प्राग्भारशालिनः ॥ ८ ॥ महापद्मनृपस्याथ, देवसेन इति स्फुटम् । नामास्तु गुणनिष्पन्नं, द्वितीयं रुचिरं ततः ॥ ९ ॥ देवसेननृपस्याथ, राज्यं पालयतः क्रमात् । उत्पत्स्यते हस्तिरत्नं, चतुर्दन्तं महोज्वलम् ॥ १० ॥ शक्रमैरावणारूढमिव तं तेन हस्तिना । विश्वरतं शतद्वारपुरे वीक्ष्य जनाः समे ॥ ११ ॥ वदिष्यन्ति मिथस्ते यद्देवसेनमहीपतेः । वाहनं विमलो हस्ती, ततो विमलवाहनः ॥ १२ ॥ तृतीयमिति नामास्तु, त्रिनामैवं भविष्यति । महापद्मो देवसेनो, राजा विमलवाहनः ॥ १३ ॥ एवं त्रिंशतमब्दानि, राज्यं भुक्त्वा महाशयः । दानं दत्त्वाऽऽदिकं प्रौढोत्सवैः स प्रव्रजिष्यति ॥ १४ ॥ द्वादशाब्दानि सार्द्धानि, पक्षेणाभ्यधिकान्यथ । छद्मस्थत्वे तपः कृत्वा, स केवलमवाप्स्यति ॥ १५ ॥ सप्रतिक्रमणो Jain Educatornational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106